________________ चेइय 1222- अभिधानराजेन्द्रः-भाग 3 चेइय वाक्यस्यादौ दृश्यः / एतद्गता द्रव्यस्तवविषया देशना प्ररूपणा। तथा हि"यस्तृणमयीभपि कुटी, कुर्याद्दद्यात्तथैकपुष्पमपि। भक्त्या परमगुरुभ्यः, पुण्योन्मानं कुतस्तस्य? ||1|| तथा"जिनभवनं जिनबिम्बं, जिनपूजां जिनमतं च यः कुर्यात्। तस्य नरामरशिवसुख-फलानि करपल्लवस्थनि।।१।।" इति। अनया हि देशनया श्रोता द्रव्यस्तवं कारितो भवति / ततो वाचकमुख्यस्यापि द्रव्यस्तवकारणमस्तीति भावः / चैवेति समुच्चयार्थः / तदेवं स्वयंकरणमेवाश्रित्य पुष्पादिनिषेधनं साधोः, न पुनरमुमोदनाद्वपीति प्रकृतमिति / इह च गद्यप्याचार्येण वैरादाहरणतो द्रव्यस्तवकारणं साधोरविशेषेण विधेयतया दर्शितम्, तथाऽप्यापवादिकमैवेदमित्यवसेयम्, वन्दनकनियुक्त्या तस्य भग्नशुभपरिणामलम्बनतयोपदिष्टवात्। तथाहि"निया वासविहारं, चेश्यभत्तिं च अजियालाभं। बिगईसुय पडिबंध, निद्दोसं चोश्या वेंति॥१॥ तत्र चैत्यभक्तिं प्रत्युक्तम्-- ''चेइयकुलगणसंघे, अन्नं वा किं पिकाउ निस्साणं। अहवा वि अज्जवइरं, तो सेवंती अकरणिज्जं // 1 // वेश्यपूआ कि वइ-रसामिणा भुणियपुव्वसारेणं / न कया पुरियाइ ततो, मोक्खंगं सा वि साहूणं / / 2 / / " इहं चायं समाधिस्तत्रैवोक्तः"ओभावणं परेसिं, सतित्थउब्भावणं च वच्छल्लं। नगणेति गणेमाणा, पुव्वुचियपुप्फमहिमं च।।१।।" (गणेमाण त्ति)आलमन्नानि गणयन्तः।अपवादतस्तु स्वयं करणं कारणं चानुमतमेव। यतः कल्प उक्तम्"सीलेह मंखफलप, इयरे चोयंतितंतुमाईसु। अहजोइंति सवित्तिसु, अणिच्छफेडिंति दीसंता।।१॥" (मंजफलए त्ति) महफलकानीव मवफलकानि निर्वाहहेतुचैत्यानि। तथा "अन्नाभावे जयणा-ऐं मग्गनासो भवेज मा तेण। पुव्वकया ययणाई, ईसिंगुणसंभवे इहरा॥१॥ चेइयकुलगणसंघे, आयरियाणं च पवयण सुएय। सव्वेसु वितेण कयं, तवसंजममुज्जमतेणं // 2 // इति। तथा वाचकमुख्यस्यापि द्रव्यस्तवफलाद्यभिधानायैव देशना; फलार्थिनस्तु स्वत एव तत्र प्रवर्तन्ते; यदि पुनः साक्षात् परप्रवतनाय सा स्यात्तदा साक्षादेव तत्र तत्प्रवर्तनमपि विधेयं स्यात् / तथा च - वैरस्वामिचरितावलम्बनस्य पुष्टत्वमेव स्याद्, अपुष्टत्वं च तस्यावेदितमिति / द्रव्यस्तवादिश्रावकधर्मप्ररूपणं च यतिधर्मासमर्थस्यैव शिष्यस्य विधेयम्, अन्यथा आरम्भेषु प्रवर्तनदोषसंभवात् / आहच"जइधम्मम्भिऽसमत्थे, जुज्जइ तहेसणं पिसाहूणं। तदहिगदोसनिवित्ती-फलं ति कायाणुकंठ्ठा // 1 // " इति गाथार्थः // 15 // पञ्चा०६बिव०। ध०। ननु यदि द्रव्यस्तवानुमतिर्भावस्तवोपचयायापेक्ष्यते तदा द्रव्याचैव कर्थनापेक्ष्यते? / तत्राहदुग्धं सर्पिरक्षते न तु तृणं साक्षाद्ययोत्पत्तये, द्रव्यार्चानुमतिप्रभृत्यपि तथा भावस्तवो न त्विमाम् / इत्येवं शुचितशास्त्रतत्वमविदन् यत्किञ्चिदापादयन, किं मत्तोऽसि पिशाचकी किमयवा किं वातकी पातकी?।२८ | (दुग्धमिति) सर्पिघृतमथोत्पत्तये दुग्धं क्षीरमपेक्षते, क्षीरादेवाव्यवधानेन सर्पिष उत्पद्यमानस्योपलम्भात्, न तु तृणम्,गवाभ्यहारेण तथापरिणम्यमानमपि व्यवधानात् / तथा भावस्तव उपचितावयविस्थानियो, द्रव्यार्चानुमतिप्रभृत्यपि स्वावयवभूतं कारणमुक्ततयाऽपेक्षते,न त्विमां द्रव्यर्चा, वयवधानात् / अत एव द्रव्याग्निकारिकावयुदासेन भावाग्निकारिकैवानुज्ञाता साधूनाम् ।प्रति / द्रव्यार्चाद्रव्यार्चामवलम्बते न हि मुनिस्ततु समर्थो जलं, बाहुभ्यामिव काष्ठमत्र विषमं नैतावता श्रावकः। बाहुभ्यां भववारि तर्तुमपटुः काष्ठोपमा नाश्रयेद, द्रव्यामिपि विप्रतारकगिरा भ्रान्तीरनासादयन्? ||5|| (द्रव्यामा_मिति) अत्र जगति बाहुभ्यां जलं तर्तुं समर्थः विषम सकण्टक काष्ठमिव मुनिर्भुजेन भवजलतरणक्षमः, तर्हि नैव द्रार्चामवलम्बते, स्वरूपः सावद्यायास्तस्याः सकण्टककाष्ठस्थानीयाया अवलम्बनायोगात्। नैतावता कुश्रुतादिदोषेण स्वौचित्यमविदन श्रावकः बाहुभ्या भववारि संसारमुद्रं तर्तुमपटुः सन काष्ठोपमा विषमकाष्ठतुल्या द्रव्याचामाश्रयेत्?, किं कुर्वन् प्रतारकस्य गिराऽपि भ्रान्तीः विषययान् अनासादयन् अप्राप्नुवन्, तदा ननु स्वौचित्यापरिज्ञाने स्यादेव तदनाश्रयणं मूग्धस्येति भावः // 26 // अक्षीणाविरतिज्वरा हि गृहिणो द्रवयस्तवं सर्वदा, सेवन्ते कटुकौषधेन सद्दशं नानीदृशाः साधवः। इत्युञरधिकारिभेदमविदन् बालो व्या खिद्यते, नैतस्य प्रतिमाद्विषो व्रतशतैर्मुक्तिः परं विद्यते // 30 // "अक्षीणेत्यादि / हि निश्चितम, अक्षीणोऽविरतिरेव ज्वरो येषां ते तथा, गृहिणः,ज्वरापहारिणा कटुकौषधेन सदृशद्रव्यस्तवं सर्वदा सेवन्ते, अनीद्दशा क्षीणाविरतिज्वराः साधवो न सेवन्ते,ननीरोवैद्योक्तम् औषधं रोगवान्न सेवत इति लोकेऽपि सिद्धमिति / इत्यचैरतिशयेनाधिकारिभेद मलिनारम्भ तदितराधिकारिविशेषमविदन् बालोऽज्ञानी वृया खिद्यते मुधा खेदं कुरुते / एतस्य प्रतिमाद्विषः प्रमिाशत्रोः परं केवलं मुक्तिन विद्यते, प्रवचनार्थिन एकमत्राश्रद्धानवतो योगशतस्य निष्फलत्वम् / तदुक्तमाचारे-"वितिगिच्छसमावण्णेणं अप्पाणेणं णो लभइ समाहि" त्ति। अत्र प्रत्यवतिष्ठन्तेननु यतिस्त्र कस्मान्नाधिकारी, यतः कर्मलक्षणो व्याधिरेको द्वयोरपि यतिगृहस्थयोः,अतस्तचिकित्साऽपि पूजादिलक्षणा समैव भवति ततौ यद्यस्याधिकारस्ततः कथं पुनस्तत् प्रतिपिद्धम्?'स्नानमुद्वर्तनाभ्यङ्गनखकेशादिसंस्क्रियाम् / गन्धं माल्यं च धूपंच, त्यजन्ति ब्रह्मचारिणः।१।" इति वचनान्मुनेः स्नापूर्यकत्योवार्चनस्य तरिमन्नाधिकारः / नैवम्। भूतार्थस्यैव तसय निषेधात्। यदि यतिः सावधानिवृत्तस्ततः को दोषो यत् स्नानं कृत्वा देवतार्चनं न करोति? यदि हि स्नानपूर्वकदेवार्चने साथद्ययोगः स्यात् तदाऽसौ