________________ चेइय १२१७-अभिधानराजेन्द्रः-भाग 3 चेइय तन्निषेधस्या प्युत्सर्गपरत्वात् / भवति हि तेन मिथ्यादृष्टेरप्यप्रमत्तसंयतगुणस्थानादिनिबन्धनाविरतसम्यग्दृष्ट्यादिगुणस्थानप्राप्तिलक्षणो गुणः प्राप्तद्दढतरगुणस्थैर्यार्थम्। अपि च तदनुज्ञायते-'उस्सनस्स गिहस्स व, जिणपवयणनिच्चभावियमइस्स / कीरइ जं अणवजं , दढसम्मत्तस्सऽवत्थासु / / '' इत्यादिना स्वनिष्ठं तु फलं ज्ञानिनां तीर्थकृत इव तथाविधौचितप्रवृत्तिहेतुशुभकर्मनिर्जरणमेव ।(प्रति०) अनिषेधात्तु संमतिमेव सदृष्टान्तमुपपादयतिज्ञातैःशल्यविषादिमिर्नु भरतादीनां निषिद्धा यथा, कामा नो जिनसद्मकारणविधिर्व्यक्तं निषिद्धस्तया / / तीर्थेशानुमते पराननुमर्तव्यस्तवे किं ततो, नेष्टा चेञ्जवरिणां ततः किमु सिता माधुर्यमुन्मुज्वति?२२ (ज्ञातैरिति) नु' इति निश्चये, शल्यविपादिभितिर्दृष्टान्तैः, यथा भरतादीनां कामा निषिद्धाः, तथा जिनसाकारणविधिर्यक्तं न निषिद्धः / श्रूयते चागमे "थूभसंभाउआणं , अट्ठासीय च जिणधरे कासी।'' इत्यादिना च यदि सदुष्टः स्यात्तदा कामादेरिवे निषिध्येत, न च तथा निषिद्धः, इत्यनुमतः इत्येवानु मीयते। आह च-"ताए अणुमउ व्विय अप्पभिसेहाओ तंजुजीएत्ति। तथा"ओसरणे वलिमाई, भरहाईण न निवारितं तेण / तह तेसिं चिय कामा, सल्लविसाईहिं णाएहिं / / " तीर्थेशानुमते द्रव्यस्तवे पराननुमतेद्वेषाननुमोदनात् किं स्यात्?, न किञ्चिदित्यर्थः / इदमेव प्रतिवस्तूपमया दृढयतिचेद्यदि ज्वरिणां सिता शर्करा, नेष्टा नाभिमता, ततः किं माधुर्य स्वभावसिद्धमधुरतागुणमुन्मुञ्चति?, नैवोन्मुश्चति। तद्वद्भवउनुमतस्य द्रव्यस्तवस्यान्यद्वेषमात्रेण नासुन्दरत्वमिति गतार्थः।।२२।। (6) अनुमोद्यत्वमेव द्रव्यस्तवस्य सूत्रनीत्या स्थापयन् परमाक्षिपतीसाधूनां वचनं च चैत्यनमनश्लाघार्चनोद्देशतः, कार्यात्सर्गविधायकं ह्यनुमतिं द्रव्यस्तवस्याह यत। तत्किं लुम्पक! लुम्पतस्तव भयं दुःखौघहालाहलज्वालाजालमये भवाहिवदने पातेन नोत्पद्यते? / / 23 / / (साधूनामित्यादि) साधूनां परमार्थतश्चारित्रवतां, चैत्यनमनश्लाघार्चनोद्देशतश्चैत्यवन्दनायुपदेशेन, कायोत्सर्गविधायकं कायोत्सर्गकरणप्रतिज्ञाप्रतिपादकं, हि निश्चितं, वचनं द्रव्यस्तवस्ययत् अनुमतिमनुमोदनमहो, हे लुम्पक! तद्वचनं,लुम्पतस्तव भवाऽहि वदने संसारभुङ्गवक्त्रक्रोडे, पातेन कृत्वा भयं नोत्पद्यते?, अयुक्त-मेतत् तवेति व्यड् भ्यम् / भवाऽहिवदने किं भूते?, दुःखौघ एव हालाहलं तस्य यत् ज्वालाजालं तन्मये। सूत्रे चेदं स्पष्टमेव-''अरिहंतचेइआणं " इत्यादि।। अस्यार्थः-अर्हतां भावाहतां चैत्यानि चित्तसमाधिजनकानि प्रतिमाल- | क्षणानि अर्हचैत्यानि, तेषां वन्दनानिमित्त कायोत्सर्ग करोमीति संबन्धः / कायोत्सर्ग:स्थानमौनत्यागं विनाऽऽभ्यन्तरत्यागः, तं करोमि / किं निमित्तामित्याह-"वंदणवत्तियाए" इत्यादि / वन्दनं प्रशस्तमनोवाकायप्रवृत्तिः, तत्प्रत्ययं तन्निमित्तं, याद्दक् वन्दनात् पुण्यं स्यात्ताइक्कायोत्सर्गादपि भवत्वित्यर्थः / वत्तिआए त्तिआर्षत्वात्सिद्धम् 'पूअणवत्तिआए पूजनं गन्धमाल्यादिभरभ्यर्चनं, तत्प्रत्ययम् 'सकारवत्तिआए' सत्कारौ वस्त्राभरणादिभिस्तप्रत्ययम् / नन्वेतौ पूजासत्कारी द्रव्यस्तवत्वात् साधोः"छज्जीवकायसंजमो" इत्यादिवचनप्रामाण्यात्कथं नानुचितौ?, श्रावकस्य तु साक्षात् कुर्वतः कायोत्सर्गद्वारेण तत्प्रार्थने कथं न नैरकर्थक्यम्? उच्यतेसाधोव्यस्तवनिषेधः स्वयं करणमाश्रित्य न तु कारणानुमतिरप्यस्ति / युदक्तम्-'"सुव्वइ अ वयररिसिणा, कारवणं पिय अणुट्टियमिमस्स।" ............... कामगंधे, सुअं गया देसणा चेव / " श्रावकस्य त्वेतौ संपादयतो भक्त्यतिशयादाधिक्यसंपादनार्थ प्रार्थयभानस्यन नैरर्थक्यम्। एते भगवन्तोऽत्यादरेण वन्द्यमानाः पूज्यमाना अप्यन्तगुणत्वान्न सुवन्दितपूजिताः स्युः / अत्र दशार्णभद्रो दृष्टान्तः। तदेवपूजासत्कारौ भावस्तवहेतुत्वाङ्गणनीयवेवेति / 'सम्माणवत्तिआए" संमानः स्तवादिभिर्गुणोत्कीर्तनं, तत्प्रत्ययं अद्वैतभाववन्दनाद्यम्, तत् किमर्थमित्याह-"बोहिलाभवत्तियाए ति" बोधिलाभःप्रेत्य जिनधर्मप्राप्तिः, तत्प्रत्ययम् / एषोऽपि किं निमित्तम्?-''निरुवसग्गवत्तियाए त्ति'' निरुपसर्गो जन्मायुपसर्गारहितो मोक्षः, तत्प्रत्ययम् / अयं च कायोत्सर्गः श्रद्धादिरहितैः क्रियमाणोऽपि नेष्टसाधक इत्यत आह-'"सद्धाए' 'इत्यादि। श्रद्धया स्याभिप्रायेण, न बलाभियोगादिना, 'मेधया' हेयोपादेथपरिज्ञानरूपया, न जडत्वेन मर्यादावर्तितया वा नासर्चितेन तद्वैकल्येन वर्द्धमानयेति प्रत्येक श्रद्धादिभिः संबध्यते / एवमेतैहे तुभिस्तिष्ठामि करोमि कायोत्सर्गमिति वृत्तिः द्रव्यस्तवानुमोदनादिति भावः / इति भावस्तवापचयाय कायोत्सर्गद्वारा तदाश्रयणं युक्तम्, अनुमोद्यनिमित्तलोकोपचारविनयोपकर्षत्वाच्च तदत्यन्तोपयोगः दुर्गतरत्नाकररत्नलाभतुल्यत्वाद्वा यतीनां कृतप्रयत्नस्येति भावनीयं सुधीभिः / / 23 / प्रति०। तन्त्रयुक्त्या द्रव्यस्तवे साधोरनुमोदनमस्तीत्येत देव दर्शयन्नाहतंतम्भि वंदणाए, पूयणसक्कारहेउ उस्सग्गो। जतिणो विहु णिहिट्ठो, ते पुण दव्वत्थयसरूवे // 26 / / तन्त्रे शास्त्रे , किनामके? वन्दनायां चैत्यवन्दनाऽभिधाने, पूजनसत्कारहेतु पूजासत्कृतिनिमित्तम्, उत्सर्गः कायोत्सर्गः, यतेरपिभावस्तवरूढसाधोरपि, न केवलं गृहिणः, हुशब्दस्तथैव, निर्दिष्टोऽभिहितस्तीर्थकरादिभिः / यतस्तन्त्रसूत्रम्-"अरहंतचेइयाणं करेमि काउस्सगं वंदणवत्तियाए पूयणवत्तियाए सकारवत्तियाए'' इत्यादि। यद्येवं तदा प्रस्तुते किमायातम्?,इत्याह (ते पुण त्ति) ता पुनः पूजनसत्कारी, (दव्वत्थयसरूवे त्ति) प्राकृतत्वात् द्रव्यस्त-वस्वरूपौ द्रव्यस्तवस्वभावौ भवतः। द्रव्यस्तवस्वरूपे वा एतौ वर्तेते। इदमुक्तं भवति०द्रव्यस्तवस्वरूपपूजादिप्रत्ययकायोत्सर्गप्रतिपादनात्साधौव्यस्तवेऽनुमोदनमनुज्ञातं सूत्रे / इतिगाथार्थः / / 26 / अथ पूजनसत्कारयोर्द्रव्यस्तवताऽभिधानायाऽऽहमल्लाइएहिं पूजा, सकारो पवरवत्यमादीहिं। अण्णे विवजओ इह, दुहा विदव्वत्थओ एत्थ // 30 // मालायां साधूनि माल्यानि ग्रथितकुसुमानि, तदादिभिः। आदि शब्दादप्रथितकुसुमग्रहः / पूजा पूजनं भवति सत्कारः सत्कृतिर्भवति प्रवरव स्त्रादिभिः प्रधानवसनप्रभृतिभिः, इह च मकारः प्रा