________________ चेइय १२१२-अभिधानराजेन्द्रः-भाग 3 चेइय त्सत्त्वान्महावीरः शरणमस्त्वितिप्रयोजनं स्यादित्युफुल्लकण्ठवचनंतु महाविदेहे भावार्हतामपि सत्त्वान्नानतिक्रम्य द्रव्याहच्छरणीकरण कथमित्याशङ्कायव निलाञ्छनीयम्, एतेनात्र चैत्यशब्दस्य ज्ञानमर्थ इति मूढकल्पितार्थोऽपि निरस्तः / द्रव्याहतः केवलज्ञानाभावात् , अर्हतः पृथक् तद्द्वानस्य ग्रहे साधुभ्यः पृथगपि तद्ग्रहापत्तेः। तथा च "अरिहंते वा अरिहंतचेडआणि वा भाविअप्पणा अणगारा अणगारचेइआणि वा" इति पाठापत्तेरिति न किञ्चिदेतत्, उपसंहारे चैत्यपदविस्मृतेः। संभ्रमाद् न्यूनत्वं न दोषः / ‘मा मासंस्पृश' इत्यादिनाऽलङ्कारानुयायिनः महावीरस्यैवाशातनाया उ टकोटिकसंशयरूपसंभावनामभिप्रेत्याशातनाद्वयस्यैव समावेशतात्पर्य अदोष इत्यन्ये। अथानाशातनाविनयेन देवैर्वन्दित। भगवन्मूर्तिः कस्य सचेतसो न वन्द्येत्याशयेनाहमूर्तीनां त्रिदशैस्तया भगवतां सक्यां सदाशातना त्यागो यत्र विधीयते जगति सा ख्याता सुधर्मा सभा। इत्यन्वर्थविचारणाऽपि हरते निद्रां दृशोर्टर्न यध्वान्तच्छेदरविप्रभा जमधियं घूकं विना कस्य न ? 110 / (मूर्तीनामिति) यत्र मूर्तीनां सदाशातनात्यागो विधीयते सा सभा सधुर्मेति ख्यातेत्यन्वर्थविचारणाऽपि सुधर्मापदव्युत्पत्तिभावनाऽपि जङधियं लुम्पकं घूकमुलूक विना कस्य दशोर्निद्रा न हरते? अपि तु सर्वस्यैव दृशोर्निद्रां हरत इत्यर्थः / कीद्दशी?दुनर्या एव ध्वान्तानि, तेषां छेदे रविप्रभा तरणिकान्तिः, रविसदृशीति न तु व्याख्येयं, तत्सद्दशात् तत्कार्यानुपपत्तेः / अत्र विनोक्तिरूपककाव्यलिङ्गान्यल नाराः। (प्रति०) ('अग्गमहिसी'शब्दे प्रथमभागे 166 पृष्ठे सभासु इन्द्रा मैथुनं कर्तुं न शक्रु वन्ति, स्तम्भितजिनशक्तिप्रभावादित्युक्तं दशमशते पञ्चमोद्देशके ) एवं षष्ठे सूर्याभातिदेशेन शक्रसुर्माधिकारोऽपि प्रतिमापूजाप्रतिपादनाद् भावनीयः। तथा हि- "कहिणं भंते! सक्कस्स देविंदस्स देवरण्णो सभा सुहम्मा पण्णता? / गोयमा! जंबुद्दीवे दीवे मंदरस्स "दाहिणेणं इमीसे रयणप्पभाए पुढ० एवं जहा रायप्पसेणइज्ज" जाव पंचवडिंसया पत्ता। तं जहा–असोगवडिंसए० जाव मज्झे सोहम्मवडिसए, महाविमाणे अद्धतेरसजोयणसयसहस्साई आयामविक्खंभेणं, एवं जहा सूरियाभे तहेव उववाओ। सक्कसिद्धायतणं पुरच्छिमिल्लेणं दारेण अण्णुप्पविसइ, जेणेव जिणपडिमा तेणेव उवागच्छइ, उवागच्छित्ता जिणपडिमाण आ भोएपणाम करेइ. लोमहत्थग गिण्हइ. जिणपडिम लोमहत्थएणं पमजइ, जिणपडिमाओ सुरभिणा गंधोदएण निहाइ ति० जाब आयरक्खति। "अर्चनिकायाः परो ग्रन्थस्तावद्धाच्यो याचदारक्षकाः / स चैवं लेशतः-"तते णं से सक्के देविंदे देवराया सभं सुहम्म अणुपविसइ, सीहासणे पुरत्याभिमुहे निसीयइ, ततेण सक्कस्स देविंदस्स देवरायस्स अवरुत्तरेण उत्तरेणं उत्तरपुरच्छिमेणं चोरासीसामाणिअसाहस्सीओ णिसीयंति, पुरच्छिमेणं अग्गमहिसीओ, दाहिणपुरच्छिमेण अभिंतरिआए परिसाए वारसदेवसाहस्सीओ णिसीअंति, दाहिणेणं मज्झिमाए परिसाए चोद्दस देवसाहस्सीओ, दाहिणपचच्छिमेण बाहिरियाए परिसाए | सोलसदेवसाहरसीओ णिसीयंति।' इत्यादि। (प्रति०) अथ सूर्याभाधिकारेण प्रतिमारीणां शासनार्थ स्तेनानां कान्दिशीकता प्रदर्शयंस्ता अभिनौतिप्राक् पश्चाच्च हितार्थितां हृदि विदन् तैस्तैरुपायैर्यथा, मूर्ती : पूजितवान् मुदा भगवतां सूर्याभनामाऽसुरः। याति प्रच्युतवर्णकर्णकुहरे, तप्तत्रपुत्वं नृपप्रश्नोपाङ्गसमर्थिता हतधियां व्यक्ता तथा पद्धतिः।।११।। 'प्रागित्यादि / प्रागादौ, पश्चाचोत्तरं, तद्भावभवान्तर संबन्धिन्या मायत्या हितार्थतां श्रेयोऽमिलाषितां, हृदि स्वान्ते, विदन् जानन्, तैस्तैर्वक्ष्यमाणैरुपायैर्भक्तिसाधनप्रकारैः, यथा सूर्याभनामाऽसुरः भगवता मूर्ती : पूजितवान्, तथा व्यक्ता प्रकटा, नृपप्रश्नोपाने राजप्रश्नीयोपाङ्गे, समर्थिता सहेतुकं निर्णीता, पद्धतिः प्रक्रिया, हतधियां मूलोच्छिन्नबुद्धिना, लुम्पकमतिवासिताना, प्रच्युतवर्णे प्रच्युतो वर्णो यस्मात्ताद्दशे, निरक्षरे इत्यर्थः / तेनाक्षरशक्तिप्रतिबन्धाभाबादतिदाहसंभवो व्यज्यते। कर्णकुहरे श्रोत्रविले, नात्र संस्कृतत्वं व्यज्यते। तप्तत्रपुत्वं याति। तान्यक्षराणि दुर्मतिकर्णे तप्तत्रपुवत्स्वगतदोषादेव दाहं जनयन्तीत्यर्थः / आह च-''गुरुवचनमलमपि स्खलदुपजनयति श्रवणस्थित शुलमभव्य स्येति " अत्र तप्तपुत्वं यातीति निदर्शना, 'अभवद्ग्रस्तुसंबन्ध उपमा परिकल्प्य यः। निदर्शनति " मम्मटवचनात्। असंबन्धे संबन्धरूपातिशयोक्तिरित्यपरे / (उक्तार्थ आलापकस्तु 'सूरियाभ'शब्दे वक्ष्यमाणतचरितादवसेयः) प्रति०रा०। नन्वत्र प्राक् पश्चाच हितार्थिता देवभवापेक्षयैव पर्यव-- स्थति, तथा चैहिकाभ्युदयमानं प्रतिमापूजनादिफलं सूर्याभस्य न मोक्षर्थिनामादरणीयं देवस्थितेर्देवानामेवाश्रयणीयत्वादित्याशङ्कय तन्निराक रणपूर्व तादृशं कारणमाक्षिपन्नाहनात्र प्रेत्य हितार्थितोच्यत इति व्यक्ता जिनाएं स्थितिः, देवानां न तु धर्महेतुरिति ये पूत्कुर्वते दुर्द्धियः / / प्राक् पश्चादिव रम्यतां परभवश्रेयोऽर्थितासंगतां, प्राक्पश्चाच हितार्थितां श्रुतमतां पश्यन्त्यहो ते न किम? 115 // (नात्रेति) नात्राधिकृते सूर्याभकृत्ये प्रेत्य हितार्थितोच्यते। "एयं में पेचाहिआए' इत्यादिवचनात्। पच्छा पुरा हिआए'' इति वचन उपवचनकर्षणस्थलेऽप्युक्तत्वादिति जिनाएं व्यक्ता प्रकटा, देवानां स्थितिः स्थितिमात्र, न तु धर्मसाधनम् इति दुर्धियो दुष्टबुद्धयः पूतकुर्वते शिरसि रजः क्षिपन्त इव वाढ प्रलपन्ति, ते श्रुतमतां प्राक् पश्चादम्यतामिव प्राक् पश्चाच हितार्थितां परभवश्रेयोऽर्थितायां सङ्गतां सहिताम्, उभयलोकार्थितापरिणामीत्यर्थः / किं न पश्यन्ति?, तथाऽदर्शने तेषां महाप्रमाद इत्यर्थः / प्राक्पश्चादम्यतावचनं चेदं राजप्रश्नीये-"तएणं केसीकुमारसमणे एएसि -एवं बयासीमा णं तुम पएसी पुव्वं रमणिने पच्छा अरमणिज्जे भवेज्जासि' (इत्यादि 'पएसी' शब्दे केशीकुमारसंवादे स्फुटी भविष्यति) प्रति० / रा०1 अत्र यदेव भावजिनवन्दने फलं तदेव जिनप्रतिमावन्दनेऽप्युक्तम् / न चैतत्सूर्याभदेवस्य सामानिकदेववचनं न सम्यग् भविष्यति इत्याशङ्कनीयम्, सम्यग्दशा देवानामप्युत्सूत्रभाषित्वाऽसंभवात्, तर्हि काऽप्यागमे-''किं पुटिवं'