________________ चारण 1174 - अभिधानराजेन्द्रः - भाग 3 चारि उक्तंच"अइसयचरणसमत्था, जंघाविजाहि चारणा मुणयो। जंघाहि जाइ पढमो, नीसं काउं रविकरे वि।। एगुप्पारण गतो, रुयगवरमितो ततो पडिनियत्तो। विइएण नंदिस्सर-मिहं ततो एइ तइएणं / / पढमेण पंडगवण, विइउप्पाएण नंदणं एइ। तइउप्पारण ततो, इह जंघाचारणो होइ। पडमेण माणुसोत्तर-नगम्मि नंदिस्सरं तु विइएण। एइ तओ तइएणं, कयचेइयवंदणो इहई। पढमेण नंदणवणे, वीउप्पारण पंडगवणम्मि। एइ इहं तइएणं, जो विजाचारणो होइ" || आ० म०प्र० / विशे० / प्रज्ञा० / जी० / पा० / स्था० / आ० चू० / अन्येऽपि बहुभेदाश्चारणा भवन्ति / तद्यथा-आकाशगामिनः पर्यङ्कासनावस्थानिषण्णाः कायोत्सर्गशरीरपादोत्-क्षेपयनिक्षेपक्रमादिना व्योमचारिणः, केचित्तु जलजलाफलपुष्पपत्रश्रेण्याग्निशिखाधूमनीहारावश्यायमेघवारिधारामर्कटकतन्तुज्योतीरस्मिपवनव्यालम्बनगतिपरिणामकुशलाः / तथाहि-जलमुपेत्य वापीनिम्नगासमुद्रादिष्वप्कायिकजीवानविराधयन्तो जले भूमाविव पादोतक्षेपकुशलाः जलचारणाः 1, भुव उपरि चतुरडलप्रमिते आकाशे जड़ानिक्षेपोतक्षेपनिपुणाः जघाचारणाः 2, नानाद्रुमफलान्युपादाय फलाश्रयप्राण्यविरोधेन फलतले पादोत्क्षेपनिक्षेपकुशलाः फलचारणाः 3, नानादुमलतागुल्मपुष्पाण्युपादाय पुष्पसूक्ष्मजीवानविराधयन्तः कुसुमतलदलावलम्बनसंसर्गतया पुष्पचारणाः 4, नानावृक्षगुल्मबीरुल्लतावितानप्रवालतरुणपल्लवालम्बनेन पर्णसूक्ष्मजीवानविराधयन्तः चरणोतक्षेपनिक्षेपपट यः पत्रचारणाः 5, चतुर्यो जनशतोच्छितस्य निषधस्य नीलस्य वाऽद्रेष्टङ्कछिन्ना श्रेणिमुपादायोपर्यधो वा पादनिक्षेपोत्क्षेपपूर्वकमुत्तरणावतरण निपुणाः श्रेणिचारणा:६, अग्निशिखामुपादाय तेजः कायिकानविराधयन्तःस्वयमदह्यमानाः पादविहारनिपुणा अग्निशिखाचारणाः 7, धूमवर्ति तिरश्चीनामूर्द्धगां वा आलम्ब्यास्खलितगमनास्पन्दिनो धूमचारणाः 8, नीहारमवष्टभ्याप्कायिकपीडामजनवन्तो गतिमसङ्गामश्नुवाना नीहारचारणाः 6, अवश्यायमाश्रित्व तदाश्रयजीवानुपरोधेन यान्तोऽवश्यायचारणाः 10, नभोवर्मनि प्रविततजलधरपटलपटास्तरणे जीवानुपघातिचडक्रमणप्रभवा मेघचारणाः 11, प्रावृष्टेण्यादिजलधरादेर्विनिर्गतवारिधाराऽवलम्बनेन प्राणिपीडामन्तरेण यान्तो वारिधाराचारणाः 12 कुब्जवृक्षान्तरालभाविनभः प्रदेशेषु कुब्जवृक्षादिसंबद्धमर्कटतन्त्वालम्बनपादोद्धरणनिक्षेपावदाना मर्कटतन्तूनच्छिन्दयन्तो मर्कटकतन्तुचारणाः 13, चन्द्रार्कग्रहनक्षत्राधन्यतमज्योतीरस्मिसंबन्धेन भुवीव पादविहारकुशला ज्योतीरस्मिचारणाः 14, पवनेष्वनेकदिग्मुखोन्मुखेषु प्रतिलोमानुलोमवर्तिषु तत्प्रदेशावलीमुपादाय गतिमस्खलितचरणविन्यासा नभसि यान्तो वायुचारणाः 15 / इति चारणाश्च सातिरेकानि सप्तदशयोजनसहस्राणि ऊर्द्धमुत्पत्त्य पश्चात्तिर्यगागच्छन्ति / उक्तं च समवायाङ्गे-"इमीसे णं रयणप्यभाए पुढवीए बहुसमरमणिज्जाओ भूमिभागाओ साइरेगाई सत्तरस जोअणसहस्साई उ8 उप्पइत्ता तओ पच्छा चारणाणं तिरियं गती य वत्तति ति" ग०२ अधिक। चारणगण पुं० (चारणगण)। श्रीगुप्ताचार्यान्निर्गत स्वनामख्याते वीरतीर्थीयानामेकक्रियावाचनानां साधूनां समुदाये, स्था०६ ठा०। थेरेहिंतो णं सिरिगुत्तोहिंतो हारियसगोत्तेहिंतो इत्थ णं चारणगणे नामं गणे निग्गए। तस्स णं इमाओ चत्तारि साहाओ, सत्त य कुलाइंएवमाहिजंति।से किं तं साहाओ? एवमाहिजंति / तं जहा-हारिअमालागारी 1, संकासिआ 2, गवेधुआ 3, वजनागरी 4, सेत्तं साहाओ। से किं तं कुलाइं? एवमाहिजंति। तं जहा“पढमित्थ वच्छलिजं, वीअं पुण पीइधम्मिअंहोइ। तइ पुण हालिज, चतुत्थयं पूसमितिजं / / 1 / / पंचमगं मालिजं, छटुं पुण अजवरेयं होइ। सत्तमगं कण्हसह, सत्त कुला चारणगणस्स 2" कल्प०८ क्षण! चारणपुंगव पुं० (चारणपुङ्गव)। चारणप्रधाने, प्रति०। चारणभावणा स्त्री० (चारणभावना)। ब०व० चारणशब्दे चारणस्योक्तं स्वरूपम्, चारणस्वरूपं भाव्यते सविस्तरं प्रतिपाद्यते यासु ताश्चारणभावनाः / अङ्गबाह्यकालिक श्रुतभेदे, पा० / ताश्च षोडशवर्षपर्यायस्य दीयन्ते / पं०व०२ द्वार। चारणलद्धि स्त्री० (चरणलब्धि)। लब्धिभेदे, यद्वशाच्चारणलब्धिर्विद्या धरलब्धिश्च जायते। आ० चू०१ अ०। प्रव०॥ वारणसमण पुं० (चारणश्रमण) / बहुविधैश्वर्यभूतलब्धिकलापोपेते महातपस्विनि, सूत्र०२ श्रु०२ अ०। तथा योगशास्त्रवृत्तिगतवसुराजाधिकारे चारणश्रमणानां निशि गमनागमनं दृश्यतेऽतो निशि चारणश्रमणा व्योम्नि गमनागमनं कुर्वन्ति न वेति प्रश्ने, उत्तरम्- चारणश्रमणा निशि व्योम्नि गमनागमनं कुर्वन्ति, श्रीपार्श्वनाथचरीित्रादावपि तथैव दर्शनादिति। 65 प्र० सेन०१ उल्ला०। चारपुरिस पुं० (चारपुरुष)। गुप्तिरक्षकेषु, आ०म०प्र०। चारभड पुं० (चारभट)। राजपुरुष, बृ०१ उ०। प्रश्न०। नि० चू०। चौरग्राहे, प्रश्न०३ आश्र० द्वार / आ० क०। चारि स्त्री० (चारि)। भोजनसंपत्तौ, ध०३ अधि० / विशे०। नं०। चारिचरकसंजीव-न्यचरकचारणविधानतश्चरमे। सर्वत्र हिता वृत्ति-र्गाम्भीर्यात्समरसापत्त्या।।११।। चारेश्चरको भक्षयिता, संजीवन्या औषधरेचरकोऽनुपभोक्ता, तस्य चारणमभ्यवहरणं, तस्य विधानं संपादनं, तस्माचारिचरकसंजीवन्यचरकचारणविधानतः, चरमे भावनामयज्ञाने सति, सर्वत्र सर्वेषु जीवेषु हिता वृत्तिः हितहेतुः प्रवृत्ति, न कस्य चिदहिता / गाम्भीर्यादाशयविशेषात् समरसापत्त्या सर्वानुग्रहरूपया, कयाचित् स्त्रिया कस्यचित् पुरुषस्य वशीकरणार्थ परिवाजिकोक्तायथेमं मम वशवर्तिनं वृषभं कुरु, तया च किल कुतश्चित्सामर्थ्यात् स वृषभः कृतस्तंचारयन्ती पाययन्ती चास्ते, अन्यदा च वटवृक्षस्याऽधस्तान्निषण्णे तस्मिन् पुरुषगवे विद्याधरीयुग्ममाकाशमागमतः। तत्रैकयोक्तम्- अयं स्वाभाविको न गौः /