________________ चरियापविट्ठ 1158 - अभिधानराजेन्द्रः - भाग 3 चरियापविट्ठ इदानीमुपसंपद्यमानानधिकृत्याह - पारिच्छनिमित्तं वा, सब्भावेणं व वेति तु पडिच्छे / उवसंपजितुकामे, मज्झं तु अकारकं इहई / अण्ण गवेसह खेत्तं, पाउग्गं जं च होइ सव्वेसिं / वालगिलाणादीणं, सुहसंथरणं महगणस्स / / परीक्षानिमित्तं वा, सद्भावेन वा प्रतीच्छिकानुपसंपत्तुकामान् गुरुर्ब्रतेआर्याः ! इहास्मिन् क्षेत्रे मम अकारकं भक्तपानादि, तस्मादन्यत् क्षेत्र मम प्रायोग्यं यच्च भवति सर्वेषां वा ग्लानादीनां प्रायोग्यं महतो गणस्य सुखसंस्तरणं सुखेन निस्तारहेतुस्तत् गवेषयथ प्रतिलेखयथ। कयसज्झाया एते, पुटवं गहियं पि णासते अम्हं। खेत्तस्स अपडिलेहा, अकारगा तो विसजेइ।। एवं संदिष्टाः सन्तो यदि ते भाषन्ते - एते युष्माकं शिष्याः | कृतस्वाध्यायास्तस्मादेतान्प्रेषयथ, अस्माकं पुनः क्षेत्रप्रत्युपेक्षणार्थं / गतानां पूर्वगृहीतमपि नश्यति / एवमुक्ता यदि ते क्षेत्रस्य प्रत्युपेक्षका अप्रत्युपेक्षका विनयवैयावृत्यादेरकारकाश्च ततस्तान्विसर्जयति। सव्वं करिस्सामों ससत्तिजुत्तं, इचेवमिच्छंतें पडिच्छिऊणं / निव्वेसबुद्धीऍ न यावि मुंजे, तं चागिली पूरति तेसि इच्छं / / ये पुनः संदिष्टाः सन्त एवं ब्रुवते-यथा सर्व स्वशक्तियुक्तं स्वशक्त्युचितं करिष्यामः, तान् एवमिच्छतः प्रतीच्छेत् / प्रतीच्छ्य च तान्, न चापि नैव, निर्वेशबुद्ध्या कर्म मया पुरा कृतमेवं वेदयितव्यमिति बुद्ध्या, भुङ्क्ते परिभोगं नयति, किंतु स्वपरयोर्निर्जराबुद्ध्या यया वेच्छया ते उपसंपद्यन्ते चेच्छां तेषामगिलया निर्जराबुद्धया पूरयति, न परोपरोधात् चित्तनिरोधेन। अथ तेषां प्रतीच्छिकानां कियन्तं कालं प्रतीच्छको भवति? तत्राहनिट्ठिय महल्ल मिक्खे, कारण उवसग्गऽगारिपडिवंधो। पढमचरिमाइ मोत्तुं, निग्गम सेसेसु ववहारो।। निष्ठितं नाम, येन कारणेनोपसंपन्नस्तत्र सूत्रार्थलक्षणं कारणं निष्ठित समाप्त ततो निर्गच्छति, (महल्ल त्ति) महती सूत्रमण्डली, भक्तमण्डली वा, तत्र सूत्रमण्डल्या चिरेणालापके आगच्छति भक्तमण्डल्या महत्या भागागतं, तत्र यथा अन्ये साधवोऽध्यास ते तथा तेनाऽप्यध्यासितव्यम, अनध्यासितश्च निर्गच्छति, तथा दुर्लभं तत्र क्षेत्रे भैक्षं, तत्र यथाऽन्ये साधवौ यापयन्ति तथा तेनापि प्रतीच्छितेन यापनीय, यापना चासहमानः कोऽपि निर्गच्छति, कारणमशिवादिक, तस्मिन् समुत्पन्ने सरव निर्गन्तव्यम्। उपसर्गा द्विविधाःदंशमशकादयः, स्वजनादयश्च / तत्र देशमशकादिषु सर्वर्निर्गन्तव्यम्, स्वजनादिकृतेषु तूपसर्गेषु गच्छसाधो निर्गच्छन्ति वा, नवा, प्रतीच्छितेन पुनरवश्यं निर्गन्तव्यम्, आगारीप्रतिबन्धो नाम यत्रागार्या विषये आत्मपरोभयसमुत्था दोषास्तत्रावश्यं तेन निर्गन्तव्यम्, अत्र प्रथमं चरमं कारणं मुक्त्वा शेषेषु कारणेषु निर्गम आभवढ्यावहारश्च स यथा भवतितावद्वक्ष्ये। एतदेव व्याचिख्यासुराह - सम्मत्तम्मि निग्गमो, तस्स होति इच्छाए। मंडलि महल्ल भिक्खे, जह अण्णे तह जावए / / यस्स श्रुतस्यार्थेनोपसंपन्नस्तस्मिन् समाप्ते श्रुते तस्स निर्गम इच्छया भवति; यदि प्रतिभासते तर्हि तिष्ठति नो चेन्निर्गच्छति / तथा महत्या भक्तमण्डल्या दुर्लभे च भैक्ष्ये यथाऽन्ये साधवो यापयन्ति तथा सोऽपि यापयेत् / यापनां चासहमानः कोऽपि गच्छेत्, सूत्रमण्डलल्यामपि चारणालापमागच्छन्तमनवेक्षमाणस्त्वरया कोऽपि निर्गच्छति। कारणे असिवादिम्मि, सव्वेसिं होइ निग्गमो। दंसमादी उवस्सग्गे, सव्वेसिं एवमेव उ॥ अशिवादौ करणे समुत्थिते सर्वेषां भवति निर्गमः / एवमेव अनेनैव प्रकारेण दशादिके दंशमशकादिके उपसर्गे समुपस्थिते सर्वेषां भवति निर्गमः। नीयल्लएहि उवसग्गे, जइ गच्छंति नेतरे। निग्गच्छति ततो एगो, पडिबंधो वि भावतो।। निजकैरपि स्वजनैरप्युपसर्गे क्रियमाणे यदि इतरे गच्छसाधवो न गच्छन्ति ततः स एक एकाकी प्रतीच्छिको निर्गच्छति। यदि वा-भावतः स्वजनेषु महान्प्रतिबन्धः, ततो निर्गच्छति। आयपरोभयदोसे-हिँ जत्थऽगारी, होज पडिबंधो। तत्थ न संचिडेजा, नियमेण उ निग्गमो तत्थ / / यत्रात्मपरोभयदोषैरगार्या उपरिभवेत् प्रतिबन्धस्तत्र न संतिष्ठेत। किन्तु नियमतस्तत्थेति प्राकृतत्वात्तस्मादित्यर्थे / तस्मात्स्थानान्निर्गमः / पढमचरिमेसुऽणुण्णा, निग्गम सेसेसु होइ ववहारो। पढमचरमाण निग्गमे, इमा उ जयणा तहिं होइ। प्रथम चरमे च करणे नियमेन निर्गमे अनुज्ञा भवति, शेषेषु तु कारणेष्वनाभोगतो निर्गमे भवत्याभवद्व्यवहारश्च, तत्र प्रथमचरमाणां प्रथमचरमकारणोपेतानां निर्गमे इयं वक्ष्यमाणा तत्र यतना भवति। तामेवाऽऽह - सरमाणे उभए वा, काउस्सग्गं तु काउ वचेजा। पम्हुट्ठो दोण्ण वि ऊ, आसन्नातो नियढेजा।। प्रथम चरमे च कारणे समुपजाते उभ्यस्मिनन्नप्याचार्ये प्रतीच्छिके च विधि स्मरति, छिन्ना संप्रत्युपसंपदिति ज्ञापनार्थ कायात्सर्ग कृत्वा स प्रतीच्छिको व्रजेत / अथ प्रतीच्छिकस्य विस्मृतं तत आचार्येण स्मारयितव्यं, यथा कुरुच्छिन्नोपसंपन्निमित्तं कायोत्सर्गमिति / अथाऽनाभोगतो द्वयोरपि (पम्हुद्वमिति) एकान्तेन विस्मृतं, ततो द्वयोरप्येकान्तेन विस्मृतावकृते कायोत्सर्गे संप्रस्थितो यथाऽऽसन्ने प्रदेशे स्मरति तत आसन्नात् प्रदेशान्निवर्तेत, निवृत्य च कायात्सर्गा विधेयः। दूरगएण उ सरिए, साहम्मिंदट्ट तस्सगासम्मि। काउस्सग्गं काउं, लद्धं जं तं च पेसेइ / / अथ दूरं गत्वा स्मृतवान्, ततो दूरगतेन स्मृते साधर्मिकं