SearchBrowseAboutContactDonate
Page Preview
Page 1209
Loading...
Download File
Download File
Page Text
________________ चित्तसमाहिट्ठाण 1185 - अभिधानराजेन्द्रः - भाग 3 चित्तसमाहिट्ठाण गतैः साधुभिः सम्यगुपयुक्तैर्नवकोटीविशुद्धंग्राह्यम्। (आयाणे इत्यादि) आदानं ग्रहणं, निक्षेपणा मोचनं, भाण्डमात्र सर्वोपकरणं, मध्ये स्थितो भाण्डमात्रशब्दः काकाक्षिगोलकन्यायेनोभयत्रापि संबध्यते, ततश्च भाण्डमात्राद्यादाने निक्षेपणायां च समितिः प्रेक्षणप्रमार्जतपूर्विका सुन्दरचेष्टा, तया युक्तानाम, उच्चारादीनां परिष्ठापना पुनग्रहणतयोपन्यासः, तत्र भवा पारिष्ठापनिका, सा चासौ समितिश्च प्रत्युपेक्षणादिपूर्वा चेष्टा, तया समिताना, तत्रोचारः पुरीषं, प्रस्रवण मूत्रं, खेलो निष्ठीवनं, सिघाण नाशिकाश्लेषा, जल्लो मलं, तेषां परिष्ठापने समितिः, श्रीउत्तराध्यनोक्तदशगुणं स्थण्डिलं, तथा (मणसमिताणं ति) ममसा | समितानाम् / एवं वाचा, कायेनेति च स्यात्, तया समितानां गवेषणे (मणगुत्ताणं ति) गोपनं गुप्तिः, तया गुप्तानाम् एवं वचसा. कायेन, अतएव गुप्तेन्द्रियाणां गुप्तबहाचरिणा, भूयः कथंभूतानामित्याह-आयतो दीर्घकालावस्थितिकत्वान्मोक्षस्तस्यार्थिनस्तेषाम्, आत्महिताआत्मनो हितमिव हितम आत्महितं, हिताहितं च शरीरे आत्मनि च भवति, तत्र शरीरे हिताहितं पथ्यापथ्याहारादिकम्, आत्मनि तु हिंसादिप्रवृत्तिनिवृत्ति। अथवा-आत्मनो हितानि त्रिषष्ठानि पाखण्डिकशतानि, तदपनयनं, तदस्ति येषां ते आत्महिताः, तेषाम् (आयजोगीणं ति) आत्मयतत्ताः स्वयशे वर्तमानाः योगा मनोवाक्कायलक्षणा येषां ते आत्मयोगिनः, आत्तयोगिनो वा, तेषां, तथा येषां ते आत्मपराक्रमास्तेषां, तथा (पविखयपोसहिए सुसमाहिपत्ताणं ति) पक्षे भवं पाक्षिकम् अर्द्धमासिक पर्व, तत्र पोषधः पाक्षिकपोषधः, सोऽस्ति येषां ते पाक्षिकपाषेधिकाः / यतश्चूर्णिः- “पक्खियं पक्खियमेव, पक्खिए पोसहो पक्खियपोसहो चाउद्दसिअट्टमीसु वा" / अत्रापि स एवार्थः यथा पक्षे अर्द्धमासे भव पाक्षिक, तत्र पाक्षिके पोषधः पाक्षिकपोषधः, अत्र च नियतः पोषधउवासरूपः / यतः श्रीउत्तराध्ययनबृहवृत्तौ- "सर्वेष्वपि तपोयोगः, प्रशस्तः कालपर्वसु / अष्टम्यां पञ्चदश्यां च, नियतः पोषधं वसेत्" / / 1 / / तथा श्रीआवश्यकचूर्णा-"सव्वेसु कालपव्वे-सु पसत्थो जिणमते तवो जोगी। अट्ठभिपन्नरसीसुं, नियमेण हविज पोसहिओ॥१॥” इति वचनात् पाक्षिकेऽवश्यं तपः कार्यम्। उपलक्षणं चैतचतुर्दश्यष्टग्योः, तत्रापि तपः कार्यम् इति। अतएवोक्तं चूर्णिकृता-“चाउद्दसिअट्ठमीसुवा।" अत्रयाशब्दः समुच्चयार्थ अनुक्तपर्वसंग्राहको व्यावर्णितश्चूर्णिकृता, तत्रतपोविशेश्चतुर्यादिरूपस्तेन युक्तानां साधूनां मध्ये (समाहिपत्ताणं ति) समाधिप्राप्ताना ज्ञानदर्शनचारित्ररूपसमाधिमतां (झियायमाणाणं ति) धर्मशुक्लं ध्यान ध्यायमानानाम् (इमाई ति) इमानि अनन्तरवक्ष्यमाणस्वरूपाणि दश चित्तसमाधिस्थानानि (असमुप्पण्णपुव्वाई ति) असमुत्पन्नपूर्वाणि, कदाऽप्यतीतकाले न समुत्पन्नपूर्वाणि इत्यर्थः समुत्पद्येरन्निति शेषः / तद्यथा-(धम्मेत्यादि) 'से त्ति' निर्देशे, तस्य एवं गुणजातीयस्य निर्ग्रन्थस्य निर्गन्थ्या वा (धम्मचिंत त्ति) धर्मो नाम स्वभावः जीवद्रव्याणामजीवद्रव्याणां च, तद्विषया चिन्ता, कर्थरूपा ?-अमी नित्या उत्तानित्याः, रूपिण उतारूपिण इत्यादिरूपा (असमुप्पण्णपुव्व त्ति) प्राग्वत, सत्यं धर्म ज्ञातुम् / अथवा धर्मचिन्ता-यथा सर्वे कुसमया अशोभना अनिर्वाहकाः पूर्वापरविरूद्धा अतः सर्वधर्मेषु शोभनतरोऽयं धम्मो जिनप्रणीत एयरूपा इत्येकम् 1 (सण्णीत्यादि) सं सम्यग्जानातीति संज्ञः, तस्य यन् ज्ञानं संज्ञानं, यथा पूर्वोहे गां दृष्ट्वा पुनरपराह्ने प्रत्यभिजानीते-असौ गौरिति / “असमुपण्णे” इत्यादि प्राग्वत् / (अहं सरामीति) अहं स्मरामीति-अमुकोऽहं पूर्वभवे आसं, सुदर्शनादिवत् इति 2. (सुमिणेल्यादि) स्वप्नदर्शनं यथा-भगवतो बर्द्धमानस्वामिनः प्रज्ञप्त्या प्रतिपादितं स्वप्नफलं तथा, अथ स्त्री पुरुषां वा एका महती हयपङ्क्तिम् (अहातचं ति) यथतथ्यं फलं स्वप्नद्रष्टुर्जातिस्मरणम्, आत्मनः पौराणिकी जातिं स्मर्तु चिन्ता उत्पद्यते 3 / तत्र (देवदंसणे व त्ति) तं यस्यासावितिकृत्वा देवाः 'से' तस्य आत्मानं दर्शयति दिव्यां देवर्द्धि दिव्या देवद्युतिं दिव्यं देवानुभावं द्रष्टुम् / / (ओहिनाणे वा से ति) अवधिज्ञानं 5, शेषवक्तव्यता देवावधिदर्शनं 6, मनःपर्यवज्ञानम् (अंते त्ति) अन्तर्मध्ये मनुष्यपक्षेत्रस्त अर्द्धतृतीयेषु द्वीपसमुद्रेषु जम्बूद्वीपघातकीखण्डपुष्करार्द्धषु संज्ञिनां मनोलब्धिमताम्, एवंविधानां पोन्द्रियाणां पर्याप्ताकानां पर्याप्तिषट्कसमेतानां मनसि गतान मतोगतान् भावान् परिणामस्वरूपान ज्ञात्रमिति 7 / 'केवलनाणे' इत्यादि व्यक्तम्, नवरं केवलकल्पमिति केवल ज्ञानवत् परिपूर्ण सकेलस्वांशसंपूर्ण लोकालोकं ज्ञातुम् 8 / एवं केवलदर्शनम् 6 / (केवलमरणमिति) केवलज्ञानेन यमरण केवलमरणम् (सव्वदुक्खप्पहीणाए त्ति) सर्वदुःखप्रक्षेपार्थम् 10 / साम्प्रतं गद्योक्तमेवार्थ श्लोकैदर्शयति-(ओयं ति) ओज नाम रागद्वेषरहितं चित्तं उच्यते, शुद्धम् एकमेव सम्यक् आदाय गृहीत्वा (झाणं ति) ध्यानं धर्म पश्यति करोति, धातूनामनेकार्थत्वात्, सम्यक्यथा भवति तथा भवति, तथा अन्यैदृष्टम् अनु पश्चात्पश्यति, पुनःपुनर्वा पश्यति करोति समनुपश्यति, पनः कथंभूतः ?-(धम्मद्विउ ति) धर्मे स्थितः-धर्मे यथार्थोपलम्भके ज्ञानक्रियारूपे स्थितो धर्मस्थितः / पुनःकथंभूतः ?-(अविमणो) अविभनाःपरसमयेषु मनो यस्य न याति सोऽविमनाः। अथ वा-शङ्कादि जिनवचने न करोतीत्वविमनाः, स एवं पूर्वोक्तगुणविशिष्टो निर्वाणं कषायदा होपशमलक्षणं, मोक्षं च अभिगच्छति / य एव गत्यर्थास्त एव ज्ञानार्थो इति वचनात् वाति इति गाथार्थः / / 1 / / (ण इमति) न इति प्रतिषेधे, (इमं ति) एतत् चित्तं ज्ञानं, सम्यक् आदाय गृहीत्वा, किं तत् ज्ञानम् ? उच्यते-जातिस्मरणादि, भूयो भूयः लोकेसंसारे जायते उत्पद्यते, आत्मनः(उत्तमंति) प्रधानं स्थानंयो हि परभवे आसम अमकवंरूपम्। अथवा-उत्तमः संयमो मोक्षो वा, यतो ज्ञातं कर्म वा न विद्यते। अथवाउत्तम श्रेष्ठ निर्वाहक हितं वा आत्मनः, तज्जानीते / / 2 / / "जहा तचं तु" यथातथ्यम् अविसंवादिफलं यत्तत् यथातथ्यमित्युच्यते, यथा चरमतीर्थकृता दश स्वप्नदृष्टाः, क्षिप्रं च फलमजनि, तथा क्षिप्रफलं पश्यति, संवृतात्मा निरुद्धाश्रवद्वारः, सर्व निरवशेषं, चशब्दः स्वगतानेकभेदसूचकः। 'आहे' सततं प्रसृतप्रवाह संसारसमुद्रमिव समुद्रम्, अप्राप्य पारम्। एवविधं तरति-नपुनः संसारी भवति, (दुक्खादो यत्ति) दुःखात् दुःखोत्पादककर्मणः शारीरमानसिकाद्वा दुःखात्, सांसारिकादा विविधादनेकप्रकारान्मुच्यते इति गाथार्थः // 3 // (पंताई ति) प्रान्तानि कल्प्यामूल्यानि जीर्णानि भजमानस्य सेवमानस्य (विवित्त सयणासणं ति) विविक्त रहस्यभूतं स्त्रीपशुपण्डकसंसर्गरहितम् / अथवा-(विवित्तं) 'विचिर' पृथग्भावे, पृथिव्यादिजीवेभ्यः पृथग्भूतानि, तदपि सेवमानस्येति संबन्धनीयम् / पुनः कथंभूतस्य १-अल्पाहारस्य ब्रह्मचर्यगुप्तिरक्षणार्थ स्वल्पाहारिणः, दान्तस्ये न्द्रियदमनतत्परस्य, एवंगुणविशिष्टस्य साधोः, देवाः वैमानिका आत्मानं दर्शयन्ति-यथास्थितं देवस्वरू
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy