SearchBrowseAboutContactDonate
Page Preview
Page 1195
Loading...
Download File
Download File
Page Text
________________ चाउलोदग 1171 - अभिधानराजेन्द्रः - भाग 3 चाणक्क मवगन्तव्यम्। एषोऽत्र मिश्रविचारप्रक्रमे भवत्यादेशः प्रमाणं, न शेषं, यत्तु बहुप्रसन्नमतिस्वच्छीभूतं तदचित्तं ज्ञातव्यम्। ततोऽचित्तत्वेन तस्य ग्रहणे न कश्चिद्दोषः। पिं० / कल्प० / आचा००। चाउल्लग न०(देशी)। पुरुषपुत्तलके, नि० चू०१ उ०। चाउव्वण्ण न० (चातुर्वर्ण)। चत्वारो वर्णाः प्रकाराः श्रमणादयो यस्मिन्स तथा स एव स्वाथकाण् विधानाचातुर्वर्णम् / स्था०५ टा०२ उ० / श्रमणश्रमणीश्रावक श्राविकाचतुष्टयरूपे सङ्के, स्था०५ ठा०२ उ० / ब्राह्मणादिलोके, भ०१५ श०१ उ०। चाउव्वण्णाइण्ण त्रि० (चातुर्वर्णाकीर्ण) 1 चत्वारो वर्णाः श्रमणादयः समाहृता इति चतुर्वर्ण , तदेव चातुर्वर्णम् / तेनाकीर्ण आकुलश्चा तुर्वर्णाकीर्णः / अथवा-चत्वारो वर्णाः प्रकारा यस्मिन्स तथा, दीर्घत्वं प्राकृत्वात्, चतुर्वर्णश्चासावाकीर्णश्च क्षमाज्ञानादिभिर्महागुणैरिति चतुर्वर्णाकीर्णः / तथाविधे सडघे, “समणस्स भगवओ महावीरस्स चाउव्वन्नाइन्ने संघे।तं जहा-समणा, समणीओ, सावगा, साविगाओ।" स्था०१० ठा० भ०। चाउव्वेज न० (चातुर्वेद्य ) / चतुर्णा विद्यानां समाहारे, स्या०१ श्लो चाग पुं० (त्याग)। प्राज्झने, पं०व०। त्यागशब्दार्थ व्याचिख्यासुराह - चागो इमेसि सम्म,मणवयकाएहि अप्पवित्तीओ। एसा खलु पव्वज्जा, मुक्खफला होइ निअमेणं / / 8 / / त्यागः प्रोज्झनम्, अनयोरारम्भपरिग्रहयोः, सम्यक् प्रवचनोक्तेन विधिना मनोवाकायैः त्रिभिरप्यप्रवृत्तिरेव, आरम्भे परिग्रहे चमनसावाचा कायेन प्रवर्तनमिति भावः / एषा खल्विति। एषैव प्रव्रज्या यथोक्तस्वरूपा मोक्षफला भवति, मोक्षः फलं यस्याः सा मोक्षफला भवति नियमेनावश्यंतया, भावमन्तरेणारम्भादौ मनः प्रवृत्यसंभवादिति गाथार्थः // 8 // अधुनैतत्पर्यायानाहपध्वजा निक्कमणं, समया चाओ तहेव वेरग्गं / धम्मचरणं अहिंसा, दिक्खा एगट्ठियाइं तु // 9 // प्रव्रज्या निरूपितशब्दार्था, निष्क्रमणं द्रव्यभावसङ्गात्, समता सत्त्वेष्विष्टानिष्टेषु, त्यागोबाह्याभ्यन्तरपरिग्रहस्य, तथैव वैराग्यं विषयेषु, धर्माचरणं क्षान्त्याद्यासेवनम्, अहिंसा प्राणिघातवर्जनं, दीक्षा सर्वसत्त्वाभयप्रदानेन भावत्वम् / एकार्थिकानि तु एतानि प्रव्रज्याया एकार्थिकानि, तुर्विशेषणार्थः शब्दनयाभिप्रायेण, समभिरूढनयाऽभिप्रायेण तु नानार्थान्येव, अभिन्नप्रवृत्तिनिमि-तत्वात्सर्वशब्दानामिति गाथार्थः / पं०व०१ द्वार। अथ त्यागाष्टकम्"संयतात्मा श्रयेच्छुद्धो-पयोगं पितरं निजम्। धृतिमम्बां च पितरौ, तन्मां विसृजत ध्रुवम्॥१॥ युष्माकं संयमोऽनादि-वन्धवो नियतात्मनाम् / ध्रुवैकरूपान् शीलादि-बन्धूनित्यधुना श्रयेत्॥२।। कान्ता मे शमता चैका, ज्ञातयो मे समक्रियाः। बाह्यवर्गमिति त्यक्ता, धर्मसंन्यासवान् भवेत्॥३॥ धर्मास्त्याज्याः सुसङ्गोत्थाः, ज्ञायोपशमिका अपि। प्राप्य चन्दनगन्धाभ, धर्मसंन्यासमुत्तमम्।।४।। गुरुत्वं स्वस्य नोदेति, शिक्षा स्वात्म्यवे यावता। आत्मतत्त्वप्रकाशेन, तावत् सेव्यो गुरूत्तमः / / 5 / / ज्ञानाचारादयोऽपीष्टाः शुद्धस्वस्वपदावधि। निर्विकल्पे पुनस्त्यागे, न विकल्पो न वा क्रिया // 6 // योगसंन्यासतस्त्यागी, योगानप्यखिलाँस्त्यजेत्। इत्येवं निर्गुण ब्रह्म, परोक्तमुपपद्यते।७।। वस्तुतस्तु गुणैः पूर्ण-मनन्तैर्भासते स्वतः। रूपं त्यक्ताऽऽत्मनः साधो-र्निरभ्रस्य विधोरिव" ||8|| इति त्यागाष्टकम् / अष्ट०८ अष्ट01 परिहारे, पञ्चा०२ विव०। चागाणुरूव त्रि० (त्यागानुरूप)। परिहारोचिते, द्वा०१८ द्वा० / चामुकर त्रि० (चाटुकर) / प्रियवादिनि, औ० / प्रियम्वदे, ज्ञा०१ श्रु०१ अ० / प्रश्न। चाडो देशी मायाविनि, दे० ना०३ वर्ग। चाणक पुं० (चाण (णि)क्य)। चणकग्रामे जातः, चणकस्य द्विजस्यापत्य वा चाणक्यश्चाणिक्यो वा। तदुत्पत्तिश्चैवम् - गोल्लासदेशेऽस्ति चणक-ग्रामस्तत्रचणी द्विजः। श्रावकः स च तद्गेहे, विद्यन्ते साधवः स्थिताः / / 1 / / सदनतोऽस्य सुतो जातः, सूरिपादेषु पातितः। तैरूचेऽसौ नृपो भावी, स दध्यौ पापकृन्नृपः / / 2 / / घृष्टा तस्य रदा नाख्यद, गुरूणां तेऽभ्यधुः पुनः / भविष्यति तथाऽप्येष, बिम्बान्तरितराज्यकृत् / / 3 / / विद्यास्थानानि सोऽध्यापि, पाटयोग्यश्चतुर्दश। व्यवाहि च सुता बैंप्री, पिताऽथ प्राप पञ्चताम्।।४।। चाणिक्यस्य प्रियाऽथागाद्, बन्धूद्वाहे पितुहम्। स्वसारोऽन्याः पुनस्तस्याः, अलडकृतविभूषिताः / / 5 / / आयाता गौरवं प्राप्ताः , सा पुनः कर्मकारिका। खिन्ना सा स्वगृहेऽथागात्, पत्या पृष्टाऽऽदराजगौ / / 6 / / सदध्यौ निःस्वभार्येत्य-भिभूता तैः स्वपुत्र्यपि। ददाति पाटलीपुत्रे, नन्दस्तत्राथ सोऽगमत्॥७॥ ततः कार्तिकराकायां, प्रगे न्यस्तान्युपाविशत्। नन्दाऽर्थ चास्ति तन्नयस्तं, निमित्ती नन्दमूचिवान् / / 8 / / द्विजोऽयं नन्दवंशस्य, छायामाक्रम्य तस्थिवान्। दास्यूचेऽत्राऽऽस्यतां विप्र ! सोऽमुचत्तत्र कुण्डिकाम्।।६।। तृतीये दण्डिकां न्यस्था चतुर्थे जपमालिकाम्। धृष्टोऽयमिति विज्ञाय, कृष्टो धृत्वा पदेऽथ सः॥१०॥ सोऽथ कुद्धो विप्रोऽवादीत्कोशैश्च भृत्यैश्च निबद्धमूलं, पुत्रैश्च मित्रैश्च विवृद्धाशाखम्। उत्पाट्य नन्दं परिवर्तयामि, महाद्रुमं वायुरिवोगवेगः // 11 // दध्यौ गुरुभिरुक्तोऽस्मि, बिम्बान्तरितराज्यकृत। राज्ययोग्यस्य कस्यापि, प्रेक्षार्थ सोऽथ निर्ययौ" / / 12 / / आ० क०। आ० म० / नं० / आचा० / संथा० / आ० म०। आ० चू० / स्था० / विशे० / ती०। सूत्र० / आव० / (नन्दं वञ्चयित्वा चन्द्रगुप्त राज्ये प्रतिष्ठापितवान् इति 'चंदगुत्त' शब्देऽस्मिन्नवे भावे 1068 पृष्ठे समुक्तम्)
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy