________________ चरियापविट्ठ 1157 - अभिधानराजेन्द्रः - भाग 3 चरियापविट्ठ दि कर्तव्यम्, यदि पुनर्न कुर्वन्ति तदा तेषामप्यप्रेषणे, उपलक्षणमेतदकरणेन एवमुक्तप्रकारेण प्रायश्चित्तमवसातव्यम् / तथाहि-यदि ते गवेषणाय साधुसंघाट न प्रेषयन्ति तदा मासलघु, अथ कृतेऽपि प्रेषणे आचार्येण वा ज्ञापिते यदि ग्लानकृत्यं न कुर्वन्ति तदा चत्वारो गुरुकाः प्रायश्चित्तम्। अहवा दोण्ह वि हुजा, संथरमाणेहि तह वि गवेसणया। तं चेव य पच्छित्तं, असंथरंता भवे सुद्धा। अथवा द्वयानामपि आचार्यस्व तेषां च, प्रत्येक ग्लानो भवेत, तथाऽपि यदि संस्तरन्ति ततः संस्तरद्भिः परस्परं ग्लानस्य गवेषणा कर्तव्या। अथ न कुर्वन्ति तदा तदेव प्रायश्चित्तं यदनन्तरमुक्तम् / तथाहिपरस्परमप्रेषणे मासलघु, ग्लानकृत्याकरणे चतुर्गुरुकम्। अथ द्वयेऽपि प्रत्येकन संस्तरन्ति, द्वयानामपि च प्रत्येकग्लानस्तत आह-असंस्तरंतो गवेषणोद्यकुर्वन्तोऽपि भवति शुद्धा न प्रायश्चित्तविषयाः। सम्प्रति “गुरुपुण्णेण लभते च' इत्यत्र चशब्दसूचितमर्थमुपदर्शतिहटेणं न गविट्ठा, अतरंतों ण ते य विप्परिणयाओ। तत्थ वि न लहइ सेहे, लभइ य क विपरिणया वि॥ ते सुखदुःखोपसंपन्नकाश्चरिकागता अतरन्तो यदि कथमप्याचार्येण हृष्टन नीरोगेण, प्रयोजनान्तराव्याकुलितेन च सतानगवेषिताः, अतरन्तो न च ते विपरिणताः-यथा वयमतरन्तो वर्तामहे तथाऽप्याचार्येण न गवेषितास्ततः किमस्माकमाचार्येणेति, तत्रापि हष्टनागवेषणेऽपि, आस्तां परस्परनिश्रायामित्यपिशब्दार्थः, न लभते गुरुः शैक्षात्, किमुक्तं भवतिते तथा विपरिणताः सन्तो यत्सचित्तादिकमुत्पादयन्ति तदाचार्यो न लभते। अथ कार्ये कस्मिन्नपि व्याकुली भवनेन आचार्येण तेऽतरन्तो न गवेषितास्तर्हि यद्यपि ते विपरिणता अपि यत्ते सचित्तादिकमुत्पादयन्ति, तत्ते न लभन्ते, किं तु लभते आचार्यः। लद्धं अविप्परिणते, कहिंति भावम्मि विप्परियणम्मि। इति मायाए गुरुओ, सचित्तादेसगुरुया वा।। यदि अविपरिणते भावे सचित्तादि लब्ध्वा विपरिणम्य कथयन्ति-इदं विपरिणते भावेऽस्माभिर्लब्धमिति तदा 'मायाए' उपसंपदं लोपयन्तीति मायानिष्पन्न प्रायश्चित्तं गुरुको मासः। अचित्ते समुत्पादिते तत्प्रत्ययमुपधिनिष्पन्नं प्रायश्चित्तं, सचित्ते समुत्पादिते तत्प्रत्ययं चतुर्गुरुकमादेशान्तरेण प्रायश्चित्तमनवस्थाप्यम्। तथा आचार्यो निष्कारणं यदितान् गवेषयति तदा तस्या प्रायश्चित्तं मासलघु। सुहदुक्खिया गविट्ठा, सो चेव य उग्गहो य सीसा य। विप्परिणमंतु मा वा, अगविठेसुं तु सो न लभे // ते सुखदुःखिताः सुखदुःखेपसंपन्नका आचार्येण गवेषिताः, स एवावग्रहो वर्तते, अद्यापि विपरिणामाकथनात्, ते शिष्याः यदि विपरिणमन्तु यदि वा मा विपरिणमन्तु तथापि यत्तेरुत्पादितं सचित्तादि तदाचार्यो लभते, न पुनस्तत्तेषामिति / अथ न गवेषिता आचार्येण विपरिणताश्च ते ज्ञातास्ततस्तैरगवेषितैर्विपरिणतैश्चयल्लब्धं सचित्तादि तत्स आचार्यों न लभते, किं तु तत्तेषामेव। विप्परिणयम्मि भावे, लद्धं अम्हेहिं वेंति जइ पुट्ठा। पच्छा पुणो वि जातो, लभंति दोचं अणुण्णवणा।। यदि पुनस्ते पृष्टाः सन्तो ब्रुवते-एतद्विपरिणते भावेऽस्माभिर्लब्ध, तत्तेषामेव, नाचार्यस्य, अथ पश्चात्पुनरपि भावो जातो द्वितीयमपि वारमवग्रहस्यानुज्ञापना कर्त्तव्या, तदा तथारूपाद्धांवात् ज्ञातादारतो यत्ते लभन्ते तदाऽऽचार्यस्य भवति, न तेषामिति। आगयमणागयाणं, उउवद्धे सो विही उ जो भणितो। अद्धाण सीसगम्मि वि, एस विही पट्टिएँ विदेसं / / य एषोऽनन्तरमुक्तो विधिः स एव ऋतुबद्धे काले आगतानां चरिकातो निवृत्तानामनागताना चरिकाप्रविष्टानामवसेयः / एष पुनर्वक्ष्यमाणो विधिर्विदेशं प्रस्थिते, उपलक्षणमेतत् स्वदेशेऽपि दूरंगन्तुकामे अध्वशीर्षक ग्रामे स्थिते वेदितव्यः। तमेवाहसत्थेणं सालंवं, गयागयाण इह मग्गणा होइ। तत्थऽन्नत्थ गिलाणे, लहु गुरु लहुगा चरिम जाव। सार्थेन सह विदेशेऽपि वा दूरं गन्तुकामा सालम्बं गता यथायदि अध्वशीर्षक ग्रामे परतो गमनाय सार्थ लप्स्यामहे ततो पास्यामः, अथ नलप्स्यामः, उदन्तं च परस्परं वक्ष्यामः / एवं येसार्थेन सहाध्वशीर्षक ग्रामे गताः, ये च न गतास्तेषामिह आभवत्वनाभवति सचित्तादौ विषये मार्गणा वक्ष्यमाणा भवति, तथा तत्रान्यत्र च ग्लाने चतुर्भङ्गी भवति / तद्यथा-अन्यत्राध्वशीर्षके ग्रामे स्थितानांग्लानोनतत्र 1 आचार्यपायें न तेषामिति द्वितीयः। द्वयानामपि पार्चे ग्लान इति तृतीयः।नद्वयानामपीति चतुर्थः। तत्र यद्याचार्यस्तेषां गवेषणं न करोतिमासलघु, अथ ज्ञातेग्लाने तस्य कृत्यकरणाय न यत्नमाधत्ते ततश्चतुर्गुरुकं, यच्चानागाढपरितापनादिनिमित्तं चतुर्लध्वादि यावचरमं पाराञ्चितं तदपि प्राप्नोति / तदेवं प्रथमभङ्गे प्रागभिहितमपि प्रायश्चित्तं विनेयजनानुग्रहाय भूय उक्तम्, एवं द्वितीये तृतीयेऽपि भङ्गे वाच्यम्। संप्रत्याभवत्यनाभवति च सचित्तादौ विषये मार्गणां चिकीर्षुराहपुण्णे व अपुण्णे वा, विपरिणएसु जा हो अणुण्णवणा। गुरुणा वि हु कायव्वा, संका लद्धे विपरिणते उ॥ यतो विदेशेऽपि वा दूरं गन्तुकामाः सङ्केतं कृतवन्तो, यदि वयमेतावद्भिदिवसैन प्रत्यागच्छामस्तदा ज्ञातव्यं गता इति, अन्यथा नेति, तस्मिन्नवधौ पूर्णे अपूर्णे वा यदि ते विपरिणता जातास्ततः पुनरपि तैरवग्रहस्य द्वितीयं वारमनुज्ञापना कर्त्तव्या गुरुणाऽपि, या तेषु तथा विपरिणतेष्वनुज्ञापना भवति सा प्रतिपत्तव्या, यदि पुनरपूर्णेऽवधौ तेषां शैक्षः प्रत्युत्पन्नस्ततो जाता शङ्का, यद्यपूर्णेऽवधावेष समुत्पन्न इति कथयिष्यते तत्र आचार्यस्य भविष्यति, तस्मादाचार्यस्य मा भूदिति प्रत्यागतास्ते आलोचयन्ति, पूर्णे संकेतकाले लब्धोऽयमस्माभिः शैक्ष इति तदा तेषां प्रायश्चित्तं मासगुरु, तस्मात्सत्यभूतेन भावेनाऽsलोचयितव्यम्, तथा पूर्णेऽवधौ शैक्षे लब्धे प्रत्यागत्य तथैवालोचयति, गुरुणाऽपिशङ्का न कर्तव्या, यथा अपरिपूर्णेऽप्यवधौलब्येशैक्षेशैक्षलोभेन विपरिणय इति सत्यभावेनालोचनात् तच परभावोपलक्षकैरे कांशेन ज्ञातव्यमिति तदेवमुपसंपन्नानां यद्वक्तव्यं तदुक्तम्।