________________ चेइय 1220- अभिधानराजेन्द्रः-भाग 3 चेइय यत्र तथात्वात्, यतिधर्मस्य प्रागभिधाने श्रोतुस्तदशक्तत्वात्तेन प्रतिश्राद्धधर्मप्ररूपणं यथाऽवसरसङ्गत्या, तथा भावस्तवस्य प्रागभिधाने तदशक्तिप्रकाशकं प्रत्येव द्रव्यस्तवाभिधानमिति क्रमस्यैव रूढत्वात्। अत एव गृहपतित्वं वन्दिग्रहविमोक्षणन्यायः सूत्रसिद्धः / तदिदमाहसौत्रस्य सूत्रसिद्धस्य क्रमस्योल्लङ्नादुल्लङ्घनमाश्रित्य, न इति निश्चये, दोषघटना दोषसङ्गतिः, सद्दशीतुल्या, क्रमप्राप्तेरुपदेशे न तु कोऽपि दोष इति अत्युपन्नं प्रति क्रमविरुद्धोपदेशे सुकररुचेरुत्कटत्वेनाप्रतिषेधानुमतिः प्रसङ्गदोषावढा, सम्यग्दृष्टिं प्रति तु यथायोग्योपदेशेऽपि न दोष इत्यनुव्यवहारादिग्रन्थार्णवसंप्लवव्यसनिनां प्रसिद्धः पन्थाः। तत्तस्मात्कारणात्, सम्यगवैपरीत्येन, विधिभक्तिपूर्वमुचितस्य द्रव्यस्तवस्य स्थापने उपदेशे, जातप्रतिभाऽऽख्यनिग्रहस्थानस्य लुम्पकस्य मुखम्लानिं विना परं दूषणं वयं न विद्मो न जानीमः / विनोक्तिरङ्कारः / / 25 / / प्रति०। मिश्रस्यानुपदेश्यताऽऽशङ्कानाशंसाऽनुमतिर्दयापरिणतिस्थैर्यार्थमुद्यच्छतां, संवासानुमतिस्त्वनायतनतो दूरस्थितानां कथम् ? / / हिंसाया अनिषेधनानुमतिरप्याज्ञास्थितनां न यत, साधूनां निरवद्यमेव तदिदं द्रव्यस्तवश्लाघनम् // 26|| द्रव्यस्तवे हिंसाऽनुमतेर्यत् विशेषाभावात् सामान्याभाव इत्यनुशास्ति भगवापूजादर्शनाद्वहवो जीवाः सम्यग्दर्शननैर्मल्यमासाद्य चारित्रप्राप्त्या सिद्धिसौधमध्यासतामिति भावनया पूजा कर्तव्येति दयापरिणतेः स्थैर्यार्थमुद्यच्छताम् उद्यमं कुर्वाणानां साधूनां नाशंसाऽनुमतिर्भवति, उपदेशफलेच्छाया हिंसाया अविषयत्वात्, संवासानुमतिस्तु अनायतनतो हिंसायतनाद् दूरस्थितानां कथं भवति? पुष्पाद्यायतनमेवानायतनमिति चेत्, तर्हि समवसरणस्थितानामनानायतनवर्तित्वप्रसङ्गः। न च देवगृहेऽपि स्तुतित्रयकर्पणात्परतोऽवस्थानमनुज्ञातं साधूनामिति विधिवन्दनाद्यर्थमवस्थाने नोक्तदोषः। आज्ञास्थितानां क्रमाद्विरुद्धोपदेशाद्याज्ञावर्तिनां हिंसाया अनिषेधनानुमतिरपि यद्यस्मान्न भवति, तत्तस्मात्कारणादिदं द्रव्यस्तवस्य श्लाघनं माहात्म्यप्रकाशनं साधूनां निरवद्यमेव शुभानुबन्धित्वादिति निष्कर्षः / / 26 / / कश्चिदाह-स्वातन्त्र्येण साधवःकिं न कुर्वन्ति, द्रव्यस्तवो यदि साधूनाअनुमोद्यस्तदा तेषां कर्तव्यः स्यादिति चेत्किमिदं स्वतन्त्र, साधने प्रसङ्गापादनं वा? नाश्वः साधुकर्त्तव्यः, तस्यानाश्रितत्वेनासाध्यत्वादन्त एवाहसाधूनामनुमोद्यमित्यथ न किं कर्त्तव्यमर्चादिकं, सत्यं केवलसाहचर्यकलनान्नेष्टानुमानप्रथा। व्याप्तिः क्वाऽपि गता स्वरूपपनिरघाचारादुपाघेस्तव, क्लीवस्येव वृथा वधूनिधुवने तद्वालतर्के रतिः // 27 // साधूनामप्यनुमोद्यमिति हेतोः साधूनामर्चादि किं न कर्तव्यम्, यद्यनुमोद्यं स्यात्कर्तव्यं स्यात्, न च कर्त्तव्यमस्ति, अतो नानुमोद्यमिति विपर्ययपर्यवसानम्। तथा चैततर्कसहकृतान्मिश्रत्वादिहेतोरननुमोद्यत्वसिद्धेरित्यर्थः / अत्रोत्तरम्-सत्यम्: यत्त्वयाऽऽपाततः प्रसञ्जनं कृतं, परं केवलस्य साहचर्यस्य कलनात् पुरस्करणादनमानप्रया प्रसङ्गा पादाननिष्ठा, नेष्टा, न हि साहचर्यमानं व्याप्तिः, पार्थिवत्वलोहलेख्यत्वयोरपि तत्प्रसंगात् / तथा च तर्कमूलव्याप्त्यसिद्धेर्मूलशैथिल्पदोष इत्यर्थः / यद्यदनुपमोद्यं तत्तत् कर्तव्यम, नियतसाहचर्याद् व्याप्तिरस्त्येवेत्यत्राह व्याप्तिःक्वापि गतादूरेनष्टा, कस्मात् ? स्वरूपनिरघाचारात् स्वरूपनिरवद्या-चारादुपाधेः, यत्र साधु कर्त्तव्यत्वं तत्र स्वरूपतो निरवद्यत्वं, यत्र च तदनुमोद्यतत्र स्वरूपतो निरवद्यत्वमितिनास्ति कारणे विहितानां वर्षाविहारादीनां नद्युत्तरादीनां संयत्यवलम्बनादीनां चानुमोद्यत्वेऽपि स्वरूपत्वनिवद्यत्वात् / तथा चानौपाधिकसहचाररुपव्याप्त्यभावान्मूलशौथिल्यं वज्रलेप इति भावः / एवं च शुष्क एव वलीवर्दस्य तर्के मुखं प्रवेशयत उपहासमाह-तत्तस्मात्कारणात् हे बाल! अविवेकिन! तव तर्के रितः वृथा, त्वद्गत शक्त्यभावात, कस्य?, क्लीबस्य वधूनिधुवन इव कान्तारससंमर्द इव! न च विद्यामुखचुम्बनमात्रा भोगसौभाग्यमाविर्भवति। यतस्तूक्तम्-"वेश्यानामिव विद्यानां, मुखं कैः कैर्नचुम्बितम्। हृदयग्राहिणस्तासां, द्वित्राः सन्ति न सन्ति वा" // 1 // इति / किं च-अचेलकादीनामेकचेलाद्याचारस्यानुमोद्यत्वेऽपि तदकर्त्तव्यत्वात् सूत्रनीत्या व्यक्त एव दोषः / यदार्षम्-"जो विदुच्छति वत्था, एगेण अचेलगो व संथरइ / तेण हु हीलंति परं, सटो वि अ ते जिणाणाए।।'' ति। प्रति०। दर्श०। अत्र हरिभद्रसूरिः / यदि नाम यतिना संधारणतो द्रव्यस्तवः संपाद्यत, तदा साक्षादेव कस्मात् न क्रियते?, इत्याशङ्क्याहसक्खा उ कसिणसंजम-दव्वाभावेहिं णो अयं इट्ठो। गम्मइ तंतछितीए, भावपहाणा हि मुणउत्ति / 10 / / साक्षातु स्वयं करणतः पुनः कृतस्नसंयमश्च सर्वथा प्राणवधविरतिः, द्रव्याभावश्च निष्परिग्रहत्वेनार्थासत्ता, कृत्ससंयमव्यभावौ ताभ्याम् / पाठान्तरेण–'कृत्स्नसंयमद्रवयभावाभ्याम् तत्र द्रव्यभावोऽप्रधानत्वं द्रव्यस्तवस्येति / नो नैव, अयं द्रव्यस्तवः, इष्टोऽभिमतो, यतीनां विधेयतया इति।गम्यतेऽयसीयते। कथम्?,तन्त्रस्थित्या आगमनीत्या। तन्त्रं हि साधूनां स्नानादिपरिहारप्रतिपादनपरं, निर्ग्रन्थताऽभिधायक च। युज्यते च स्वयमकरणं द्रव्यस्तवस्येति / आह च- भावप्रधाना भावपूजापराः, मद्रव्यप्रधानाः, हिर्यस्मादर्थः / मुनयो यतयो, भवन्तीत्यतो भावत एव पूजा तेषां युक्ता, तदभिसंधारणं पुनर्भाव एव / इति शब्दो वाक्यार्थसमाप्तौ / इति गाथार्थः / 140 / / केषां तर्हि द्रव्यस्तवस्य साक्षात्करणमिष्टमित्यत्राहएएहिं तो अणे, जे धम्महिगाहिणो उतेंसि तु / सक्खं चिय विण्णेओ, भावंगतया जतो भणितं / / 1 / / एतेभ्यो मुनिभ्योऽन्येऽपरे, ये इत्यत्रोत्तरस्य पुनरर्थस्य तुशब्दस्य संबन्धाद्ये पुनः, धर्माधिकारिणो धार्मिकाः, तेषां तु तेषामेव, साक्षादेव चस्वयंकरणतोऽपि, विज्ञेयो विधेयतया ज्ञातव्यः। द्रव्यस्तव इति प्रक्रमः / कथमित्याह-- भावाङ्गतया शुभभावकारणतया, भावस्तवाङ्गतया वा, इहार्थे शास्त्रप्रमाणतयोपदिशन्नाह-यता तस्मात्कारणाद, भखितमभिहित नियुक्तौ इति गाथार्थः / / 41 / / यद्भणितंतदर्शयन्नाहअकसिणपवत्तयाणं, विरयाविरयाण एस खलु जुत्तो /