________________ चरियापविट्ठ 1160 - अभिधानराजेन्द्रः - भाग 3 चरियापविट्ठ - देशतः सर्वतो वा, तदा तस्मिन् योगस्यागाढस्य सर्वतो भङ्गे प्रायश्चित्तं | चत्वारो गुरुकाः, अनागाढस्य सर्वतोभङ्गोचत्यारोलघुकाः। तथा आगाढे आगाढस्य देशतो भड़े गुरुकः, सर्वतो भङ्गे लघुकः। अथ कथं देशतः सर्वतो वायोगस्य भङ्गस्तत आहआयंविलं न कुव्वइ, भुंजति विगतीउ सव्वभंगो उ। चत्तारि पगारा पुण, होति इमे देसभंगम्मि।। आचामाम्लं परिपाट्या समापतितं न करोति विकृती, भुक्ते, एष योगस्य सर्वभङ्गः, देशभङ्गे पुनरिमे वक्ष्यमाणाश्चत्वारः प्रकाराः। तानेवाहन करेति भुंजिऊणं, करेइ काउंसयं च भुंजति तु। वीसजेह ममं ति य, गुरु लहु मासो विसिट्ठो उ॥ आचार्येण संदिष्टो विकृतिग्रहणायकायोत्सर्ग कृत्वा विकृतीः भोक्तुम्, तत्रैकोऽकृते कायोत्सर्गे विकृतीर्भुङ्क्ते, न च भुक्त्वाऽपि करोति कायोत्सर्ग, तस्य प्रायश्चित्तं मासलघु, तपसा कालेन चतुर्गुरुकं, तत्र तपसा अष्टमादिना, कालेन ग्रीष्मादिना, अन्यस्तथा संदिष्टः सन् विकृती क्त्वा विकृतिग्रहणाय कायोत्सर्ग करोति, तस्य प्रायश्चित्तं मासलघु / (काउं सयं च भुजति उ) तृतीयस्तथा संदिष्टाः सन् स्वयं कायोत्सर्ग कृत्वा विकृतीभुङ्क्ते, तस्य प्रायश्चित्तं मासलघु, तच तपसा लघु, चतुर्थादिना तस्य करणात्, कालेन वा गुरु, वसन्तादौ तस्य वहनाभ्यनुज्ञानात्, चतुर्थो विकृति लब्ध्वा भूरीन् बूते-संदिशत कायोत्सर्ग कृत्वा विकृति भुजेऽहमिति, तस्य मासलघुतपःकालाभ्यां लघु। तथा चाह-चतुलपि लघुमासो, गुरु पुनर्यथायोगं तपःकालाभ्यां विशिष्टः सन्, एवमनागाढे योगे देशभङ्गः। आगाढे पुनर्नास्त्यपरिपूर्णेऽनुज्ञा विसर्जनस्य, न केवलमेतेषु चतुर्यु प्रकारेषु यथोक्त प्रायश्चित्तं, किं त्वाज्ञादयोऽपि दोषाः। तथा चाहएकेके आणादी, विराहणा होइ संजमाऽऽयाए। अहवा कज्जे उ इमे, दंढें जोगं विसज्जेज्जा / / एकैकस्मिन्प्रकारे आज्ञादय आज्ञाऽनवस्थाप्यमिथ्यात्वविराधनारूपा दोषाः, तथा ग्लानत्वे भावतो देवताछलनतो वा संयमस्यात्मनश्च विराधना भवति / अथवा इमानि वक्ष्यमाणानि ग्लानत्वादीनि कार्याणि दृष्टवा योगं विसर्जयेत्, नास्तितत्र देशतः सर्वतो वा भङ्गः। तान्येव कारणान्याह - दतु विसजण जोगे, गेलण्ण चए महद्धाणे। आगा. नवगवज्जण, निकारणे कारणे विगती / / दृष्टवा ग्लानमतरन्तं चयति वजिकायां विकृतिलाभं, तथा महामहानिन्द्रमहादीन अध्वानं छिन्नाध्वानमुपलक्षणमेतत् अवमौदर्य राजप्रद्विष्ट च दृष्टवा योगो योगस्य विसर्जनं कर्तव्य, तथा आगाढे विकृतिनवकस्य वर्जन, दशमायाः पक्वरूपाया भजना। तथा निष्कारणे योगं निक्षिप्य विकृतयो न कल्पन्ते, कारणे तु कल्पन्ते। एष द्वारगाथासंक्षेपार्थः / संप्रत्येषा विवरीतव्या, तत्र प्रथमं ग्लानमधिकृत्याह - जोगो गेलण्णम्मि य, आगाढियरे य होति चउभंगो। पढमो उमयागाढो, वितिओ तइओ य एक्केणं / / योगे ग्लानत्वे च प्रत्येकमागानाभवति चतुर्भङ्गी, गाथायां पुंस्त्वनिर्देशः प्राकृतत्वात् / सा चैवम्-आगाढो योग आगाढं ग्लानत्वम् 1, आगाढो योगोऽनागाद ग्लानत्वम् 2, अनागाढो योग आगाढं ग्लानत्वम् 3, अनागाढो योगोऽनागाढं ग्लानत्वम् 4 / तथा चाह-प्रथमे भङ्ग उभयागाढ उभयमागाद यस्मिन् स तथा / द्वितीय आगाढ आगाढयोगेन / तृतीय आगाढ आगाढग्लानत्वेनेत्यर्थः / चतुर्थ उभयस्याप्यागाढस्थाभावे।। तत्र प्रथमभङ्गमधिकृत्याह - उभयम्मि वि आगाढे, दद्धे पक्कएहि तिण्णि दिणे / मक्खांते अठायंते, पच्चंते धरे दिणा तिन्नि / / उभयस्मिन्नपि योगे ग्लानत्वे चागादे तं प्रतिपन्नगाढग्लानं दग्धेन पक्कन वा तैलेन। यदि वा-पक्वेन शतपाकादिना तैलेन त्रीणि दिनानि म्रक्षयन्ति तथाऽप्यतिष्ठति ग्लानत्वे यत्र पच्यते पक्वान्नं तत्र त्रीणि दिनानि यावत् नीत्वा पर्यन्ते ध्रियते, येन तद्गन्धपुद्गलाघ्राणत आप्यायितो भवति। जत्तियमेत्ते दिवसे, विगई सेवइन उद्दिसे तेसु। तह वि य अठायमाणे, निक्खिवणं सव्वहा जोगे।। यावन्मात्रां विकृतिमुक्तप्रकारेण सेवते तेषु तावन्मात्रेषु दिवसेषु सूत्रं नोदिशेत् तथापि च दिनत्रय पर्यन्त धारणेनाप्यतिष्ठत्यनिवर्तमाने ग्लानत्वे सर्वथा प्रायोग्यस्य निक्षेपणं कर्त्तव्यम्। जइ निक्खिप्पइ दिवसे, भूमीए तत्तिए उपरि वड्डे / अपरिमियं उद्देसो, भूमीऐं ततो परं कमसो।। यदियावत्प्रमाणान् मत्वा योगो निक्षिप्यते तावन्मात्रान् दिवसान् भूमेः स्वाध्यायभूमेरुपरि वर्द्धयेत् / किमुक्तं भवति? यावति पठिते स्थितः स्वाध्यायः स्वाध्यायभूमिसूत्रं यावतो दिवसान् चेद्धो योगो निक्षिप्यते तावतो दिवसान भूयोऽपि योगमुत्क्षिप्य योगोद्वहनेन स्वाध्यायभूमेरुपयेवमेवातिवाहयेत्। अथ यस्मिन् दिने योगः प्रथममुत्क्षिप्तस्तस्य विस्मृतेदिवसपरिमाणं प्रतिनियतं कर्तुं न शक्यते, तत आह-परिमितं यदि दिवसपरिमाणं तत उद्देशो ग्राह्यः, स स्वाध्यायभूमेरापर्येव योगवहनेनातिबाह्यते तावन्मात्रदिवसातिवाहनतः, परं क्रमशः, सूत्रपाठानुसारेण वहेत्। गतःप्रथमभङ्गः। संप्रति द्वितीयभङ्गमधिकृत्याहगेलण्णमणागाढे, रसवति नेहोटवरे असति पक्का / तह वि य अठायमाणे, आगाढतरं तु निक्खिवणा / / ग्लानत्वे अनागाढे रसवत्यां शालनकादौ यः स्नेह उद्वरितः सम्रक्षणाय प्रदीयते, तथाप्यसत्यतिष्ठति ग्लानत्वे यानि शतपाकादिना प्रकानि घृततैलानि तानि म्रक्षणाय दातव्यानि, तथाऽप्यतिष्ठति ग्लानत्वे ग्लानमागाढतरं ज्ञात्या योगस्य सर्वथा निक्षेपणं कर्तव्यम्। गतो द्वितीयो भङ्गः। संप्रति तृतीयमाहतिणि तिगेगंतरिए, गेलण्णागाढ निक्खिण परेणं / तिणि तिगा अंतरिया, चउत्थ भंगे य निक्खिवणा। अनागाढे योगे ग्लानत्वे त्रीन् दिवसानां त्रिकान् एकान्तरिकान्' कारयेत्, तथाप्य तिष्ठति ततः परेण योगस्य निक्षेपः कर्त्तव्यः। इयमत्र भावना- एकस्मिन् दिवसे विकृतिग्रहणाय कायोत्सर्गः।