________________ चाउरंत 1170 - अभिधानराजेन्द्रः - भाग 3 चाउलोदग अ०२ उ० / प्रश्न० / दिग्भेदगतिभेदाभ्यां चतुर्विभागे, प्रश्न०२ / आश्र० द्वार। चाउरंतचक्कवट्टि (ण) पुं० (चातुरन्तचक्रवर्तिन) / चत्वारोऽन्ताः | समुद्रत्रयहिमवल्लक्षणा यस्याः सा चतुरन्ता पृथ्वी, तस्या अयं स्वामी चातुरन्तः, स चासौ चक्रवर्ती चेति / स्था०५ ठा० / चतुर्यु पूर्वापरदक्षिणोत्तररूपेषु अज्ञेषु वनितु शीलमस्येति / रा०। जी० / चतुरन्ताया भरतादिपृथिव्या एते स्वामिन इति चातुरन्ताः, चक्रेण वर्तनशीलत्वाच चक्रवर्तितः, ततः कर्मधारयः / चतुरन्तग्रहणेन च वासुदेवादीनां व्युद। भ०१२ श०६ उ०। चतुरन्तायाः पृथिव्या ईश्वरेषु चक्रवत्तिषु चतुभिर्हयगजस्थपदातिभिः सेना.रन्तोऽरीणां विनाशो यस्य सः चतुरन्त एव चातुरन्तः। आसमुद्रमा हिमालयं विविधविद्याधरवृन्दगीतकीर्तितया एकच्छत्रषखण्डराज्यपालके, उत्त०११ अ०। चाउरंतसंसारकंतारपुं०(चातुरन्तसंसारकान्तार)। चतुरन्तं चतुर्विभाग नरकत्वादिभेदेन, तदेव चातुरन्तं, तचतत्संसारकान्तार चेति। चतुर्गतिके संसाराऽरण्ये, स्था०। "तिर्हि ठाणेहिं संपन्ने अणगारे अवाईयं अणवदणं दीहमद्धं चाउरंतसंसारकंतारं विईपवजा / तं जहा-अणिदाणयाए, दिद्विसंपन्नयाए, जोगवाहियाए"। स्था०१ ठा०३ उ०) चाउरक्कगोखीर न० (चातुरक्यगोक्षीर)। चतुःस्थानपरिणामपयन्ते गोक्षीरे, (जी०) तचैवम् - गवां पुण्ड्देशोद्भवेक्षुचारिणीनामनातङ्गनां कृष्णानां यत् क्षीर तदन्याभ्यः कृष्णगोभ्य एव यथोक्तगुणाभ्यः पानं दीयते तच्क्षीरमप्येवंभूताभ्योऽन्याभ्यस्तत्क्षीरमप्यन्याभ्य इति चतुःस्थानपरिणामपर्यन्तम्, एवं भृतं यत् चातुरक्यं गोक्षीरम् / जी०३ प्रति०। आ० म०। चाउल पुं० (तण्मुल)। शालिव्रीह्यादेस्तण्डुले, आचा०२ श्रु०१ अ०१ उ० / दे० ना०३ वर्ग। चाउलपलंव न० (तण्डुलप्रलम्व)। 'चाउलाः'तण्डुलाः शालिग्रीह्यादेस्त / एव चूर्णी कृतास्तत्कर्णिका वा / आचा०२ श्रु०१ अ०१ उ० / अर्द्धपक्षशाल्पादिकाणिकादिके, आचा०२ श्रु०१ अ०६ उ० / भग्नशाल्यादितण्डुलेषु, आचा०२ श्रु०१ अ०११ उ०। चाउलपिट्ठ न० (तण्दुलपिष्ट) / तन्दुलसत्कपिष्टे, आचा०२ श्रु०१ अ०८ उ०। चाउलोदग न० (तण्डुलोदक) / अट्टिकरके, "तंडुलोदंगं अहुणा धोयं च वजए" दश०५ अ० / ब०। तण्डुलधावनोदके (ग०) “चाउलउदगं बहुपसन्न" चाउलोदकं तण्डुलोदकमबहुप्रसन्न नातिस्वच्छीभूतं, मिश्रमित्यर्थः / अबहुप्रसन्नमित्यत्रादावकारलोपः, आर्षत्वात्। __ आदेशत्रिकमेव दर्शयतिभंडगपासगलग्गा, उत्तेमा बुब्बुया य न समें ति। जा ताव मीसगं तं-मुला य रज्झंति जावऽन्ने / / 21 / / तण्डुलोदके तण्डुलप्रक्षालनभाण्डादन्थस्मिन् भाण्डे प्रक्षिप्यमाणे ये ! त्रुटित्वा भाण्डकस्य पार्श्वेषु 'उत्तेडा विन्दवो लग्नास्ते यावन्नशाम्यन्ति | विध्वंसमुपयान्ति तावत् तत् तण्डुलोदकं मिश्रमित्येके। अपरे पुनराहुःतण्डुलोदके तन्दुलप्रक्षालनभाण्डकादपरस्मिन् भाण्डके प्रक्षिप्यमाणे ये तन्दुलोदकस्योपरि समुद्ता बुदबुदास्ते यावदद्यापि न शाम्यन्ति न विनाशमियति तावत् तन्दुलोदकं मिश्रमिति / अन्ये पुनरेवामाहुःतन्दुलप्रज्ञालनानन्तरं तन्दुला रन्धुमारब्धास्ततस्ते यावन्न राध्यन्ति, यावन्नाधापि सिध्यन्तीति भावः / तावत् तन्दुलोदकं मिश्रमिति। एषां त्रयाणमप्यादेशानां दूषणान्याह - एए उ अणाएसा, तिण्णि वि कालनियमस्सऽसंभवओ। लुक्खेयरभंडगपव-णसंभवासंभवाईहिं / / 22 / / एते त्रयोऽप्यनादेशा एव, तुशब्द एवकारार्थो भिन्नक्रमश्च, कुतोऽनादेशा इत्याह-कालनियमस्यासंभवात्, न खलु विन्द्वपगमे, वुवुदापगमे, तण्डुलपाकनिष्पत्तौ वा, सदा सर्वत्र प्रतिनियत एव कालो,येन प्रतिनियतकालसंभविनो मिश्रत्वादूर्द्धमचित्तत्वस्याष्य-भिधीयमानस्य न व्यभिचारसंभतः / कथं प्रतिनियतः कालो न घटते ? इति कालनियमासंभवमाह-“लुक्खेयर” इत्यादि / स्नेक्षेतरभाण्डपवनसंभवासंभवादिभिः। अत्रादिशब्दाच्चिरकालसलिलभिन्नत्वादिपरिग्रहः / इयमत्र भावना-इह यदा पाकतः प्रथममानीतं, चिरानीतं वा स्नेहजलादिना न भिन्नं भाण्ड तत् रूक्षमुच्यते, स्नेहादिना तु भिन्नं स्निग्धं, तत्र रूक्षे भाण्डेतण्डुलोदके प्रक्षिप्यमाणे ये विन्दवः पार्श्वेषु लग्नास्तेभाण्डस्य रूक्षतया झटित्येव शोषमुपयान्ति, स्निग्धे तु भाण्डे भाण्डमस्य स्निग्धतया चिरकालम् / ततः प्रथमादेशवादिना मते रूक्षे भाण्डे विन्दूनामपगमे परमार्थतो मिश्रस्याप्यचित्तत्वसंभावनया ग्रहणप्रसंगः। स्निग्धे तु भाण्ड़े परमार्थतोऽचित्तस्यापि विन्दुनामपगमे मिश्रत्वेन संभावनया न ग्रहणमिति / तथा वुठ्दा अपि प्रचुरखरपवनसंपर्कतो भटिति विनाशमुपगच्छन्ति, प्रचुरखरपवनसंपर्काभावे तु चिरमप्यवतिष्ठन्ते, ततो द्वितीयादेशवादिनामपि मतेयदा खरप्रचुरपवनसंपर्कात् भटिति विनाशमैयरुवुवुदास्तदा परमार्थतो मिश्रस्याऽपि तन्दुलादेकस्थाचित्तत्वेन संभावनया ग्रहणप्रसङ्गः। यदा तु खरप्रचुरपवनसंपर्काभावे चिरकालमप्यवतिष्ठन्ते वुवुदास्तदा परमार्थतोऽचित्तभूतस्यापि तन्दुलोदकस्य वुदवुददर्शनतो मिश्रत्वशङ्कायां न ग्रहणमिति / येऽपि तृतीयादेशवादिनस्तेऽपि न परमार्थे पर्यालोचित्रवन्तः, तन्दुलानां चिरकालपानीबभिन्नाभिन्नत्वेन पाकस्य नियतकालत्वात् / तथाहियेचिरकालसलिलभिन्नास्तन्दुला न च नवीना इन्धनादिसामग्री च परिपूर्णा ते सत्वरमेव निष्पद्यन्ते, शेषासु मन्द, ततस्तेषामपि मतेन कदाचिन्मिश्रस्याप्यचित्तत्वसंभावनया ग्रहणप्रसङ्गः कदाचित्पुनरचित्तीभूतस्यापि मिश्रत्वशङ्कासंभवादग्रहणमिति त्रयोऽप्यनादेशाः। संप्रति यः प्रवचनाविरोधी आदेशः प्रागुप दिष्टस्तं विभावयिषुराह - जाव न वहु प्पसन्नं, ता मीसं एस इत्थ आएसो। होइ पमाणमचित्तं, बहुप्पसन्नं तु नायव्वं / / 23 / / यावत्तन्दुलोदकं न वहु प्रसन्नं नातिस्वच्छीभूतं तावन्मिश्र