SearchBrowseAboutContactDonate
Page Preview
Page 1234
Loading...
Download File
Download File
Page Text
________________ चेइय १२१०-अभिधानराजेन्द्रः-भाग 3 चे इय वाचकभावस्यान्यत्र स्थापकभावस्य संबन्धस्यापि विशेषात्, तादात्म्यस्य तु द्रव्यादन्वत्रासंभवात: अनया प्रतिवन्द्या दुर्वादिनमाक्षिपतितस्मात्कारणात् हे जडमते! त्वया द्वयमेव नामस्थापनालक्षणमविशेषेण वन्द्यम्, द्वयोरपि भगवदध्यात्मोपनायकत्वाविशेषात् / अन्तरङ्ग प्रत्यासत्यभावादुपेक्ष्यत्वे तु द्वयमेव त्वया त्याज्यं स्यात्, तचानिष्टम्, नाम्नः परेणाप्यङ्गीकरणात्, अतएव तर्कातलुम्पकमुखे मषी कूर्चको दत्तः स्यात्, मालिन्यापादनादिति भावः / अत्र मषीकूर्चकत्वेन मौनदानविवक्षायां 'कमलमनम्भसि ' इत्यादाविव रूपकगर्भा यथाश्रुतविवक्षायां त्वसंबन्धं संबन्धरूपाऽतिशयोक्तिः / अथात्र स्थापना यद्यवन्द्या स्यात्तदा नामाप्यवन्द्यं स्यादित्येतस्य न तर्कत्वम्, आपाधापादकयोर्भिन्नाश्रयात्वादिति चेत्, आपाधापादकान्यथानुपपत्तिमर्यादयैव विपर्ययपर्यवसायकत्वेनात्र तर्कोक्तः / अतएव यद्ययं ब्राह्मणो न स्यात्ततस्तत्पिता ब्राह्मणो न स्यात्, उपरि सविता न स्याद् न भूमेरालोकवत्त्वं न स्यादित्यादयस्ताः सुप्रसिद्धाः। विपर्ययपर्यवसानं च परेषामनुमितिरूपमस्माकं स्वतन्त्रप्रमिमिरुपमित्यन्देतत्। भावनिक्षेपो यद्यवन्द्यस्थापनानिक्षेपप्रतियोगी स्यादवन्द्यनामनिक्षेपप्रतियोग्यपि स्यादित्येवं तर्कस्य व्यधिकरणत्वं निरसनीयम्, अनिष्टप्रसङ्गरूपत्वात्, प्रतिवन्ये चात्र स्वातन्त्र्येण तर्क इति विभावनीयं तर्कनिष्णातैः। प्रतिवादीनेव भझ्याऽऽक्षिपस्तदाराधकानभिष्टौति(५) चारणकृतवन्दनाधिकारः। चारणदेववन्दितत्वम्स्वान्तध्वान्तमयं मुख विषमयं दृग धूमधारामयी, तेषां यैर्न नता स्तुता न भगवन्मूतिर्न वा प्रेक्षिता। देवश्चारणपुङ्गवैः सहृदयैरानन्दितैर्वन्दिता। ये त्वेनां समुपासते कृतधियस्तेषां पवित्रं जनुः // 4 // "सवान्तमित्यादि ।यैर्भगवन्मूर्त्तिर्न नता तेषां स्वान्तं हृदयं ध्वान्त- / मयमन्धकारप्रचुरं, हृदये नमनप्रयोजकालोकाभावादेवातन्नमनोपपत्तेः, यैर्भगवन्मूर्ति स्तुता तेषां मुखं विषमयं, स्तुतिसूक्तपीयूषाभावस्य तत्र विषमयत्व एवोपपत्तेः, यैर्भगवन्मूर्तिः, वा अथवा,न प्रेक्षिता तेषा दृग् धूमधारामयी, जगद्दशाममृतसेचनकतत्प्रेक्षणाभावस्य धूमधारावृतनेत्रत एवोपपत्तेः, ध्वान्तत्वादिना दोषविशेषा एवाध्यवसीयन्ते / इत्यतिशयोक्तिः, सा चोक्तदिशा काव्यलिङ्गानुप्राणिताऽवसेया / ये तु कृतधियः पण्डिता एनां भगवन्मूर्ति समुपासते तेषां जनुः जन्म पवित्रं, नित्यं मिथ्यात्वमलपरित्यागात् / कीदृशी?, देवैः सुरासुव्यन्तर-- ज्योतिष्कः, चारणपुङ्गवैःचारणप्रधानैः जपाचारणविद्याचारणैः / सहृदयनितत्त्वैरानन्दितैर्जातानन्दैर्वन्दिता, हेतुगर्भ चेदं विशेषणम्, देवादिवन्दितत्वेन शिष्टाचारात्तत्समुपासनं जनानां पावित्र्यायेति भावः / (प्रति०) (अत्र'चारण' दृश्योऽस्मिन्नेव भागे 1173 पृष्ठे) उक्तमेव स्वीकारयंस्तत्र कुमतिकल्पिताशङ्कां निरस्यन्नाहप्रज्ञप्ती प्रतिमानतिर्न विदिता किं चारणैर्निर्मिता, तेषां लब्ध्युपजीवनाद्विकटनाभावात्त्वनाराधना। सा कृत्याकरणादकृत्यकरणाद्रप्रव्रतत्वं भवेदित्येता विलसन्ति सन्नयसुधासारा बुधानां गिरः॥६॥ (प्रज्ञप्ताविति) भगवतीसूत्रे किं चारणैः जगाचारणविद्याचारणश्रमणैन- | मिता प्रतिमानतिःन विदिता न प्रसिद्धा?: अपि तु प्रसिद्धैव। सुधर्मस्वामिना कण्ठरवेणोक्तस्य तत्र तरणिप्रकाशतुल्यस्य कुमतिकौशिकवाड्मात्रेणापहोतुमशक्यत्वात् / ननु यदुक्तं तद्यक्तमेव, परं चैत्यवन्दननिमित्तालोचनाभावे नाराधकत्वमुक्तमिति तेषां चैत्यनति स्वारसिकी नाभ्युपगच्छाम इत्याशङ्कायामाह-(तेषामिति)तेषां जङ्घाचारणाविद्याचारणानां लब्ध्युपजीवनात्, तस्य प्रमादरूपत्वात्तु पुनर्विकटनाभायादालोचनाभावात् "आलोयणा वियडणेति' नियुक्तिवचनाद्विकटनाशब्दस्यालोचनाऽर्थः / अनाराधना, तदन्यतो निमित्तात्तदाह-साऽनाराधना कृत्यस्य प्रमादालोचनस्याकरणात्, अकृत्यकरणं चैत्यवन्दने मिथ्यात्वकरणं , तत् पुरस्कृत्यानाराधनायामुच्यमानायां भग्नव्रतत्वं भवेत्, मिथ्यात्वसहचारिणामनन्तानुबन्धिनामुदयेन चारित्रस्य मूलत एवोच्छेदात, "मूलछेनं पुण होइ बारसाण्हं कसायाणं' इति वचनात्। तच नालोचनामात्रतोऽपि शोधयितुं शक्यमित्ययं भारो मिथ्याकल्पकस्यशिरस्यस्त्वित्येताः, सन्नयः समीचीननयः, स एव मिथ्याकल्पनाविषविकारनिरासत्वात्सुधा पीयूषं, तेन साराः, बुधानां सिद्धान्तपारदृश्वनां गिरः वाचः।।६।। प्रति०। ननु चारणानां यावान् गतेोंचार उक्तस्तावहेशगमनपरिक्षायामेव मुख्य उद्देशः, तेभ्यः क्रियमाणा या तत्तचैत्यानामपूर्वाणां दर्शनाद्विस्मयोद्बोधेन तन्नतिर्न तु स्वरसत इति, तदाचरणं न शिष्टाचार इति सर्वेषां साधूनां न तद्वन्द्यता तदृष्टान्तेनेति कुमतिमतमाशङ्कय निषेधतितेषां न प्रतिमानतिः स्वरसतो लीलीनुषङ्गात्तु सा, लब्ध्याप्तादितिकालकूटकवलोडारा गिरः पाप्मनाम् / हन्तवं न कथं नगादिशु नतिर्व्यक्ता कथं वेह सा, चैत्यानामिति तर्ककर्कशगिरा स्यात्तन्मुखं मुद्रितम्॥ 7 // (तेषामिति )तेषां जट्टाचारणविद्याचारणाना प्रतिमानतिः स्वरसतो न, स्वरसः श्रद्धाभक्तिसंतुलितः परिणामः / तु पुनः लब्ध्याप्तात् लीलानुषङ्गात्, लब्धिप्राप्तलीला दिदृक्षया प्रवृत्तानां तत्रापूर्वदर्शनी संनिधिकदर्शनतयेत्यर्थः / न तु अस्वारसिकनत्या काऽपि क्षतिः, स्वारसिककृत्यकरणस्यैव दोषत्वात्, इत्येताः पाप्मनालुम्पाकदुर्गतानां गिरः कालकूटकवलोद्ाराः, उद्गीर्यमाणकालकुटकला इत्यर्थः / भक्षितमिथ्यात्वकालकूटानामीद्दशनामिवोद्गाराणां संभवात्। तत्रोत्तरम्हन्तेति निर्देशे, एवं लीलाप्राप्तस्य विस्मयेन साधूनां वन्दनसंभवे कथं नगादिषु मानुषोत्तरनन्दीश्वररुचकमेरुतदारामदिविषये न चारणानां नतिः, तत्राप्यपूर्वदर्शनजनितविस्मयेन तत्संभवात् / कथं चेह भरतविदेहादी ततः प्रतिनिवृत्तानां चैत्यानां प्रतिमानां सा नतिः इत्येवंभूता या तर्ककर्कशा गीस्तया तन्मुखं पाप्मवदनं मुद्रितम्, अनया गिरा ते प्रतिवक्तुं न शक्नुयुरित्यर्थः / कर्क शपदं तर्क स्य निविडमुद्राहेतुत्वमभिव्यनक्ति / अत्र यथा गोचरचर्योद्देशेनापि निर्गतेन साधुनोऽन्तरोपनताः साधवः खरसत एव वन्दनीयाः, तथा ऽऽ गमगोचरदर्शनायामपि,एवं चारणैनन्दीश्वरादिप्रतिमानतिःस्वरसत एव अनभ्रोपनतपीयूषवृष्टिवत्परमप्रमोदहेतुत्वादित्युक्तं भवति।।७।। (6) अथोक्तालापके-"तहिं चेइयाइं वंदइ''इत्यस्यायमर्थः-यथा भगवद्भिरुक्तं, तथैव नन्दीश्वरा
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy