________________ चरियापविट्ठ 1156 - अभिधानराजेन्द्रः - भाग 3 चरियापविट्ठ दृष्टवा तस्य सकाशे समीपे कायोत्सर्गः करणीयः, संदशश्च प्रेषणीय / आचार्यस्य, यथा-तदानीं युष्मत्समीपे कायोत्सर्गकरणं विस्मृतमिदानीममुकस्य साधर्मिकस्य समीपे कृतः कायोत्सर्ग इति, कायोत्सर्ग च कृत्वा यदकृते कायोत्सर्गे सचित्तादिकमुत्पन्नं तत्प्रेषयति। पढमचरमाण एसो, निग्गमणबिही समासतो भणितो। एत्तो मज्झिल्लाणं, ववहारविहिं तु वुच्छामि / / प्रथमचरमाणा प्रथमचरमकारणोपेतानामेष निर्गमनविधिः समासतो भणितः / इत ऊर्दैव मध्यमानां मध्यमकारणोपेतानां व्यवहारविधि प्राश्चित्तव्यवहारविधिं च वक्ष्यामि / प्रतिज्ञातमेव निर्वाहयतिसज्झायभूमिं वोलंते, जोए छम्मासपाहुमे। सज्झायभूमि दुविहा, आगाढा चेवऽणागाढा।। स्वाध्यायभूमिं प्रतिपन्नः सन् तामनिक्षिप्य यो व्यतिक्रामति तस्मिन् आभवद्व्यवहार उच्यते / अथ स्वाध्यायभूमिरिति किमभिधीयते ? उद्यते-प्राभृतं नाम यदिष्टः श्रुतस्कन्धस्तस्मिन् ये योगाः सा | स्वाध्यायभूमि; सा चागाढयोगमधिकृत्योत्कर्षतः षण्मासाः / एतदेव द्वैविध्येनाह-स्वाध्यायभूमिर्द्विविधा, योगो द्विविध इत्यर्थः / आगाढा अनागाढा च। जहणेण तिण्णि दिवसा, अणगादक्कोम होइ वारसओ। एसा दिट्ठीवाए, महकप्पसुयम्मि वारसमा।। अनागाढा स्वाध्यायभूमिर्जघन्येन त्रयो दिवसाः, यथा-नन्द्यादिकस्याध्ययनस्य, उत्कर्षतो भवतिद्वादश वर्षाणि, एषा द्वादशवर्षप्रमाणा उत्कृष्टा स्वाध्यायभूमिदृष्टिवादे, साऽपि दुर्मेधसः संप्रतिपत्तव्या, प्राज्ञस्य तु वर्षम् / उक्तं च-"अणागाढो जहण्णेणं तिण्णि दिवसा, उक्कोसेण वरिस, जहा दिट्टिवायस्स वारस वरिसणि दुम्मेहस्सेति।" महाकल्पश्रुते द्वादश वर्षाण्युत्कृष्टा स्वाध्यायभूमिः। अत्राभवव्यवहारमाहसंकेता पवहंतो, काउस्सग्गं तु छिन्न उवसंपा। अकयम्मी उस्सग्गे, जा पढती तं सुयक्खंधं / / योगं वहन् गणान्तरमन्यत्र संक्रामन् छिन्नमुपसंपदिदानीमिति प्रतिपत्त्यर्थं कायोत्सर्ग कृत्वा व्रजेत्। अथ कथमपि तस्य विस्मृतं भवति, तत आचार्येण स्मारयितव्यः-यथा कुरु कायोत्सर्गम्, अथ द्वयोरपि विस्मरणतः सोऽकृतकायोत्सर्गों याति तर्हि यावत्सोऽन्त्र गतोऽपि तं श्रुतस्कन्धं पठति। ता लाभो उदिसणा-यरियस्स जइ वहइ वट्टमाणिं से। अवहंतम्मि व लहुगा, एस विही होइ अणगाढे // तावत् यत्किमपि स लभते सचित्तादिकं स समस्तोऽपि लाभ उद्देशनाचार्यस्ययेनोद्दिष्टः स श्रुतस्कन्धस्तस्य पूर्वाचार्यस्याऽऽभवति, | केवलं यदि स पूर्वतन उद्देशनाचार्यः 'से' तस्यान्यत्र गतस्य सतो वर्तमानां सारां वहति। अथ स तस्याकृतकायोत्सर्गस्य सतोऽन्यत्र गतस्य सारांन / वहति ततस्तस्मिन् सारामवहत्युद्देशनाचार्ये प्रायश्चित्तं चत्वारो लघुकाः, यच सचित्तादिकं स प्रतीच्छिको लभते तदपि तस्याऽऽभवति, एषोऽनन्तरोदितो विधिर्भवत्यवागाढे योगे। ___ संप्रत्यागाढे विधिमभिधित्सुरिदमाह - आगाढो विजहन्नो, कप्पियऽकप्पादि तिण्णऽहोरत्ता। उक्कोसो छम्मासे, वियाहपण्णत्ति आगाढे / / आगाढोऽपि योगो जघन्यतस्त्रयोऽहोरात्राः, यथा कल्पिकाकल्पिकादेरुत्कर्षत आगाढ आगाढयोगः षण्मासान् यथा विवाहप्रज्ञप्तेः पञ्चमाङ्गस्य। अत्राभवद्वयवहारमाह - तत्थ वि काउस्सगं, आयरियविसज्जियम्मि छिण्णओ। संसरमसंसरं वा, अकएँ तु सूरीए। तत्राप्यागाढयोगे पूणे अपूर्णे वा आचार्येण यस्य सकाशे योगः प्रतिपन्नस्तेन सूरिणा विसर्जिते विसर्जने कृते छिन्ना उपलदिति ज्ञापनार्थ संस्मरन् कायोत्सर्ग कुर्यात्, असंस्मरन् वा आचार्येण स्मारयितव्यः। तत्र भूमौ स्वाध्यायभूमावागाढे योगे अपरिपूर्ण आचार्येण विसर्जितः / कृते कायोत्सर्गे यदिव्रजतितर्हि सव्रजन् यत्किमपिलभते सचित्तादिकं तत्तस्यैवाऽऽभवति, नोद्देशनाचार्यस्य, अथाऽकृते कायोत्सर्गे व्रजति, तर्हि यावदन्यत्र गतोऽपितं श्रुतस्कन्धं पठति, सारां चोद्देशनाचार्यस्तस्य करोति, तावद् यत् किमपि सचित्तादिकमुत्पादयति, तत्सर्वमुद्देशनाचार्यो लभते। पुनरितरःतीरिऐं अकए उ गते, जा अन्नं न पढएउ ता पुरिमे। आसण्णाउ नियत्तइ, दूरगतो वा वि अप्पाहे / / तीरिये समामि नीते आगाढयोगे श्रुतस्कन्धे च भक्तिपुरस्सरमाचार्यादिक्षमणया तोषिते यदि कथमपि गमनवेलायामनाभोगतोऽकृते कायोत्सगर्गे याति तर्हि स गतः सन् यावदन्यन्न पतितुमारभ्यते तायद्यत्किमपि लभते तत्पूर्वस्याचार्यस्याभवति, न तस्य, तस्य चास्मरणतोऽकृते कायोत्सर्ग गतस्येयं सामाचारी, यदि आसन्ने प्रदशे गत्वा स्मृतं तत आसन्नान्निवर्तते / अथ दूरं गतेन स्मृतं तर्हि तत्र यं साधर्मिक पश्यति तस्य समीप कायोत्सर्गे तु कृत्वा 'अप्पाहे ति' संदेशं कथयति यथा मया कृतोऽमुकस्य समीपे कायोत्सर्ग इति। अवितोसिते पाहुमिते, छेद पडिच्छे चऊगुरुया। जो विय तस्स उलाभो,तं पि य न लभे पडिच्छंतो।। प्राभृते श्रुतस्कन्धे, अतोषितेसमाप्त्यनन्तरं भक्तिबहुमाना-दिपुरस्सरमाचार्यादिक्षमणया तोषमनीते, यदि निर्गच्छति तर्हि तस्मिन् प्रायश्चित्तं छेदः / प्रायश्चित्तं पाठयितुं प्रतीच्छति, तस्मिन् प्रतीच्छके प्रायश्चित्तं चत्वारो गुरुकाः, योऽपि च तस्य निर्गत स्यान्यप्रविष्टस्य लाभस्तमपिन लभते प्रतीच्छकः, किमुक्तं भवति-? सतथा निर्गतो यत्किमप्युत्पादयति सचित्तादिकं तत्पूर्वतनस्याचार्यस्याऽऽभवति, न तु तस्य, नापि यस्तं पाठयति तस्य, प्रतीच्छत इति, तदेवं गच्छान्निर्गतानां विधिरुक्तः / संप्रत्यनिर्गताना तमभिधित्सुराह - तत्थ वि य अस्थमाणे, गुरुलहुया सव्वभंग जोगस्स। आगाढमणागाढे, देसे भंगे उ गुरुलहुओ / / तत्रापि गच्छे तिष्ठन् यदि योगं वक्ष्यमाण प्रकारेण भनक्ति