________________ चरियापविट्ठ 1162 - अभिधानराजेन्द्रः - भाग 3 चरियापविट्ठ से भावतो अनिक्खित्ते, उववाएण गुरूण उ।। यो बलो बलवानपि संहनेनादृढ इति कृत्वा विकृतिकृतेन योग निक्षिपति स योगस्तस्य भावतोऽनिक्षिप्त एव।कुत इत्याह-गुरूणामुपपातेन आज्ञया "उववातो निदृसो, आणा विणओ य होंति एगट्ठा" इति वचनात् निक्षेपणादिति वाक्यशेषः। नच तथा योगनिक्षेपणे योगस्य सर्वथा भङ्गः। यत आहसालंवो विगतिं जो उ, आपुच्छित्ताण सेवए। स जोगे देसभंगो उ, सव्वभंगो विपज्जए। सालम्बो विकृतिभिः प्राणितः सन् क्षिप्रज्ञानादि ग्रहीष्यामीत्यालम्बनसहितो यो गुरुमापृच्छ्य विकृतीः सेवते परिभुक्ते, स योगे योगस्य देशभङ्गो भवति, न सर्वभङ्गः, विपर्यये आलम्बनाभावे गुर्वनापृच्छायां च सर्वभङ्गः। अथ साक्षाद्योगं निक्षिपति न च सर्वभङ्ग इति का वाचोयुक्तिः ? आहजह कारणे असुद्धं, भुंजंतो न उ असंजतो होइ। तह कारणम्मि जोगं, न खलु अजोगी ठतो वि।। यथा कारणे छिन्नाध्वकादावशुद्धमपि भुजानो नतु नैवासंयतो भवति, तथा कारणे दुर्बलत्वादिलक्षणे सति योग स्थापयन्नपि खलु नैवायोगी भवति ततो न सर्वभङ्गः। अण्णो इमो पगारो, पडिच्छयस्स उ अहिज्जमाणस्स। मायानियमीजुत्ते, ववहारो सचित्तमादिम्मि।। प्रतीच्छकस्याधीयानस्यायं वक्ष्यमाणः प्रकारः / तमेवोपदर्शयतिसचित्तादिके सचित्तादिक विषये यो मायानिकृ तियुक्तो माया वञ्चनाऽभिप्रायो निकृतिस्तदनुरूपं बहिराकाराच्छादनं ताभ्यां युक्तस्तस्मिन् व्यवहार आभवद्व्यवहारः प्रायश्चित्तव्यवहारश्च भणनीयः। तमेवाभिधित्सुराह - उप्पण्णे उप्पण्णे, सञ्चित्ते जो उ निक्खिवइ जोगं / सव्वेसि गुरुकुलाणं, उवसंपज्ज लोविया तेण / / उत्पन्ने उत्पन्ने सचित्ते, उपलक्षणमेतदचित्ते वा, यो योग निक्षिपत्ति / किमुक्तं भवति-यदा यदा तस्य सचित्तादिकमुत्पन्नं भवति तदा तदा गुरु विज्ञपयति-अस्ति किञ्चित्प्रयोजनं साधयितव्यमतो निक्षिपामि योगमिति, एवं मायाबहुलतया योग निक्षिपति / तेन पापीयसा सर्वेषां गुरुकुलानां श्रुतोपसंपल्लोपिता। वहिया य अणापुच्छा, विहीऍ आपुच्छणाऐं मायाए। गुरुवयणे पच्छकमो, अब्भुवगमे तस्स इच्छाए। बहिरुभ्रामकभिक्षाचर्या गतो,यत् सचित्तादिकमुत्पन्न, यस्य सकाशेऽधीते तमनापृच्छय निजाचार्याणां प्रेषयति, तेनापि सर्वगुरुकुलानां श्रुतोपसंपन्नोऽपि “विहीए आपुच्छणाए मायाए" इति यदा सचित्तादिकमुत्पन्नं तदैतच्चिन्तयति-मा ममैतद् गुरवो हरिष्यन्ति ततो मायाया विधिना गुरूनापृच्छति-स्वजनवर्ग वन्दापयितुं व्रजामि, तेनापि सर्वगुरुकुलानां श्रुतोपसंपल्लोपिता, अमीषा च त्रयाणामपि मायानिष्पन्नं प्रायश्चित्तं मासगुरु, सचित्तविषयं जघन्यमध्यमोत्कृष्टोपधिनिष्पन्नं (गुरुययणे पच्छकड़ो त्ति) ये त्रिभिः प्रकारैरपहृताः शिष्यास्ते कदाचित्स्नानादिषु समवसरणादौ मिलन्ति गुरुणा च पृष्टाः सन्तो यथावन्निवेदयन्ति, ततो व्यवहारे जाते स आचार्यवचनेन पश्चात् क्रियते पराजीयते, तस्य सत्कं सर्वमाचार्यस्याऽऽ-भवतीत्यर्थः (अब्भुवगमे तस्स इच्छाए त्ति) यदि पुनस्तेन पराजितेनाभ्युगतः क्रियते यथा न सर्वं मया सुन्दरं कृतं मिथ्या दुष्कृतं ममेतितदातस्यैवमभ्युपगमे इच्छया करोतु मा वा तदुत्पादितस चित्ताद्यपहरणमिति। साम्प्रतमेतदेव गाथाद्वयोक्त व्याख्यानयति - अहिज्जमाणे सच्चित्तं, उप्पण्णं तु जया भवे / जोगो निक्खिखप्प तं भंते !, कजं मे किंचि वेति उ॥ अधीयाने अधीयानस्य सतो यदा यदा सचित्तमुत्पन्नं भवति तदा तदा गुरुसमीपं गत्वा ब्रूते-भदन्त ! मम किञ्चित्कार्य योजनमस्ति भोः ! निक्षिप्यतां योग इति। अधुना “वहिया य अणापुच्छा" इति व्याख्यानायाह - वहिया य अणापुच्छा, उन्मामे लभिय सेहमादिं तु / नेइ सयं पेसति वा, आसन्नठियाण उगुरूणं / / बहिरुभ्रामे उभ्रामकभिक्षायां गतः शैक्षकादि लब्ध्या यस्य सकोशेऽधीते तमनापृच्छय आसन्नस्थितानामनन्तरक्षेत्र-स्थितानां गुरूणां निजाचार्याणां स्वयं नयति, अन्यैर्वा स्वगुरुकुलसत्कैः प्रेषयन्ति / ___"विहीएँ आपुच्छणाएँ मायाए" इति व्याख्यानार्थमाहअहवुप्पण्णे सचित्ते, मा मेतं वा गुरूहिँ अच्छित्ती। मायाए आपुच्छइ, नायविहिं गंतुमिच्छामि॥ अथवेति मायायाः प्रकारान्तरोपदर्शने, उत्पन्ने सचित्तादिके चिन्तयतिमा ममेदं सचित्तादिकमुत्पन्नमेतैर्गुरुभिः (अच्छित्ती इति) अपहियतामिति मायया आपृच्छति-ज्ञातिविधि स्वजनवर्ग वन्दापयितुं गन्तुमिच्छामि। पचावेउं तहियं, नालमनाले य पत्थवे गुरुणो। आगंतुं च निवेयण लद्धं मे नालवद्धं ति / / तत्र गत्वा नालबद्धान् नालसंबद्धान् अनालबद्धान् वा प्रव्राज्य गुरोः स्वचार्यस्य प्रेषयति / प्रेष्य च पुनरध्यायपितुः समीपे समागच्छति, समागत्य च निवेदयति-यथा मया लब्धा नालबद्धा इति तत्र प्रेषिताः / / पहाणादिसु इहरा वा, दटुं पुच्छा कयासि पव्वइआ। अमुएण अमुयकाले, इह पेसविया निया वा वि॥ ये ते त्रिभिः प्रकारैरपहृताः शिष्यास्तान् जिनस्नानादिषु समवसरणे इतरथा वा अन्यत्र वा मिलित्वा दृष्टवा आचार्येण पृच्छा-यथा कदा कथं वा प्रबजिता अभवन्। ततस्तेतत् क्षेत्रं च कालं च पुरुषं कथयन्ति-यथा अमुकेनामुके काले इह अस्मिन् क्षेत्रे प्रवाजितास्तथा एवमन्यैः सह प्रेषिताः, स्त्रयं वा तत्र नीताः, एवं निवेदिते व्यवहारो जातः, तस्मिश्च व्यवहारे स पराजितः। पता।