________________ चेइय १२०७-अभिधानराजेन्द्रः-भाग 3 चेइय संज्ञा। आह चूणिकृत-'गाम सुत्ति देसण त्ति छन्नउईगामेसु त्ति भणिय होइ, उत्तरावहाणं एसा भणिइत्ति / " शाश्वतचैत्यभक्तिचैत्यानि दर्शयतिनिचाई सुरलोए, भत्तिकयाइं तु भरहमाईहिं / निस्सानिस्सकयाई, जहिँ आएसो चयसु निस्सं / / नित्यानि शाश्वतचैत्यानि सुरलोके भवनपतिव्यन्तरज्योतिष्क- / वैमानिकदेवानां भवननगरविमानेषु, उपलक्षणत्वात् मेरुशिखरवैताढ्यादिकूटनन्दीश्वररुचकादिष्वपि भवन्तीति, तथा भक्क्या भरतादिभिर्यानि कारितानि तानि, अन्तर्भूतण्यर्थत्वाद्भक्तिकृतानि / अत्र च (जहिं आएसो त्ति) येन भक्तिचैत्येनादेशः प्रकृतं, तद् द्विधानिश्राकृत गच्छप्रतिबद्धम, अनिश्राकृतं तद्विपरीतं, (चयसुनिस्स त्ति) निश्राकृत तत्त्य ज परिहर, अनिश्राकृतं तु कल्पते। गतं चैत्यद्वारम् बृ० 1 उ०। अथाहत्प्रतिमाया आममोपपतिभ्यां युक्तता प्रदर्श्यते / तत्रेदं प्रतिमाविषयाशड्कानिकारणस्य चिकीर्षिता-- र्थत्वात् प्रतिमास्तुतिरूपमिष्टवीजप्रणिधान पुरस्सरमाधपद्यमाहऐन्द्रश्रोणिनता प्रतापभवनं भव्याड्गिनेत्रामृतं, सिद्धान्तोपनिषद्विचारचतुरैः प्रीत्या प्रमाणीकृता! मूर्तिः स्फूर्तिमती सदा विजयते जैनेश्वरी विस्फुरन्मोहोन्मादघनप्रमादमदिरामत्तैरनालोकिता।।१।। जैनेश्वरी मूर्तिः सदा विजयते इत्यन्वयः / जिनेश्वराणामियं जैनेश्वरी, मूर्तिः प्रतिमा, सदा शक्या प्रवाहतश्च निरन्तरं, विजयते सर्वोत्कर्षण वर्तत, अत्र जयतेरर्थ उत्कर्षः, "पराभवे तथोत्कर्षे जयत्यन्ते त्वकर्मक'' इत्याख्यातचन्द्रिकावचनात्। सर्वाधिकत्वं च वेरुपसर्गस्येति बोध्यम्। मूर्तिः कीदृशी?,(ऐन्द्र इति) इन्द्राणामियमैन्द्री, सा चासौ श्रेणिश्चेति कर्मधारयः / तया नता नमिकर्मीकृता, एतेनैतदपलापकारिणो भगवत्प्रतापमैन्द्रः शापो ध्रुव इति व्यज्यते / पुनः कीदृशी?, प्रतापस्य कोशदण्डस्यतेजसो भवनं गृहम्, उक्ततेजः स्थाप्यगतं स्थापनायामुपचर्य व्याख्येयम्, तेनैतदपलापकारिणो भगवत्प्रतापदहनेनैवाहता भविष्यन्ति इति व्यज्यते / पुनः कीदृशी? भव्याङ्गिनाम् -आसन्नसिद्धिकप्राणिना, नेत्रयोरमृतं पीयूषं, सकलनेत्ररोगापनयनात्परमानन्दजननाच्च / एतेनैद्दर्शनात् येषां नयनयो नन्दस्तेऽभव्या दुरभव्या इत्यभिव्यज्यते। पुनः कीदृशी?, प्रमाणीकृताप्रमाणत्वेनाभ्युपगला / कैः? सिद्धान्तोपनिषद्विचारचतुरैः, सिद्धान्तानामुपनिषद्रहस्यं तद्विचारे ये चतुरास्तैः, कया?.प्रीत्या स्वरसेन, न तु बलायिोगादिना, एतेन सिद्धान्तप्रतिमाप्रामाण्याभ्युपगमयोन्तिरीयकत्वात्स्वरसतःप्रतिमाप्रामाण्याभ्युपगन्तै शिष्टो नान्य इत्यादि सूचितं भवति, तदनभ्युपगन्ता च सिद्धान्तानभिज्ञ इति / पुनः कीदृशी? स्फूर्तिमतीस्फूर्तिः प्रतिक्षणं प्रवर्द्धमानकान्तिः, संनिहितप्रातिहार्यत्वं वा, तद्वती। एतेन तदाराधकानामेव बृद्धिस्पूर्तिर्भवति, नान्यस्येति सूच्यते। पुनः कीदृशी?, अनालोकिता, सादरमवीक्षितेत्यर्थः / अनालोकितपदस्य सादरमनालोकितत्वेऽर्थान्तरसंक्रमितवाच्यत्वात्, अन्यथा चक्षुष्मतः पुरस्थितवस्तुनोऽनालोकितत्वानुपपत्तेः / कैः? विस्फुरन् विविधं परिणमन, यो मोहोन्मादो घनप्रमादश्च, तावेव ये मदिरे, ताभ्यां ये मत्तास्तैः / न च प्रमादस्य मोहेनैव गतार्थत्वादाधिक्यम्, अनाभोगमतिभ्रंशादिरूपस्य ग्रहणात् / न चान्वयपरिसमाप्तावस्य विशेषणस्योपादानात्समाप्तपुनरात्तदोषदुष्टत्वमति शंकनीयम्, सर्वोत्कृष्टत्वेन सर्वादरणीयत्वे लब्धे यदि सर्वराद्रियते कथं न लुम्पकैरित्याशंकानिवारणायैतद्विशेषणम्। ते हि मोहप्रमादोन्मत्ता इति तदनादरेऽपि सर्वप्रेक्षावदादरणीयत्वाक्षतिरित्युक्तदोषाभावात्, प्रकृतानुपपादविशेषणस्य पुनरुपादान एव तहोषव्यवस्थितेः / अत एव-"दीधितिमधिचिन्तामणि, तनुते तार्किकशिरोमणिः श्रीमान्।" इत्यत्र श्रीमद्विशेषणेन न समाप्तपुनरात्तत्वम्, श्रीर्विस्तरानुगुणज्ञानसमृद्धिरित्यस्य प्रकृतोपपादकत्वादिति समाहितं तार्किकैः / या सेत्यध्याह्नत्य वाक्ये, यैर्यः सा नेक्षिता ते मन्दभाग्या इति ध्वनिः, आनन्तर्ये तुनानुपपत्तिलेशोऽपीति ध्येयम् / इत्येवमाद्यपद्ये प्रतिमाया निखिलप्रेक्षावदादरणीयत्वमुक्तम्। (3) भावैकनिक्षेपवादिन उपहासं विधाय भावा चार्यनिष्पत्तिःनामादित्रयमेव भावभगवत्ताद्रूप्यधीकारणं, शास्त्रात्स्वानुभवाच्च शुद्धहृदयैरिष्टं च दृष्टं मुहुः / तेनार्हत्प्रतिमामनादृतवतां भावं पुरस्कुर्वतामन्धानामिव दर्पणे निजमुखालोकार्थिनां का मतिः? ||2|| (नामादित्रयमित्यादि) त्रयमेव, नामादिपदस्य नामादिनिक्षेपरत्वात् कृदाभिहितन्यायान्निक्षिप्यमाणं नामादित्रयमेवेत्यर्थः / भावभगवतो निक्षेप्यमाणभावार्हतस्तादूप्याधियोऽभेदबुद्धेः कारणं, शास्वादागमप्रमाणात्, स्वानुभवात् स्वगतप्रातिभप्रमाणाच, मुहुवरि वारमिष्टं च दृष्टं च, शास्त्रादिष्टम, अनुभवाच दृष्टमित्यर्थः / मुहुरिष्ट्या मननं, मुहुर्दृष्ट्या च ध्यानमुपनिबद्धं, तेन तत्त्वप्रतिपत्युपायसामग्यमावेदितम् / तदाह"आगमेनानुमानेन, ध्यानाभ्यासरसेन च। त्रिधा प्रकल्पयन् प्रज्ञा, लभते तत्वमुत्तमम् " // 1 // इति / तेन भावनिक्षेपाध्यात्मोपनायकत्वेन नामादिनिक्षेपत्रयस्याहत्प्रतिमास्थापनानिक्षेपस्वरूपत्वेनानादृतवतां भावं भावनिक्षेपं पुरस्कुर्वतां वाड्मात्रेण प्रमाणयतां दर्पणे निजमुखालोकार्थिनामन्धानामिव का मतिः? न काचिदित्यर्थः / निक्षेपत्रयानादरे भावोल्लासस्यैव कर्तुमशक्यत्वात्. शास्त्र इव नामादित्रये हृदयस्थिते सति भगवान् पुर इव परिस्फुरति, हदयमिवानुप्रविशति, मधुरालापमिवानुवदति, सर्वाङ्गीणमिवानुभवति, तन्मयीभावमिवापद्यते, तने सर्वकल्याणसिद्धिः। तदाह"अस्मिन् हृदयस्थे सति हृदयस्थस्तत्त्वतो मुनीन्द्र इति / हृदयस्थिते च तस्मि-नियमात्सर्वार्थसंसिद्धिः।। चिन्तामणिः परोऽसौ, तेनेयं भवति समरसापत्तिः। सैवेह योगमाता, निर्वाणफलप्रदा प्रोक्ता।।" इति / / तत्कथंनिक्षेपत्रयादरं विना भावनिक्षेपादरः, भावोल्लासस्य तदधीनत्वात् / न च नैसर्गिक एव भावोल्लास इत्येकान्तोऽस्ति जैनमते, तथा सति सर्वव्यवहारोच्छेदप्रसङ्गादिति स्मर्तव्यम् / अत्र निरुक्तविशेषणविशिष्टषु लुम्पकेषु निरुक्तविशेषणविशिष्टान्यरुपोत्प्रेक्षा, कल्पितोपमान्मादायोपमा वेति यथोचित्येन योजनीय तत्तदलंकारग्रन्थानिपुणैः / स्यादेतत्। भावार्हदर्शनं यथा भव्यानां स्वगतफलंप्रत्यव्यभिचारि, तथा न निक्षेपत्रयप्रतिपत्तिरिति तनाद् इति। मैवम्। स्वगतफले स्वव्यति