________________ चेइय १२०९-अभिधानराजेन्द्रः-भाग 3 चेइय राध्यत्वं सुप्रतीतम् / अक्षरादिश्रुतभेदुषु संज्ञाव्यञ्जनाक्षरादीनां भावश्रुतकारणत्वेन द्रव्यश्रुतत्वात्, पत्रकपुस्तकलिखितस्य 'तंदव्वसुअं जंपत्तयपोत्थयलिहिअं'' इत्यागमेन द्रव्यश्रुतत्वप्रसिद्धेः। भावश्रुतस्यैव वन्द्यत्वेतत्पर्यायजिनवागपिन नमनीया स्यात्, केवलज्ञानेन दृष्टानामर्थानां जिनवाग्योगेन सृष्टायास्तस्याः श्रोतृषु भावश्रुतकारणत्वेन द्रव्यश्रुतत्वात् / तदार्षम्-"केवलनाणे णत्थे, जाउं जे तत्थ पण्णवणजोगा / ते भासइ तित्थयरो, वयजोगो सुझं हवइ सेस / / " इति / वागयोगः श्रुतं भवति शेषमप्रधान, द्रव्यभूतमिति तुरीयपादार्थः / भगवन्मुखोत्सृष्टव वाणी वन्दनीया नान्येति वदन् स्वमुखेनैव ध्याहन्यते, के वलायास्तस्याः श्रवणायोग्यत्येन श्रोतृषु भाव श्रुताजननात् द्रव्यश्रुरूपताया अप्यनुपपत्तेः, मिश्रायाः श्रवणेऽपि वत्रिणि स्थिता एयागात् / पराघातवासिताया ग्रहणे च जिनवागप्रयोज्याया अन्याया अपि यथास्थितवाच आराध्यत्वाक्षतेः। एतेन सिद्धालादेराराध्य-त्वमपि व्याख्यातं, ज्ञानदर्शनचारित्ररूपभावतीर्थहतुत्वेनारय द्रव्यतीर्थत्वादनन्तकोटसिद्धस्थानत्व स्यान्यत्र विशेषेऽपि स्फुटप्रतीयमानतद्भावेन तीर्थस्थापनयैवात्र विशेषात्, अनुभवादिना तथासिद्धौ श्रुतपरिभाषाभावस्य तन्त्रत्वात् / अन्यथा चतुर्वर्णश्रमणसघे तीर्थत्वं, तीर्थकरे तु तग्राह्यत्वमित्यपि विचारकोटिं नाटीकेत, व्यवहारविशेषाय यथा परिभाषणमपरिभाषणं च न व्यामोहाय विपश्चितामिति स्थितम् / भावोनिक्षेपेतुन विप्रतिपत्तिरिति चतुर्णामपि सिद्धमाराध्यत्वम्।।२।। (प्रति०) (4) ब्राही लीपिरिव प्रतिमा सूत्रन्यायेन वन्द्येति तदपह वकारिणां मूढतामाविष्करोतिलुप्तं मोहविषेण किं किमु हतं मिथ्यात्वदम्भोलिना, मग्न किं कुनयावटे किमु मनो लीनं नु दोषाकारे / प्रज्ञप्तौ प्रथमं नतां लिपिमपि ब्राहीमनालोकयन्, वन्द्याऽर्हत्प्रतिमा न साधुभिरिति व्रते यदुन्मादवान्।।३।। (लुप्तभिति) प्रज्ञप्तौ प्रथमभादौ वचने नतां सुधर्मस्वामिना ब्राही लिपिमनालोकयन्नवधारणाबुद्ध्याऽपरिकल्पयन् “अहत्प्रतिमा साधुभिर्न वन्द्या " इति यदुन्मादवान् मोहपरवशो ब्रूते , तत्किं त-स्य मनो मोहविषेण लुप्तं व्याकुलितम्? किमु मिथ्यात्वदम्भोलिना मिथ्यात्ववज्रेण हतं चूर्णितम्? अथवा-किं कुनयावटे दुर्नयकूपे मग्रम? यद्वा नु इति उत्प्रेक्षायां, दोषसमूहाभिन्ने दोषाकरे लीनम् ? "छायाश्लेषेन मनश्चन्द्र विशति" इति श्रुतेम॒तमित्यर्थः / अत्र "लि म्पतीव तमोऽङ्गानि 'इत्यादौ लेपनादिना व्यापनादेरिव विषकतुकलुप्तवादिना लुम्पकमनोमूढताया अध्यवसानात् स्वरूपोत्प्रेक्षायाः किमादिौतिकः "संभावनमथोत्प्रेक्षा, प्रकृतस्य समेन यत् ' इति काव्यप्रकाशकारः। अन्यधर्मसमानेवादिद्योत्योत्प्रेक्षेति हेमचन्द्राचार्याः / अयं भावः-'नमो बंभीए लिवाए'' इति पदं यद् व्याख्याप्रज्ञप्तेरादावुपन्यस्तं,तत्र ब्राह्मी लिपिरक्षरविन्यासः,सायदि श्रुतज्ञानस्याऽऽकारस्थापना तदा तद्वन्द्यत्वे साकारस्थापनाया भगवत्प्रतिमायाः स्पष्टमेय साधूनां वन्द्यत्वम्, तुल्यन्यायदिति / तत्प्रद्वेषे प्रकृत प्रद्वेष एव / यत्तु प्रतिमाप्रद्वेषसाधनाऽन्धकारितहदयेन धर्मशृगालेन प्रलपितम्-ब्राह्मी लिपिरिति प्रस्थकदृष्टान्तप्रसिद्धनैगमनयभेदेन तदा दिप्रणेता नाभेयदेव एवेति, तस्यैवायं नमस्कार इति / तन्महामोहविलसितम्। ऋषभनमस्कारस्य 'नमोऽर्हद्भ्यः' इत्यत एव सिद्धेः, प्रतिव्यक्ति ऋषभादिनम स्कारस्य त्वविवक्षितत्वात्, अन्यथा चतुर्विंशतिनामोपन्यासप्रसङ्गात्। श्रुतदेवतानमस्कारानन्तरमृषभन मस्कारोपन्यासानौचित्यात् / शुद्धनैगमनये ब्राहल्या लिपेः कर्तुः लेखकस्य नमस्कारप्राप्तेश्चेति न किञ्चिदेतत् / एतेनाकाररप्रश्लेषादलिप्यै लपरहितायै ब्राहृवै जिनवाण्यै नम इत्यादि तत्कल्पनाऽपि परास्ता, वाणीनमस्कारस्य 'नमः श्रुतदेवतायै' इत्यनेनैव गतार्थत्वात्, वक्रमार्गेण पुनरुक्तौ वीजाभावात् / "वभीए ण लिवीए अट्ठारसविहे लिविविहाणे पन्नते'' इति समवायाङ्गप्रसिद्ध प्रकृतपदस्य मौलमर्थमन्नध्य विपरीतार्थकरणत्वोत्सूत्रप्ररुपणव्यसनं विना किमन्यत्कारण धर्मशृगालस्येति वयं न जानीमः? केचित्तु पापिष्ठा नेदं सूत्रस्थं पदं, "रायगिहचलण'' इत्यत एवारभ्य भगतीसूत्रप्रवृत्तेः, किन्त्वन्यैरेवोपन्यस्तमित्याचक्षते , तदपि तुच्छम / नमस्कारादीनामेव सर्वसूत्राणां व्यवस्थितेरेतस्य मध्यपदत्वात्। प्रति०(नमस्कारस्य स्वस्थानने युक्तता) एवं च नमस्कारादौ प्रज्ञप्तिसूत्रे स्थितम्- "नमो बंभीए लिवीए'' इति पदं प्रतिमास्थापनायात्यन्तोपयुक्तमेवेति मन्तव्यम्। "हित्वा लुम्पकगच्छसूरिपदवीं गार्हस्थ्यलीलोपमा, प्रोद्यद्बोधिरतः पदादभजत श्रीहीरवीरान्तिकम्। आगस्त्यागपुनव्रतग्रहपरो यो भाग्यसौभाग्यभूः, स श्रीमेघमुनिन कैः सहृदयैर्धर्मार्थिषु श्लाघ्यते? ||1|| एकस्मादपि समये पदादनेके, संबुद्धा वरपरमार्थरत्नलाभांतूं / / अम्भोधौ पतितपरस्तु तत्र मूढो, निर्मुक्तप्रकरणसंप्रदायपोतः॥२॥"३॥ अथ नामप्रतिमावन्द्यां स्थापना स्थंपियतिकिं नामस्मरणेन न प्रतिमया किं वा भिदा काऽनयोः, संबन्धः प्रतियोगिनान सदृशो भावेन किं वा द्वयोः? || तद्वन्द्यं द्वयमेव वा जममते! त्याज्यं द्वयं वा त्वया, स्यात्तदित एव लुम्पकमुखे दत्तो मषीकूर्चकः || 4 // "किं नाम '' इत्यादि / किं नामस्मरणेन चतुर्विशतिस्तवादिमन्नामानुचिन्तनेन? नाम्नः पुद्गलात्मकत्वेनात्मानुपकारित्वान्नाम्नः स्मरणेन नाभिस्मरणे तदुणसमापत्या फलमिति चेदवाहप्रतिमया किं वा न स्यात?, अमुद्रगुणसमुद्रलोकोत्तरमुद्रालड्कृतभगवत्प्रति मादर्शनादपि सकलातिशायिभगवद्गुणध्यानस्य सुतरां संभयात्। तदुक्तम्"प्रशमरसनिमग्नं दृष्टियुग्मं प्रसन्नं, वदनकमलमड्कः कामिनीसङ्गशून्यः। करयुगमपि यत्ते शस्त्रसंबंन्धवन्ध्यं, तदसि जगति देवो वीतरागस्त्वमेव'' | // 1 // इति / बोध्युदयोऽपि प्रतिमादर्शनाद् बहूनां सिद्ध एव / तदुक्तं दशवैकालिकनियुक्तौ-"सिजंभवं गणहरं, जिणपडिमादंसणेण पडिबुद्ध मण गपिअरं दशकालिअस्स णिहगं वंदे" 191 इत्यादिनियुक्तिश्च सूत्रान्नतिभिद्यत इति व्यक्तमेव / विवेचयिष्यते चेदमुपरिष्टात् / नाम्नो नामिना सह वाच्यवाचकभावसंबन्धोऽस्ति, न स्थापनाया इत्यस्ति विशेष इतिचेत, अत्राह-प्रतियोगिनेतरनिः-- क्षेपानिरूपके नभावनिक्षेपेण सह, द्वयोनभितस्थापनोः, संबंन्धः किं सदृशो न?, सदृशवचने न मिथः किञ्चिद्वैषम्यमित्यर्थः / एकत्र