________________ चेइय 1216- अभिधानराजेन्द्रः-भाग 3 चेइय 27 // सो तित्थगरे णियमा, ण होइ दव्वत्थयादण्णो // 37 // यद्यस्मात्कारणात, चशब्द उपपत्त्यन्तरसमुन्धयार्थः / चतुर्की चतुभिःप्रकारज्ञानदर्शनचारित्रोपचारपलक्षणैः / भणितः साधूनां विधेयतया वर्णितो विनयसमाध्यध्ययनादौ / विनयः कर्मविनयनसमर्थोऽनुष्ठानविशेषः। (तत्थ त्ति) तत्र तेषु चतुर्पु विनयेषु मध्ये, उपचारो लोकव्यवहारः, पूजा वा, प्रयोजनमस्येत्यौपचारिको भक्तिरूपः / तुशब्दः पुनरर्थः / य इति विनयः, स इत्यसौ, तीर्थकरे अर्हद्विषये, नियमादवइयभावेन, न भवतिनवर्तते, द्रव्यस्तवात्पूजादेः, अन्योऽपरः, द्रव्यस्तव एवासाविति भावः। तस्मात् द्रव्यस्तवानुविद्धो भावस्तव इति प्रकृतम्। औपचारिकविनयस्वरूपं चेदम्"तित्थयरसिद्धकुलगण-संघकिरियधम्मनणनाणीणं। आयरियथेरूवज्झा-यगणीणं तरेस पयाणि।।१।। अणसायणाय भत्ती, बहुमाणो तह य वण्णसंजलणा। तित्थयरादी तेरस, चउग्गुणा होति वावण्णा' / / इति गाथार्थः // 37 // यदि द्रव्यस्तवादन्यो नासौ, ततः किमित्याहएअस्स उसंपाडण-हेउं तेह चेव वंदणाए उ। पूजणमादुचा रणमुववण्णं होइ जइणो वि // 38|| एतस्य तु एतस्यैव द्रव्यस्तवरूपौपचारिकविनयस्य संपादनहेतु संपादनार्थम्, (तह चेव त्ति) तथैव तेनैव प्रकारेण, कायोत्सर्गकरणलक्षणेन, वन्दनायां चैत्यवन्दनायाम्, तुशब्दः पादपूरणे। पूजनाधु-चारणं पूजाप्रभृतिपदाभिधानम्। आदिशब्दात्सत्कारादिपग्रहः / उपपन्नं सङ्गतम्, भवति वर्तते, यतेरपि भावस्तववतोऽपि, न केवलं गृहिण एव / इति गाथार्थः // 38 // उक्तविपर्यय बाधकमुपदर्शयन् प्रकृतनिगमनायाऽऽहइहरा अणत्थगं तं,ण य तयणुचारणेण सा भणिता। ता अहिसंधारणओ, संपाडणमिट्ठमेयस्स // 36 // इतरथाऽन्यथा द्रव्यस्तवसंपदनार्थं यदि पूजाधुच्चारणं न भवति तदा, अनर्थक निष्प्रयोजनम्, तत्पूजाधुचारणं, पूजादीनामनिष्टत्वात्। न च निरर्थक वाक्यमुचारयन्ति सन्तः, तत्वक्षतिग्रसङ्गाद् / अथ न कुर्वन्त्येव वन्दनाया पूजासत्कारााचारणमित्याशङ्कयाह-न च नैव, तदनुचारणेन पूजासत्काराद्यनुचारणेन, सा वन्दना, भणिताअभिहिताऽऽगमे विधेयतया। (ता इति) यस्मादेवं तस्मात्, अभिसंधारणात्, कायोत्सर्गकरणद्वारेण पूजादिसंपादनाभिसंधेः / संपादनं करणम, इष्टभिमतम्, एतस्य द्रव्यस्तवस्य, इति गाथार्थः // 36 // पञ्चा०६०विव०। हिंसविचार:किं हिंसाऽनुमतिर्न संयमवतां द्रव्यस्तवश्लाघयेत्येतल्लुम्पकलुब्धकस्य वचनं मुग्धे मृगे वागुरा। हृद्याधाय सरागसंयम इव त्यक्ताऽऽअवांशाः स्थिताभावागांशामदूषणा / इति पुनस्तच्छेदशस्त्रं वचः // 24 // (किमिति) संयमवतां चारित्रिणां, द्रव्यस्तवश्लाघया द्रव्यार्चानुमोदनया, किं न हिंसानुमतिर्भवति?;अपि तु भवत्येव, पश्यन्तु दयारसिका इति भावः / एतद्वनं, लुम्पकलुब्धकस्य लुम्पकमृगयोः, मुग्ध आपाततः श्रुतबाहाधर्माचारे, मृगे, वागुरा बन्धपाशः, इति ध्यस्तरूपक मुग्धपदमनभिज्ञरूपाऽर्थान्तरसंक्रमितवाच्यमिति। य एतद्वचनं श्रुणुयात् स मृगवद्भवेदिति व्यङ्गथम्। इति पुनस्तस्य पाशस्य छेदशस्त्र वचोऽस्मत्सांप्रदायिकानाम्। इतीति किम्?, इह प्रक्रान्ते द्रव्यस्तवे द्रव्यभावोभयात्मके, भाव एवाङ्गभूतो योऽशस्तं हृदि चित्ते, आधाय स्थापयित्या, सरागसंयम इव त्यक्त उपेक्षितः, आश्रवांशः आश्रवभागो यैस्ते तथा, अदूषणा दोषरहिता वयं स्थिताः स्मः / अयं भावःसरागसंयमेऽनुमोद्यमाने यथा रागो नानुमोद्यकुक्षौ प्रविशति, तथा द्रव्यस्तवेऽनुमोद्यमाने हिंसांशोऽपि / संयमत्वेनानुमोद्यत्वे रागांशो नोपतिष्ठ त एवेति, द्रव्यस्तवत्वेनानुमोद्यत्वे तु सुतरां हिंसानुमतेः स्थितिः / द्रव्यस्तव-- त्वशिरसाऽप्यघटकत्वात्तस्याः / इत्थमेव श्रीनेमिना राजसुकुमारस्य श्मशानप्रतिमापरिशीलनाननुज्ञाते तदर्थिना भावितच्छिरोज्वलनमनुज्ञातमित्युपपादयितुं शक्यते, द्रव्यस्तवे परप्राणव्यापादनानुकूलव्यापारत्वाद्विशेष इति चेत्, तथापि द्रव्यस्तवत्वं न हिंसात्वमिति न क्षतिः, वस्तुतो विहारादावतिव्याप्तिवारणाय प्रमादप्रयुक्तप्राणव्यपरोपणत्वं हिंसात्वं वाच्यं, न प्रकृतिरिति न दोषः / एवं सति सविशेष इत्यादिना यावत् प्रमादाप्रमादायोरेव हिंसारूपत्वात् बन्धमोक्षहेतुत्वे विशेष्यभागानुपादानं सस्यादिति चेत् / सत्यम् / प्रमादयोगात्प्राणव्यपरोपणं हिंसा, प्रमादायोगात् प्राणव्यपरोपणमहिंसेति लक्षणयोर्व्यवहारार्थमेवाचार्यरनुशास्त्रनाद्वन्धमोक्षहेतुताथाश्च निश्चयतः प्रमादत्वाप्रमात्वाभ्यामेव व्यवस्थितेः, बाह्यहेतूत्कर्षादपि फलोत्कर्षाभिमानिना व्यवहारनयेन तु विशेष्यभागोऽप्याद्रियत इति सर्वमवदातज्ञानम्॥२४॥ अनुपदेश्यत्वादनचुमोद्यत्वं द्रव्यस्तवस्येत्यत्राऽऽहमिश्रस्यानुपदेश्यता यदि तदा श्राद्धस्य धर्मस्तथा, सर्वः स्यात्सद्दशी नु दोषघटना सौत्रक्रमोल्लङ्घनात्। तत्सम्यविधिभक्तिपूर्वमुचितद्रव्यस्तवस्थापने, विद्यो नापरमत्र लुम्पकमुम्लानिं विना दूषणम् // 25 / / (मिश्रस्येति) मिश्रस्येति' हेतुगर्भविशेषणम्, मिश्रत्वादिति यावत् / यदि अनुपदेश्यता साधूनामुपदेशविषता द्रव्यस्तस्य त्वया प्रतिज्ञायते, तदा श्राद्धस्य धर्मः सर्वस्तथाऽनुपदेश्यः सयात्, तस्य मिश्रतायाः कण्ठरवेण सूत्रकृताऽभिधानात्, इष्टापत्तिरत्र / सर्वविरतिरूपस्यैवधर्मस्य शाखेऽभिधानादशे स्वकृत्यसाध्यताप्रतिसंधाने स एव तस्यार्थः, सिद्धदेशरूपविरतित्वात्। "जं सक्कइ तं कीरइ''इत्यादिव्युत्पत्तिमतां तत्र प्रवृत्तिसंभवादिति चेत् / न / द्वादशव्रतादिविभागस्य विशेषविधिते विना उपपत्रेरिति देशेन र पेच्छया ग्रहणे श्रमणलिङ्ग स्यापि श्राद्धेन ग्रहणप्रसङ्गात् / दृश्यत एव केषाञ्चित् श्राद्धानां भिक्षाग्रहणादिकं यतिव्रतमपि देशप्राप्तमिति चेत्, दृश्यते तदद्रष्टव्यमुखाना, न तु मार्गवर्तिनाम्, अनुचितप्रवृत्तमहामोहबन्धहेतुत्वाद्भिक्षुशब्दप्रवृत्तिनिबन्धनस्य श्राद्धानुपपत्तेरान्दादिभिनादरणात्, अम्बडस्य तु परिवादलिङ्गत्वेन भिक्षायाम् अनौचित्याभावात्, ततः श्राद्धधर्मवद् द्रव्यस्तवस्य नानुपदेश्यता, अप्रतिषेधानुमत्याक्षेपपरिहारयोरुभयत्र तुल्ययोगक्षेमत्वात्, यतिधर्मानभिधानात् प्रागनभिधानस्प्युभ