SearchBrowseAboutContactDonate
Page Preview
Page 1247
Loading...
Download File
Download File
Page Text
________________ चेइय 1223- अभिधानराजेन्द्रः-भाग 3 चेइय गृहस्थस्यापि तुल्य इति तेनाऽपि तन्न कर्त्तव्यं स्यात् / अथ गृहस्थः कुटुम्बाद्यर्थे सावद्ये प्रवृत्तस्तेन तत्रापि प्रवर्तनम्, वतिस्तुतत्राप्रवृत्तत्वाकथं स्नानादौ प्रवर्तते इति?ननु यद्यपि कुटुम्बाद्यर्थं गृही सावद्ये प्रवर्तते, तथाऽपि तेन धर्मार्थ तत्र न प्रवृत्तिः तहह्येकं पापमविरतविरत्याऽन्यदप्या चरितव्यम् / अथ कुपोदाहरणात् स्नानादि युक्तम्, एवं यतेरपि तद् युक्तमेव, एवं च कथं स्नानादौ यति धिकारीति? अत्रोच्यतेयतयः सर्वथा सावधव्यापारान्निवूत्ताः, ततश्च कूपोदाहरणेनापि तत्र प्रवर्तमानानां तेषामवद्यमेव चित्ते सफुरति, नधर्मस्तत्र सदैव शुभध्यानादिप्रवृत्तत्वात् / गृहस्थास्तु सावो स्वभावतः सततमेव प्रवृत्ता नपुनर्जिनाचिनादिद्वारेण स्वपरोपकारात्मकधर्मे, तेन तेषां स एव चित्ते लगति निरवद्य इति कर्तृपरिणामवशादधिकारीतरौ मन्तवयाविति स्नानादौ गृहस्थ एवाधिकारी, न यतिरित्यष्टकवृत्तिकृतः / अत्र द्रव्यस्तवे प्रवृत्तिकाले स्फुरणं साधोः किमबद्यसद्भावात्. अग्रिमकालऽवद्यस्य स्वशोधत्वज्ञानात्, स्वप्रतिज्ञोचितधर्मविरुद्धत्वज्ञानात्, आहार्यारोपाद् बा? नाद्यद्वितीयौ। गृहितुल्ययोगक्षेमत्वादुभयासिद्धेः / न तृतीयः / गृहिणाऽपि योगादिनिषेधाय धर्मार्थ हिंसा न कर्तव्येति प्रतिज्ञातकरणाद्विरुद्धवज्ञाने स्फुरितावद्यत्वेन द्रव्यस्तवाकरणप्रसङ्गात् / अध्यात्मानयनेन द्रव्यस्तवीहिंसाया अहिंसीकरणेनाविरोधस्याप्युभयोस्तौल्यात् / नापि तुर्यः / अवद्याहार्यारोपस्येतरेणापि कर्तुशक्यत्वात्; तेन्द्रव्यस्तवत्यागस्यापि प्रसङ्गादिति / मालिनारम्भस्याधिकरिविशेषस्याभावादेव न साधोर्देवपूजायां प्रवृत्तिः ,मलिनागारम्भी हि तन्निवृत्तिफलायां तत्राधिक्रियते दुरितवानिक तन्निवृत्तिफले प्रायश्चिते / तदाह हरिभद्रः"असरदारं भपवित्ता, जं गिहिणो तेण तेसि बिन्नेया / निध्वित्तिफला | एसा, तहा परिभावइयव्वमिणं / / 1 / / " अत एव स्नानेऽपि साधो धिकारः तस्य देवपूजाङ्गात्वात् / प्रधानाधिकारिण एव चाङ्गेऽधिकारो, नान्वस्य, स्वतन्त्रोपगतभङ्गप्रसङ्गादिति युक्तं पश्यामः / असदारम्भनिवृत्तिफलत्वं च द्रव्यस्तवस्य चारित्रमोहक्षयोपशमजननद्वारा फलतः शुभयोगरूपतया स्वरूपतश्वात एव ततो नारम्त्रिकी क्रिया शुभयोगे प्रमत्तसंयतस्यानाराम्भकतायाः प्रज्ञप्तौ दर्शितत्वोत्, अर्थेनातिदेशेन देशबिरेष्वितरालाभात् / प्रति / 'किरिया' शब्देऽस्मिन्नेव भागे 544 पृष्ठे क्रियाऽधिकार उक्तः) (अविज्ञोपचितादि चतुर्विधं कर्म नोपचीयते इति 'कम्म' शब्देऽस्मिन्नेव भागे 256 पृष्ठे समुक्तम्) तन्निष्कर्षस्त्वेवम्"सतनातो न च हिंसा, यस्मादेषैव तन्निवृत्तिफला / तदधिकनिवृत्तिभावाद्, विहितमतो दुष्टमेतदिति / / 1 / / इति मूल एव विस्तरेणाभिधास्यते चैतदुपरिष्ठादित्यलं प्रसङ्गेन। "इयं प्रोक्ता सम्यक् य इह समये वाचकवरैः, क्रियाया निष्कर्ष कलयति कृति शान्तमनसा। यशःश्रीस्तस्योश्चैरुपचलतिभव्यस्य गुणिनो, गुणानां बाल्लभ्यात्परमरसिकेव प्रणयिनी'' ||1||30|| (10) द्रव्यस्तवे गुणानुपदर्शयतिवैतृष्णयादपरिग्रहस्य दृढता दानेन धर्मान्नप्तिः, सद्धर्मव्यवसायतश्च मलिनारम्भानुवन्धच्छिदा। चैत्यानत्युपनम्रसाधवचसामाकूर्णनात्कर्णयोरक्षणोश्चामृतमज्जन जिनमुखज्यात्स्नासमालोकनात्॥३१॥ (वैतृष्ण्यादिति) वैतृष्णवाद् धनतृष्णाविच्छेदादपिरग्रहस्याप-- रिग्रहव्रतस्य दृढता भवति। तथा दानेन कृत्वा धर्मान्नतिर्भवति। विहितं च तज्जिनभवनकारणे पूर्वाङ्गम्-'अत्रासन्नो विजनः, संबन्ध्यपि दानमानसत्कारैः। कुशलाशयवान् कार्यो, नियमाद्बोध्यङ्गमयमस्य' 11 / इत्यादिना / तथा मलिनारम्भानुबधस्य छिदा प्रासादादिकर्तव्यताऽऽनुसंधाने सदारम्भाध्यवसायस्यैव प्राधान्यादितरस्यानुषङ्गिकत्वात्, तत्प्रवाहप्रवृत्त्यैव वंशतरणोपपत्तेः। आह च-"अक्षयनीत्या ह्येवं, शेयमिदं यशतरकाण्डम्" इति / तथा चैत्यानत्वर्थमुपनप्रा उपनमनशिला ये साधवस्तेषामेकदेशे देशनोद्यतानां यानि वचांसि तेषामाकर्णनात् कर्णयोरमृतमञ्जनम् / तथा–जिनमुखस्यभगवत्प्रतिमावन्दनादौ ज्योत्स्नाया लावण्यसमालोकन्द्यदहणोर्नयाश्चामृतमज्जनम्, विगलितवेद्यान्तरोऽभयानन्दात्मा शान्तरसोद्बोध इति यावत् / / 31 / / नानासङ्घसमागमात् सुकृतवतद्वन्धहिस्तव्रजस्वस्तिप्रश्नपरम्परापरिचयादप्यद्भतोडावना। वीणाबेणुमृदङ्ग संगमचमत्काराच नृत्योत्सवस्फारार्हड्गुणलीनताऽभिनयनाद् भेदभ्रमप्लावना॥३५॥ (नानेति) नानाप्रकाराःस्वदेशीयान्यदेशीया ये सङ्घस्तेषां समागमात्सुकृतवन्तो ये सन्त एव गन्धहस्तिनो गन्धमात्रेण परवादिगजभञ्जकत्यात्, तेषां व्रजःसमूहः, तत्र या स्वस्तिप्रश्नस्य परम्परा, तस्याः परिचयादप्यदुतरसस्योद्भावनोबोधः, ततश्च सद्योगवञ्चकादिक्रमेण परमः समाधिलाभ इति / च पुनः वीणावेणुमृदङ्गमेन तौर्यत्रिकसंपत्त्या यश्चमत्कारः, ताते नृत्योत्सवे स्फारा येऽर्हद्गुणास्तल्लीनता विभावानुभावीभूतं यदिभिनयनं तस्ताद्भेदभ्रमस्य भेदविपर्ययस्यप्लावना परिगलनम्। तथा च समापत्त्यादिभेदेनार्हद्दर्शनं सयादिति भावः। समापत्तिलक्षणमिदम्"मणेरिवाऽभिजात्यस्य, क्षीणवृत्तेरसंशयम् / तावत् स्यात्तदञ्जनत्वात्समापत्तिः / प्रकीर्तिता // 1 // '' इति / आपत्तिस्तीर्थकृन्नामकर्मबन्धः; संपत्तिस्तद्भावाभिमुख्यमिति योगग्रन्थे प्रसिद्धम् // 32 / / पूजापूजकपूज्यसंगतगुणध्यानावधानक्षणे, मैत्री सत्त्वगणेष्वनेन विधिना भव्यः सुखी स्तादिति। वैरवयाधिविरोधमत्सरमदक्रोधैश्च नापप्लवः, तत्को नाम गुणो न दोषदलनो द्रव्यस्तवोपक्रमे? // 33 // (पूजेति) पूजापूजकपूज्यसंगतास्त्रयान्वयिनो गुणाः, तेषां यदद्दगष्टष्टेसमापत्तिसमाधिफलं ध्यान, ततो यद् अवधानमनुपेक्षा, तत्ज्ञक्षे तदवसरे, अनने विधिना द्रव्यस्तवविधिना भव्यः सर्वोऽपि सुखी स्तादिति सत्त्वगणेशु प्राणिसमूहेषु मैत्री भवति। अत एवाल्पबाघया बहुप्रकारादनुकम्पोपत्तिरिति पञ्चलिङ्गीकारः / तथा वैरं च व्याधिश्च विरोधश्च मत्सरश्च मदश्च क्रोधश्च तैः कृत्वोपप्लव उपद्रवो न भवति, तत्तस्मात्कारणात् द्रव्यस्तवोपक्रमे-उपक्रम्यमाणे द्रव्यस्तवे, दोषदलनो दोषोच्छेदकारी को नाम गुणो न भवति? अपि तु भूयानेवव भवतीति भावः // 33 // उक्तशेषमाह-ज्ञावयज्ञोऽयं द्रव्यस्तवो नाऽत्र हिंसादोषःसतन्त्रोक्तदशत्रिकादिकाविधौ सूत्रार्थमुद्राक्रिया
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy