________________ चेइय 1218- अभिधानराजेन्द्रः-भाग 3 चेइय कृतप्रभवः 1 आदिशब्दश्च कनकादिपरािग्रहार्थः / इत्येकीयं मतम् / अन्येऽपरे सूरयः, विपर्ययो व्यत्यासः, पूजा प्रवरवस्वादिभिः, सत्कारो माल्यादिभिरित्येवं लक्षणः / इहेति पूजासत्कारलक्षणे, इति मन्यन्ते इति वाक्यशेषः / प्रस्तुतयोजनार्थमाह-द्विधाऽपि द्वाभ्यामपि प्रकाराभ्यां, व्याख्यानद्वयेऽपित्यर्थः / शव्यस्तयोऽस्ति, अत्रेति पूजासत्कारयोः / इति गाथार्थः / / 30 / / एवं तावत्तन्त्रतो द्रव्यस्तवे साधोरनुमोदनं दर्शितमथो पपत्तितस्तदेव दर्शयन्नाहओसरणे वलिमादी, ण चेह जं भगवया वि पडिसिद्धं / ता एस पणुण्णाओ, उचियाणं गम्मती तेण // 31 // अवसरणे समवसरणे, देवसंस्कृत भगवद्व्याख्यानभूमी, वल्याधुपहारप्रभृति, आदिशब्दागन्धमाल्यगीतवाद्यपरिग्रहः / न नैव, चशब्दो द्रव्यस्तवाऽनुमोदनस्य समर्थन कारणान्तरसमुचयार्थः / इहागमे,लोके वा, यद्यस्मात्कारणात्, भगवता जिनेनाऽपि। तेन हि किल तन्निरतिचारचारित्रतया निषेधनीयं स्यादित्यपिशब्दार्थः / प्रतिषिद्धं डिवारितम्। (ता इति) तस्मात्कारणात्, एष द्रव्यस्तवः वल्यादिविधानस्य द्रव्यस्तवत्वात्, अनुज्ञातोऽनुमतः, इति गम्यतेऽवसीयते, "अप्रतिषिद्धमनुमत" इतिवचनात्, उचितानां तद्योग्यानां गृहस्थानां, राजादीनामित्यर्थः / तेन भगवता जिनेनेति। आह च"राया च रायमचो, तस्सासइ पउरजणवओ वा वि। दुब्बलिखंडियछड्डिय-तंदूलाणाढगं कलमा / / 1 / / भाइयपुण्णणियाण, अखडंफुडिगाण फलगसरिसाण। कीरइ यली सुरा विहु, तत्थेव बुहंति गंधाई।।२।।" इत्यादि। इति गाथार्थः / / 31 / / / अथ भवतु भगवतोऽनुमतोऽयं तदन्येषां तदनुमतिर्न युक्ता, अमुक्त्वङ्गत्वादिन्याशङ्कयाऽऽहण य भगवं अणु जाणति, जोगं मुक्खविगुणं कदाचिदवि। ण य तयणुगुणो वि तओ, ण बहुमतो होति अणोसिं // 32 / / न च नैव, भगवानहन, अनुजानाति अनुमन्यते, योग व्यापारम् / किंविधम्?, मोक्षविगुणं निर्वाणाननुगुणम्, कदाचिदपि कचिदपि काले, पारमार्थिकपरोपकारकरणस्वरूपत्वाद्भवतः। ततः किमित्याह-न चन पुनः, तदनुगुणोऽपि मोक्षानुकूलोऽपि, मोक्षविगुण एवाऽबहुमतो भवति इति सूचनार्थाऽपिशब्दः / तको योगः, न बहुमतो नानुमतो,बहुमत एव, भवति जायते, अन्येषां भगवतोऽपरेषां साधूनाम् / इति गाथार्थः / / 32 // ननु भगवतोऽपि चारित्रित्वात् द्रव्यस्तवानुमतिर्न युक्ते त्वाशक्याहजो चेव भावलेसो, सो चेव य भगवतो बहुमतो उ। ण तओ विणेयरेणं, ति अत्यथो सो वि एमेव // 33 // यएव भावलेशो भगवबहुमानरूपः, द्रव्यस्तवादतीति शेषः। (सोचेव यत्ति) स एवासावेच, नेतरः / चशब्द इदमपरं युक्त्ययन्तरमिति सूचनार्थः / भगवतो जिनस्य, बहुमतोऽनुमतो, मुख्यवृत्त्या भगवतस्तयास्वभावत्यास्। तुः पूरणे। केवलं न नैव, तकोऽसौ भावलेशोऽपि, नेतरेण द्रव्यस्तवं विना भवति, इति हेतोः, अर्थतः सामर्थ्यात् , लोऽपि द्रव्यस्तपोऽपि, न केवणं भावलेश एव / एवमेव भावलेशवदेव, बहुमत एव / इति गाथार्थः // 33 // भावलेशं वहु मन्यमानेन द्रव्यस्तवो बहुमत एवेति समर्थ वन्नाहकजं इच्छंतेणं, अणंतरं कारणं पि इटुं तु / जह आहारजातित्ति, इच्छंतेणेह आहारो॥३४॥ कार्य साध्यं भावलेशादिकम्, इच्छता अनुमन्यमानेन, अनन्तरमव्यवहितं, नतु व्यवहितं कृष्यादिक, तथैवानुभूतेः / कारणमपि हेतुरपि द्रव्यस्तवादिकः, न केवलं कार्यमेवेत्यपिशब्दार्थः / इष्टं त्वभिमतमेव, कारणाविनाभूतत्वात्कार्यस्य। किमिवेत्याह-यथा यद्वत्, आहारजतृप्ति भोजनजनितबुभुक्षेपशमन, इच्छता वाञ्छता, इह लोके, आहारो भोजनम्, इष्ठ इति प्रक्रमः। इति गाथार्थः॥३४॥ अथ वल्यादौ भवत्वनुमतिर्जिनस्य, जिनभवनादौ तु सा तस्य न भविष्यतीत्याशङ्कायामाहजिणभवणकारणाइ वि, भरहादीणं ण वारितं तेण / जह तेसिं चिय कामा, सल्लविसादीहिँ णाएहिं॥३ण। जिनभवनकारणाद्यपि अर्हदायतनविधापनप्रवृत्तिकमपि, न केवलं समवसरणे वल्यादि, आदिशब्दात् जिनबिम्बपूजादिग्रहः / भरतादीना भरतचक्रवर्तिप्रभृतीनाम्, नवारितं न निषिद्धम्, तेन भगवताऽऽदिदेवेन। कयमित्याह-यथा यद्वत्, तेषामेव भरतादीनाम, कामाःशब्दादिभोगाः, शल्यविषादिभिः शल्यविषत्रभृतिभिः, ज्ञातैर्निदर्शनैः, निषिद्धा इति प्रकमः / ज्ञातानि पुनरेवम्-"सल्लं कामा विसं कामा, कामा आसीविसोवमा / कामे य पत्थेमाणे तु, अकामा जंति दुग्गई" ||1|| अप्यमभिप्रायः-यदि जिनभवनविधापनादिकमननुमतमभविष्यद्भवतस्तदा कामवन्निषिद्धमभविष्यत् / इति गाथार्थः / / 3 / / यहि तत्तेन तेषां न वारितं, ततः किमित्याहता तं पि अणुमयं चिय, अप्पमिसेहाउ तंतजुत्तीए। इय सेसाण वि एत्थं, अणुमोयणमादि अविरुद्धं // 36 // यतो जिनभवनादि न वारितं, तत्तस्मात्तदपि जिनभवनाद्यपि, अपिशब्दावल्यादपि / अनुमतसेव बहुमतमेव, भगवतः / कुत एतदवसितमित्याह-अप्रतिषेधादनिवारणात् / अथ कथमप्रतिषेधमात्रादिदमवसितमित्याह-तन्त्रयुक्त्या शास्त्रीयोपपत्त्या, यदि तस्य तदननुमतमभविष्यतदा कामानामिव तन्निवेधमकरिष्यत्, न चाऽसौ कृतस्तेन, अतस्तस्य तदनुमतमित्येवं लक्षणया। यदि भगवतस्तनुमत तदाऽन्येषां किमित्याहइत्येवं भगवन्न्यायेन, शेषणमपि भगवतोऽपरेषामपि साधूनां, न केवलं भगवतएव। अत्र जिनभवनविधापनदिद्रव्यस्तवे, अनुमोदनदिकं जिनबिम्बादिदर्शन समुल्ल सितप्रमोदतस्तत्कारकोपबृंहणतश्च याऽनुमतिस्तत्प्रभृतिकम्। आदिशब्दात्तदुचबृंहणेन तत्फलदेशनेन च बिम्बादि विधापनोत्साहसंपादनतस्तद्विधापनस्य परिग्रहः / अविरुद्ध संगतम्, मोक्षसाधनस्यैव, भावलेशस्य तत्र मुख्यवृत्त्योपादेयत्वादिति च प्राग दर्शितम्। इतिगाथार्थः / / 36|| पञ्चा०६विव०। पं०व० / तदेवम्-"जइणो वि हुदब्वत्थय भेओ अणुमोयणेणऽ-- त्थि"त्ति यदुक्तं, तत्समर्थितम्। अथ तदेव प्रकारान्तरेण समर्थयन्नाहजंच चउद्धा भणिओ, विणओ उनयारिओ उ जो तत्थ /