________________ चरियापविट्ट 1164 - अभिधानराजेन्द्रः - भाग 3 चरियापविट्ठ भावे पश्चात् पुनरपि के नापि कारणेन उपसंपद्यमानस्याभिप्राय उत्पन्नस्तदा ते पूर्वमुपस्थिता भवन्त्याचार्यस्य, अधीयानेषु तेषु, गाथायामेकवचनं प्राकृतत्वात् “प्राकृते हि वचनव्यत्ययोऽप्यस्ति." यो लाभः सोऽप्याचार्यस्य, उपलक्षणत्वादेतदपि द्रष्टव्यम्- संकेतकरणदूर्द्ध यदि तस्य पश्चादुपसंपद्यमानस्य भावो विपरिणतः पश्चात्पुनरपि कालान्तरेण जातस्तदा ते पूर्वोपस्थिता गुरोराभाव्याः यश्च तेषां लाभः सोऽपि गुरोः। तथा च पश्चादुपसंपद्यमानमधिकृत्य पश्चकल्पेऽभिहितम् - "कालेण य चिंधेहि य, अविसंवादीहिँ तस्स गुरुणिहरा। कालम्मि विसंवदिए, पुच्छिजइ किं नु आतो सि। संगारयदिवसेहिं, जइ गेलण्णादिदीवए तो उ। तस्स चऊ अह भावो, विपरिणतो पच्छ पुण जातो।। तो होइ गुरुस्सेव उ, एवं सुयसंपदाए उ। जे यावि वत्थपायादी-चिंधेहिं संवयंति उ॥ आभवंति उते तस्सा, विवरीयाऽऽयरियस्स उ॥" यान्यपि च वस्त्रपात्रादीनि चिह्नः संवदन्ति, यथा-अमुकस्य पार्श्व- | ऽमुकस्येदृशाकृति वस्त्रं पात्रं यावदभून्मदीयमित्यादि, तान्यपि, गाथायां / पुंस्त्वं प्राकृतत्वात्, तस्याभवन्ति, विपरीतानि तु चिह्नविसंवादभाजि आचार्यस्य। आभवंताहिगारे उ, वट्टते तत्पसंगया। आभवंता इमे अण्णे, सुहसीलादि आहिआ।। आभवदधिकारो वर्तमाने तत्प्रसङ्गादाभवदधिकारप्रसङ्गादिमे वक्ष्यमाणा अन्ये आभवन्तः सुखशीलादयः सुखशीलादिप्रयुक्ता आख्याताः। तानेव द्वारगाथया संगृह्णान आहसुहसीलऽणुकंपाऽऽय-ट्ठिए य संबंधि खमग गेलण्णे। सचित्ते-ससिहाओ, पकट्टए धारऍ दिसाउ। सुखशीलेन, भावप्रधानोऽयं निर्देशः, सुखशीलतया, अनुकम्पया, आत्मस्थितस्य संबन्धिनः स्वज्ञातः, क्षपकस्यग्लानस्य वा ये प्रेषिताश्च सचित्तेष्वशिखाकोऽन्यस्य प्रेषित एतान् स्वकुलसंबन्धी स्वगणसंबन्धी वा प्रकर्षयति, आकर्षयतीत्यर्थः, धारयति च दिशात आत्मीये इत्येष द्वारगाथासंक्षेपार्थः। साम्प्रतमेनामेव विवरीषुः प्रथमतः सुखशीलद्वारमाहसुहसीलया पेसे-इ कोइ दुक्खं खु सारवेउं जो। देइव आयट्ठीणं, सुहसीलो दुट्ठसीलो त्ति / / दुःखं खलु साधून सारयितुमिति मन्यमानः कोऽपि सुखशीलतया कमपि साधुमन्यस्य प्रेषयति। यदि वा-कोऽपि सुखशील आत्माश्रितानां दुष्टशीलोऽयमिति प्रकाश्य ददाति / तणुगं पि नेच्छए दुक्खं, सुहमाकंखए सया। सुहसीलतएवावी,सायागारवनिस्सितो॥ तनुकमपि स्तोकमपि नेच्छत्यात्मनो दुःखं, किं तु केवलं सदा सुखमाकाङ्क्षति। ततः सुखशीलतया सातगौरवनिश्रितः स्वयं साधुना | दत्ते सर्वे ते भवन्त्याचार्यस्याभाव्याः। गत सुखशीलद्वारम्। साम्प्रतमनुकम्पाद्वारमाह - एमेव य असहाय-स्स देति कोइ अणुकंपयाए उ। नेच्छइ परमायट्ठी, गच्छा निग्गंतुकामो वा / / पेसेइ सो उ अन्नत्थ, सिणेहा नायगस्स वा। खमए वेजवचट्ठा, देज ता तहि कोइ तु / / स्वसंविधत्वादिकारणव्यतिरेकेणापि, असहायस्य सतः कोप्यनुकम्पया ददाति / गतमनुकम्पाद्वारम् / आत्मस्थितद्वारमाह-आत्मार्थी आत्माश्रितार्थी सन् परं नेच्छति, ततः कमप्यास्थितं करोति। यदि वा-गच्छान्निर्गन्तुकामः स आत्मार्थी अन्यत्र यस्य यास्यति तत्र कमपि साधुं प्रेषयति / गतमास्थितद्वारम् / संबन्धिद्वारमाह-स्नेहात् ज्ञातस्य वा स्वजनस्य वा सोऽन्यत्र प्रेषयति / क्षपकद्वारमाह-तत्रान्यत्र वा प्रसिद्ध क्षपके कोऽपि वैयावृत्यार्थ कमपि साधुं दद्यात्। संप्रति ग्लानद्वारं सशिखाकद्वारं चाहपेसेति गिलाणस्स व, अहव गिलाणो सयं अचायतो। पेसंतस्स असीहो, ससिहो पुण पेसितो जस्स।। ग्लानस्य वा कोऽपि वैयावृत्यकरणाय प्रेषयति साधुमः। अथवा-स्वयं ग्लानः सन्नशक्नुवन् करोति। सर्वेऽप्येते आचार्यस्याभाव्याः। तथा यदि सशिखाकः परस्मै प्रेष्यते तर्हि स यस्य प्रेषितस्तस्यैवाभवति / अथाशिखाकः परस्मै प्रेषितस्तर्हि प्रेषवितुरेवाभाव्यो, न परस्य। तथा चाह-“पसंतस्स असीहो, ससिहो पुण पेसितो जस्स"। अत्र परः प्रश्नमाहचोदेती कप्पम्मी, पुव्वं भणियं च होति पेसितो जस्स। ससिहो वा असिहो वा, असंथरे सो उतस्सेव।। चोदयति प्रश्नं करोति-ननु पूर्वं कल्पे भणितं यस्य सशिखो वा अशिखो वा प्रेषितः स तस्यैवासंस्तरे असं स्तरणे सति भवति / ततः कथमत्राशिखाकः प्रेषयितुराभाव्योऽभिहित इति। अत्रोत्तरमाहभण्णइ पुव्वुत्तातो, पच्छा वुत्तो विही भवे वलवं / कामं कप्पेऽभिहियं, इह असिहं दाउ न लमति तु / / भण्यते अत्रोत्तरं दीयते-पूर्वोक्ताद् विधेः पश्चादुक्तो विधिर्बलवान् भवति, ततो यद्यपि कामं कल्पेऽभिहितं तथापीहाशिखं दातुं न लभते। अन्यच्चसंविग्गाण विही एसो, असंविग्गे न दिज्जए। कुलियो वा गणिचो वा, दिण्णं पी तं तु कट्ठए। एष दानविधिः सविनानां भणितः। असंविग्नस्य पुनः सर्वथा नदीयतेन दातव्यः। अथ कथमपि केनापि दत्तो भवति तर्हि तं दत्तमपि कुलसत्को वा गणसत्को वा कर्षयति।। खेत्ताती आउरे भीते, अदिसत्थी व जदए। सचित्तादि कुलादी तु, भुजो तं परिकट्ठए।। क्षिप्तादिः, आदिशब्दात् दृप्तयक्षाविष्टादिपरिग्रहः, आतुरो मरणचिहान्युपलभ्यात्याकुलो, भीतः किमपि मे राजप्रद्विष्टादिकं करिष्यति न विद्य इति भयाकुलो, अतिगीतार्थो वाऽधिकृतां दिशं यद्ददाति परस्मै सचित्तादिकं तत् भूयः कुलादिः, आदिशब्दात् गणपरिग्रहः, परिकर्षयति। तदेतत्प्रतीच्छिकानधिकृत्योक्तम्।