________________ चेइय 1213- अभिधानराजेन्द्रः-भाग 3 चेइय करणिज्जं " इत्यादिके सम्य दृष्टिना पृष्टोऽप्यैहिकसुखमात्रनिमित्ते स्वाचन्दनादिकं "हिआ सुहगा' इत्यादिकोण केनाऽपि प्रत्युत्तरविषयीकृतं द्दष्टम्। श्रुते चाऽपि वन्दनाधिकारेऽपि क्वचित् 'पेचा हियाए' इत्याद्येवोक्तम क्वचिच्च-"एअणं इह भवे वा आणुगामियत्ताए भविस्सइ'' त्ति नोक्तपाठवैषम्यकदर्थनाऽपि / किं च–'पच्छा कडुअविवागा' इत्यत्र यथा पश्चाच्छब्दसय परभवविषयत्वं तथा प्रकृतेऽपीति किं न विभावयसि ? एवम्-"जस्स नत्थि पुरा मज्झे, तस्स उक्कोसिया " इत्राऽपि पुरा पश्चादिति वाक्यस्य त्रिकालविषयत्वं व्यक्तमिति प्रकृतेऽपि तद् योजनीयम् / / 12 / / स्थितिविषयाशकामेव समानधर्मदर्शनेन उपसंहरन्नाहवाप्यादेरिव पूजना दिविषदां मूर्तेर्जिनानां स्थितिः, सादृश्यादिति ये वदन्ति कुधियः पश्यन्ति भेदं तु न। एकत्वं यदि ते वदन्ति निजयोः स्त्रीत्वेन जायाऽम्बयोस्तत्को वा यततामसंवृततरं वक्त्रं पिधातुं बुधः? // 13 // (वाप्यदेरिति) वाप्यादेर्नन्दापुष्करिण्यादेरिव, आदिशब्दतो महेन्द्रध्वजतोरणसंभाशालभञ्जिकादिपरिग्रहः / दिविषदां देवानां, जिनानां मूत्तेः पूजना, स्थितिः स्थितमात्र, सादृश्यात् अर्चनशब्दाभिधानसाम्यदिति ये कुधियः कुत्सितबुद्धयो, वदन्ति, भेदतु वक्ष्यमाणं न पश्यन्ति, ते यदि स्त्रीत्वेन स्त्रिलिङ्गमात्रेण निजयोः स्वकीययोर्जायाऽम्बयोः कान्ताजनन्योर्वदन्ति एकत्वं, तर्हि को वा को नाम, वक्त्रं मुखमर्थात्तदीयम्, असंवृततरम् अतिशयेनोद्घाट, बुधः पण्डितः, पिधातुमाच्छादयितुं, यतता पराक्रमताम, अशक्येऽर्थे पण्डितस्य यत्नकरणायोगात्, न कोऽपि यततामिति भावः / प्रतिवस्तूपमया दूरान्तरेऽपि यत्किञ्चित्साम्येन भ्राम्यतामुपहासो व्यज्यते। तदुक्तम्"काकेकार्णयमलौकिक ,धवलिमा हंसे निसर्गस्थितो, गाम्भीर्ये महदन्तरं, वचसि यो भेदः स कि कथ्यते? || एतावत्सु विशेषणेष्वपि पुनर्वर्नेदमालोक्यते, के काकाः सस्त्रि के च हंसशिशवो देशाय तस्मै नमः " // 13 // भेदहेतुनैवोपदर्शयंस्तददर्शिनमाक्षिपन्नाहसद्धर्मव्यवसायपूर्वकतया शक्रस्तवप्रक्रियाभावभ्राजितहृद्यपद्यरचनाऽऽलोकप्रणामैरपि। ईक्षन्तेऽतिशयं न चेङ्गगवतां मूर्त्यर्चने स्वःसदां, बालास्तत्पथि लौकिकेऽपि शपथप्रत्याथनीया न किम्?।१४। (सद्धर्मेत्यादि) सद्धर्मव्यवसायपूर्वकत्वमेक जिनप्रतिमाऽर्चनस्यानुषङ्गिकत्वाद्यर्चनतो भेदकं, व्यवसायनतासंभवेक्षयोपशमादिहेतुत्वात्तजिनशासनेनासिद्धम्। तदुक्तम्-"उदयक्ख-ओवसमिओ, ववसायं च कम्मुणा भणिया। दव्वं खित्तं कालं, भावं च भवं च संपप्प" / / 1 / / इति जीवाभिगमवृत्तौ विजयदेवाधिकारे प्रकृतस्थले विवृतमास्ते, तदालापकश्च प्रकृतालापकादाविशिष्ट इति न पृथग् लिखितः / अत्र पापिष्ठाःननु"धम्भियं ववसायं गिण्हइ' इत्यत्रधार्मिको व्यवसायः कुलस्थितिरुपधर्मविषय एव युक्तोऽत एव पुस्तके धर्म्यशास्त्रमित्यत्रापिधर्मशब्दार्थः कुलस्थितिधर्म एव / मुख्यव्यवसायस्तु देवानामसंभव्येव ।'"तिविहे ਰ, ਬੇਇ ਕਰਤਾ ਲਇਆ ਤਾ: ਮਾਲਿਸਤਾ ववसाए" इति तृतीये स्थानके व्यवसायिनां धार्मिकाधार्मिकधार्मिकाधार्मिकाणां संयतासंयतसंयतासंयतलक्षणानां संबन्धित्वाङ्गेदेनोच्यमानविधा भवन्तीति व्याख्यानाचारित्रिणामेव धार्मिकव्यवसायसंभवादिति प्राहास प्रष्टब्धः-अरे दुष्ट! किमेवं देश संयतानां सामायिकाध्यवसायोऽपि न धार्मिकाध्यवसाय इति स्थापयितुक्षुद्यतोऽसि, तर्हि विषयभेदात् त्रैविध्यं व्याख्यास्यामोऽत एव संयमासंयमदेशसंयमलक्षणभेदाद्वेति पक्षान्तरेण वृत्तौ व्याख्यातमिति चेत्, एतदपि नैगमनयाश्रितपरिभाषाविशेषेणैव युज्यते, अन्यथाऽविरतसम्यगदृष्टीनां सम्यक्त्वाध्यवसायः कुत्रान्तर्भवेदिति नेत्रे निमील्य विचारयन्तु देवानां प्रियाः / एकान्ताविस्तादविरतसम्यगष्टोर्विलक्षणत्वात्, त व्यवसायः कदाचिदपेक्षया तृतीयेऽन्तर्भावयिष्यत इति चेप्तःकान्तेन त्रैराशिकमतप्रवेशापत्तिभिया पक्षत्रयस्य पक्षद्वय एवान्तर्भावविवक्ष जिनपूजादिसम्यग्दृष्टिदेवकृत्यं धर्म एवेति वदतां का बाधा? अन्यथा त्वया देवानां जिनवन्दनाद्यपि कथं वक्तव्यं स्वात्? सर्वविरत्यादियोगक्षेमप्रयोजकान् व्यापारानेव धर्मादिशब्दवाच्यान् स्वीकुर्म इति चेत् / न / पदेतन्नैवं परिभाषन्ताम्, अनुगतो धर्मव्यवहारस्तु पुष्टिशुद्धिमक्षित्तानुगतक्रिये चतुर्थगुणस्थानक्रियाऽनुरोधादर्शनाचाररुपदर्शत्वावसायात्मक जिनार्चादि सिद्धान्ते चोक्तम् / तदुक्तं स्थानाङ्गे-"सामाश्यववसाए, तिविहे पण्णते / तं जहा-नाणबवसाए, दंसणववसाए चरित्तववसाए त्ति' / / द्वितीयभेदत्यं शक्रस्तवप्रक्रियाप्रसिद्धप्रणिपातदण्ङ्कपाठ : / न हि वाप्यादिकं पूजयता वाप्यादेः पुरतः शक्रस्तवः पठितोऽस्ति किन्त्वहत्प्रतिमानां सकलसंपद्भवान्वितस्यिति मात्रत्वेऽन्यत्राप्यपठिप्यता न च तारणस्त्वतारकस्त्वमित्यादयो भावजिनप्रतिमातोऽन्यत्राभिनेतुं शक्यते, न च जिनयात्रादिव्यापार विना शान्तरसास्वाद इति यत्र यदुचितंतत्रैव तत्प्रयोज्यं सहृदयैः। तथा 'भावैः पापनिवेदनप्रणिधानाौाजितानि यानि हृद्यानि पद्यान्यष्टोत्तरशतसड् ख्यानि, तेषां स्वनामप्रतिमानां पुरस्तादपितृतीयं भेदकं भावस्तुतिमङ्गलानां महोदय हेतुत्वेन सूत्रेऽभिधानात्तस्यधर्माक्षेपकत्वात् नहिवाप्यादेरकृतम्। तथा चतुर्थभेदकम्-आलोकप्रणामः, यत्र जिनप्रतिमास्तत्र"आलोएपणाम करेइ" इति पाठोऽन्यत्र तु नेति विनय विशेषोऽपि धर्माक्षपकः / एवं तैरपि, स्वसदां देवानां, भगवतां मूर्त्यर्चने इति / चेत् यदि, अतिशय विशेष नेक्षन्ते तर्हि बाला विशेषदर्शनहेतुशक्तिविकला लुम्पकाः, लौकिकेऽपि पथि भोजनादौ, शपथेन कोशपानादिना, प्रत्याय-नीयाः विश्वासनीयाः किं न भवन्ति?, अपितु तथैव भवन्ति। का मिनीकरकमलोपरि स्थिते शिष्यानीते वा भोजने किमिदं पुरुषमन्नं वेति संशयात्ते न विरमेयुरित्यर्थः / न चाय वस्तुनोऽपराधः,किं तु पुरुषस्य, नवयं स्थागोरऽपराधो यदेनमन्धो न पश्यतीति / कियदेषां महामोहशैलूषप्रवर्तितनाट्यबिभम्बितवर्णनीयमिति दिग् / / 14 / / अथ स्थितिमभ्युपगम्याप्याहभव्योऽभ्यग्रगबोधिरल्पभवभाक् सदुद्दष्टिराराधको, यश्चोक्तश्चरमोऽर्हता स्थितिरहो सूर्याभनाम्नोऽस्य या /