________________ चेइय 1211- अभिधानराजेन्द्रः-भाग 3 चेइय दिद्दष्टमिति, अहो!तथ्यमिदं भगवज्ज्ञानमित्यनुमोदते इत्यर्थः, चैत्यपदस्य ज्ञानार्थत्वादिति मुग्धपर्षदि मूनिमाधूय व्याख्यातुरुपहसन्नाहज्ञानं चैत्यपदार्थमाह न पुनर्मूत्तिं प्रभोर्यो द्विषन्, वन्द्यं तत्तदपूर्ववस्तुकलनाद् द्दष्टार्थसंचार्यपि / धातुप्रत्ययरूढिवाक्यवचनव्याख्यामजानन्नसो, प्रज्ञावत्सु जमः श्रियं न लभते काको मरालेष्विव / / 8 / / योद्विषन् जिनशासने द्वेषं कुर्वन, प्रकृते चैत्यपदार्थ ज्ञानमाह, न पुनः प्रभोर्मूर्ति, किंभूतं ज्ञानम्?, तस्य तस्यापूर्वस्य वस्तुनः कलनात्परिच्छेदाद् , वन्द्यमनुमोद्यमिति योगः। किंभूतमपि?, दृष्टार्थसंचार्यपि, इह लोके चैत्यवन्दनसंचरिष्णुभविष्णुशब्दार्थमपि, अपूर्वदर्शनेन विस्मयोत्पादकत्वाद् भगवज्ज्ञानस्य वन्द्यत्वे 'इह चेइआई वंदइ" इत्यस्यानुपपत्तिः इहापूर्वादर्शनात्, अपिना निपातेनानौचित्यं दर्शयतिअसौ जडः, प्रज्ञावत्सु प्रेक्षावतां मध्ये, श्रियं सदुत्तरस्फूर्तिसमृद्धि न लभते,केषु क इव, मरालेषु राजहंसेषु काका इव इत्युपमा। किं कुर्वन्?, अजानन, का?, धात्वादिव्याख्याम् / तथाहि चैत्यानीत्यत्र 'चिती' संज्ञाने इति धातुः,कर्मप्रत्ययः। तथा चाहत्प्रतिमा एवार्थः / 'चिती'संज्ञाने संज्ञानमुत्पद्यते काष्ठकर्मादिषु प्रतिकृतिं दृष्ट्वा-'जहा एसा अरिहंतपडिम त्ति' चूर्णिस्वरसादिति प्रकृते ज्ञानमर्थ वदन् प्रकृतिप्रत्याभिज्ञ एव। तथा रुढेरप्यनभिज्ञ एव, चैत्यशब्दस्य जिनगृहादावेव रुढत्वात् / 'चैत्यं जिनौकस्तद्विम्ब, चैत्यो जिन सभातरुः''इति कोशात्। एतेन विपरीतव्युत्पन्नानामभेदप्रत्ययोगार्थोऽपि निरस्तः, योगाद् रूढेर्बलवत्वात् / अन्यथा पड्कजशैबालदिबोधप्रसंगात / वाक्यसयापि / वाक्य साकाङ्क्षपदसमुदायः--"इह चेइआई वंदइ'इति। अत्रस्थानि चैस्यानि वन्दते इति हि वाक्यार्थः / स च चैत्यपदस्य ज्ञानार्थत्वे न घटते. भगवज्ञानस्य नन्दीश्वरादिवृत्तित्वाभावात्, जगवृत्तित्वस्यान्यसाधारण्ये नाविस्मापकत्वात्, तेन नन्दीश्वरादेः प्रतिमावाचकतयाः प्रामाप्यानिर्णये च प्राग् भगवद्वचनाविश्वासेन मिथ्याद्दष्टित्वप्रसंगादिति। वचनस्य / ज्ञानस्यैकत्वात् ज्ञानार्थे चैत्यशब्दस्यापीष्टबहुवचनस्य कुत्राप्यननुशासनात्सिद्धान्तेऽपि तथा परिभाषणस्याभावात्। अन्यथा 'केवलनाणं" इत्यत्र स्थले 'चेइआइं ति'' प्रयोगापत्तेः, यदि वा पूर्वभगवदुक्तार्थदर्शनस्थलेऽपीद्दा प्रयोगः स्यादिति कल्पते तदा गर्भगृहस्थमहाव्याधितमृगपुत्रस्य यथोक्तस्य दर्शिनी गौतमस्याधिकारेऽपि तथा प्रयोगः स्यादिति किमसंबद्धवादिना पामरेण सह विचारणया। ''तस्स ठाणस्स'' इत्यत्र तच्छब्दाव्यवहितपूर्ववर्तिपदार्थपरामर्शकत्यानन्दीश्वरादिचैत्यवन्दननिमित्तकाऽऽलोचनाप्रयुक्ताया एवानाराधनाया अभिधानाद्विगीमेतदिति। मैवम्। तच्छब्देन व्यवहितस्याप्यत्पतन गमनस्यैवालोचनानिमित्तिकालोचनानिमित्तस्य परामर्शात्,यतनयाऽऽहितेन न भोगमनेनाऽपि दोषाभावात्, अत एव च यतनया ग्रामानुग्राम विहरता गौतमस्वामिनाऽष्टापदरोहणाय जङ्घाचारणलब्धि प्रयुज्य तश्चैत्यवन्दने निर्दोषता, तद्वन्दनं चोक्तमुत्तराध्ययननिर्युक्तो"चरमसरीरो साहू, आरुहती णगवरं ण अण्णो त्ति। एयं तु उदाहरणं, कासी य तहिं जिणवरिंदो // 25 / / " सोउण तं भगवओ, गच्छति तर्हि गोयमो पहितकित्ती। आरुज्झतं णगवरं, पभिमाओ वंदइ जिणाणं // 26 // त्ति // उत्त०नि०१० अ०।"भगवं च गोयमो जंघाचारणलद्धीएलूतातंतुम्मि णिस्साए उड्ढुउप्पइओ त्ति" चूर्णिः / न चलब्धिप्रयोगमात्रं प्रमादमग्लान्या धर्मदेशनादिना तीर्थकृल्लब्धिप्रयोगेऽपितत्प्रसंगात्, किंतु तत्कालीनमौत्सुक्यमिति, निरुत्सुकस्य नभोगमनेनापि चैत्यवन्दनेन दोष इति हदतरमनुसंधेयम्। अत एव भगवत्यां तृतीयशतकेपञ्चमोद्देशके सङ्घकृत्ये साधोक्रियकरणस्य विषयमात्रमुक्तम्। अनगारपूर्वमभियोगे चानालोचनायामभियोगेषु गतिरुक्ता प्रशस्तव्यापारेषु न किञ्चदेतत् / (तथा च तत्पाठ:-"अणगारे ण भंते! आविअप्पा वाहिरए पोग्गले': इत्यादि 'अणगार' शब्दे प्रथमभागे 274 पृष्ठे उक्तः) (प्रति०) (7) अथ देववन्द्यतामाधिकृत्य देवानां शरणीकरणीयां भगवन्मूर्तिमभिष्टौतिअर्हचैत्यमुनीन्द्रनिश्रिततया शक्रासनक्षमावधि, प्रज्ञप्तौ भगवान् जगाद् चमरस्योत्पातशक्तिं धुव्रम् / जैनी मूर्तिमतो न योऽत्र जिनवजानाति नानातु कस्तं मयं वत शड् गपुच्छरहितं स्पष्टं पशुं पण्डितः / / 6 / / (अर्हदिति)अर्हन्तस्तीर्थकराः, चैत्यानि तत्प्रतिमाः, मुनीन्द्राः परमसौम्यभावनातः साधुचन्द्राः, तनिश्रिततया तन्निश्राकरणेन हेतुना, भगवान् ज्ञातनन्दनः, चमरस्यासुरकुमारराजस्य, शक्रस्य चासनक्ष्माऽऽसनपृथ्वी, साऽवधिर्यत्र यस्यां क्रियायां तथा, चमरस्योत्पातस्य शक्ति ध्रुवं निश्चितं, जगाद, अतः-अर्हदनागरमध्ये चैत्यपाठात्, योऽत्र जिनशासने, जैनी मूर्ति जिनवत जिनतुल्यां न जानाति तं मर्त्य मनुष्यं कः पण्डितः मोक्षानुगतप्रज्ञावान्जानाति?,न कोऽपीत्यर्थः / सर्वेषामपि प्रेक्षावतां स मनुष्यमध्ये न गणनीय इति तात्पर्यम् / कीदृशं तम्? अविवेकितया स्पष्ट प्रत्यक्ष पशुम्। कीदृशं पशुम?, श्रृङ्गपुच्छाभ्यां रहितं, श्रृङ्गपुच्छाभावमात्रेण तस्य पशेवैधय नान्यदित्यर्थः / व्यतिरेलंकाइ कारगर्भोऽत्राक्षेपः / प्रति०। ('असुरकुमार' शब्दे प्रथमभागे८५२ पृष्ठे, 'चमर 'शब्दे अस्मिन्नेव भागे 1112 पृष्ठे च तत्कृतवन्दन कपाठ उक्तः) अत्र लुम्पक:-''अरहते वा अरिहंतचेइयाणि वा" इति पदद्वयस्याऽर्थः, "समणंचा माहणवा'' इति पदद्वयस्यैव। अन्यथा-"तं महाडुक्खं खलु" इत्यादौ अर्हता भगवतामनागाराणं च भगवत्याशातनया महादुःखमवेत्याशातनाद्वयस्यैवोपनयादुपक्रमोपसंहारविरोधापत्तेरित्याह / तत्तुच्छम् / उक्तपदद्वयसयोपक्रमे एकार्थत्वे, उपसंहारेऽपि तव गलेपादिकया पदद्वयपाठप्रसङ्गात् अन्यथा शैलीभङ्ग वज्रलेपतानुपतत्तेः / कस्तर्हि विरोधपरिहारोपाय इति चेत्, आकर्णय कर्णामृतं सकर्णनम्, अकर्णो मा भृः / उपक्रमे त्रयाणां शरणीकरणीयत्वे तुल्यत्वे विवक्षासु प्रकृतिवद्धस्य शक्रस्योपहारे वाऽर्हचैत्याशातनया अर्हदाशातनायामेवान्तर्भावाद् विवक्षितानां त्रयस्त्रिंशत एव परिगणनादविरोध इति / यदपि भावार्हता भावसाधूनां च ग्रहणान्मध्ये चैत्यग्रहणमयुक्तमिति कल्पते, तदपि सिद्धान्तापरिज्ञानविजृम्भितं.छद्मस्थकालिकस्य भगवतो द्रव्याहत एवासुरकुमारराजेन शरणीकरणात्, द्रव्याहतः शरणीकरणे स्थापनार्हतः शराणाकरणस्य न्यायप्राप्तत्वात्, चैत्यशरणीकरणीयत्ये स्वस्थानादौत