________________ चरियापविट्ठ 1161 - अभिधानराजेन्द्रः - भाग 3 चरियापविट्ठ कृतो द्वितीयेऽपि दिवसे पुनः कृतः कायोत्सर्गः, एवं तृतीयेऽपि। चतुर्थे दिवसे कृतं निर्विकृतिकम् / पुनः पञ्चमषष्ठसप्तमेषु कायोत्सर्गः ततो भूयोऽष्टमे दिवसे निर्विकृतिकं, नवमे दिवसे कायोत्सर्गः, एवं कृतेऽपि यदिन सिथतंग्लानत्वं, ततो दशमे दिवसे योगनिक्षेपः / गतस्तृतीयोऽपि भङ्गः। संप्रति चतुर्थमाह"तिण्णि तिगा" इत्यादि। त्रयस्त्रिका न दिवसा इत्यर्थः / अन्तरिता एकान्तरिताश्चतुर्थे भने कर्तव्याः, तथाप्यतिष्ठति ग्लानत्ये योगस्य निक्षेपणम्। अत्रापीयं भावना-एकस्मिन् दिवसे कायोत्सर्गो, द्वितीयदिवसे निर्विकृतिकं, तृतीयदिवसे कायोत्सर्गः, चतुर्थे निर्विकृतिकम्। एवमेकान्तरिते कायोत्सर्गनिर्विकृतिकेन नव दिवरतान् यावत्कारयेत्तथाप्यतिष्ठति ग्लानत्वेदशमे दिवसे योगो निक्षिप्यते, तत्रापि प्रतिदिवसंग्लानप्रायोग्यस्यालाभे तत्परिवासयितव्यं भवति तत्रापि योगो निक्षिप्यते / अथ कदाचित् क्षीरदिभिग्लानस्य प्रयोजनमजायत तदा स्वग्रामे तन्मार्गायितव्यम्, असति स्वक्षेत्रे परग्रामादप्यानेतव्यं, तथाऽप्यसति क्षेत्राद् बहिरपि गत्वा समानेतव्यम् / अथ कदाचित्तत्राप्यलाभस्तर्हि व्रजिकामपि ग्लानं गमयेत्, पतितं द्वितीय वजिकाद्वारम्। तत्रेयं यतनावइया अजोगि जोगी, व अदढ अतरंतगस्स दिजंते। निव्विगियं आहारो, अंतर विगतीऐं निक्खिवणं / / व्रजिकाया गोकुले गन्तुकामस्य (अतरंतगस्स त्ति) ग्लानस्य वा ग्लानत्वेन विना दुर्बलस्य द्वितीया दीयन्ते अयोगवाहिनः, तदभावे योगवाहिनो वा, तत्राहारो निर्विकृतिकमन्तरा च कायोत्सर्गतः / अथ लभ्यते प्रतिदिवसं विकृतिस्तदा योगस्य निक्षेपणम् / अत्रेयं भावनाग्लानस्य दृढस्य वा व्रजिकागन्तुकस्य द्वितीया दीयन्ते अयोगवाहिनः अथ ते न सन्ति तदा अनागाढयोगवाहिनो दातव्याः, तत्र गता विकृती: परिहरन्ति निर्वृकृतिकमाहारमाहारयन्ति / अथ न लभ्यते दिनेदिने निर्विकृतिकं तदाऽन्तराऽन्तरा विकृतिग्रहणाय कायोत्सर्ग कुर्वन्ति / अथ दिने दिने विकृतिरेव प्रायो लभ्यते नान्यत्तदा योगस्तेषां निक्षिप्यते। संप्रति निर्विकृतिकमाहारमहारयतां विधिमाह - आयंविलस्सऽलंभं, चउत्थमेगंगियं च तक्कादी। असतेयरमागाढे, निक्खेवणुहेस तहि चेव / / यद्याचाम्लके आचाम्लप्रायोग्यं न लभ्यतेतदा चतुर्थमभक्तार्थ कुर्वन्ति / अथ न शक्नुवन्त्यभक्तार्थ कर्तुं तदा एकाङ्गिक तक्रहारयन्ति, तक्रमाचामाम्लं कुर्वन्तीत्यर्थः। आदिशब्दात् एकाङ्गिकंकाष्ठमूलमाहारयन्तीति द्रष्टव्यम् / अथ न सन्त्यनागाढयोगवाहिनो द्वितीयास्तत इतरे आगाढयोगवाहिनो द्वितीया दीयन्ते, तत्र यदि तेषां प्रायोग्यं लभ्यतेततः सुन्दरम्, अथ न लभ्यते केवलं तत्र क्षीरादीनि लभ्यन्ते तदा योगो निक्षिप्यते, निक्षेपान्तरंच पुनरुद्देशस्तथैव यथाऽधस्तादणितम्। जति निक्खिप्पइ दिवसे, भूमीए तत्तिए उवरिवट्टे / अपरिमियं तुद्देसो, भूमीए तउ परं कमसो।। गतं वजिकाद्वारम्। इदानीं महामहद्वारमाह - सक्कमहादीसुं वा, पमत्त मा णं सुरा छले ठवणा। पिणिज्जंतु व अदढा, इतरे न दिसंति न पढ़ति / / महामहाः शक्रमहादयः, आदिशब्दात्सुग्रीष्मकमहादिपरिग्रहः / तेषु (ठवण ति) अनागाढयोगप्रतिपन्नाः, तेषां योगो निक्षिप्यते, किं कारणमिति चेत् ? अत आह-मा तं प्रथमतः सन्तं काचित् मिथ्यादृष्टिदेवता छलयेत्। अन्यच्च तेषु दिवसेषु विकृतयोलभ्यन्ते, ततो ये अदृढा दुर्बलाः सन्ति तैर्विकृतिपरिभोगत आप्यायन्तामिति योगनिक्षेपणम्, ये पुनरितरे आगाढयोगवाहिनस्तेषां योगो न निक्षिप्यते, केवलमन्यत् नो दिशन्ति नापि पठन्ति / गतं महामहद्वारम्। __ इदानीमध्याऽऽवमराजविष्टलक्षणं द्वारत्रयमाह - अद्धाणे जोगीणं, एसियं तु सेसगाण पणगादी। असती, अणागाढे, निक्खिवमचासती इयरे॥ अध्वनि ग्रामानुग्रामिके योगं वहति, अथ छिन्नाध्वकं तदा यत एषितं, प्रासुकमित्यर्थः / ततो योगिनां योगवाहिनां दीयते, शेषाणां पञ्चकादि दातव्यम्। किमुक्तं भवति-शेषाः पञ्चकपरिहाण्या पञ्चकादिषुयतन्ते। अथ सर्वे योगवाहिनो न संस्तरन्ति ते प्रासुकेन,तत आह-असति सर्वेषां तेषा योगवाहिनां प्रासुके अनागाढे योगवाहिनायोगस्य निक्षेपः करणीयः / अथ सर्वथा तच प्रासुकंन लभ्यते। तत आह-सर्वेषां प्रासुकरयासत्यभावे इतरेऽप्यागाढयोगवाहिनो निक्षिप्यन्ते / एवमवमौदर्यराजद्विष्टऽपि च भावनीयम्। साम्प्रतमागाढे नवकवर्जनमिति व्याख्यानार्थमाह - आगाढम्मि उ जोगे, विगतीउ नव विवज्जणीओव। दसमाएँ होइ भयणा, सेसग भयणा वि इयरम्मि!| आगाढयोगे पक्वविकृतिव्यतिरेकेण शेषा नवापि विकृतयो विवर्जनीयाः, दशम्याः पुनः पक्षविकृतेर्भवति भजना विकल्पना आगाढ ग्लानत्वमधिकृत्य पूर्वप्रकारेण तस्याः सेवना भवति, शेषकालं नेति भावः / इतरस्मिन्नागाढयोगे शेषकाणमपि क्षीरादीनां विकृ तीनां भजना विकल्पना, आगाढग्लानस्यानागाढग्लानस्य चेतरा विकृतिग्रहणाय कार्योत्सर्गस्याधिकरणाभ्यनुयाज्ञानात् / संप्रति “निकारण कारणे विगती" इति व्याख्यानयति - निकारणे न कप्पंति, विगतीतो जोगवाहिणो। कप्पंति कारणे भोत्तुं, अणुण्णाया गुरूहि उ॥ योगवाहिन आगाढयोगवाहिनो वा निष्कारणे ग्लानत्वादिकारणाभावे विकृतय : पूर्वप्रकारेण भोक्तुंन कल्पन्ते, कारणे पुनरनुज्ञाता गुरुभिर्भोक्तुं कल्पन्ते, नवकारणे योगनिक्षेपेऽपि दोषः। तथा चाहविगतीकएण जोगं, निक्खिवए दढदुव्वले। से भावतो अनिक्खित्ते, निक्खित्ते वि य तम्मि उ।। यः संहननेन दृढोऽपि सन् शरीरेण दुर्बल इति कृत्वा विकृतिकृतेन विकृतिपरिभोगाय योग निक्षिपति। 'से तस्य निक्षिप्तेऽपि तस्मिन् योगे भावतः स योगोऽनिक्षिप्त एव, गुर्वाज्ञया निक्षेपणात्। विगतीकएण जो जोगं, निक्खिवे अदढे वले।