________________ चरियापविट्ठ 1156 - अभिधानराजेन्द्रः - भाग 3 चरियापविट्ठ कथमित्याह - अहमवि एहामो वा, अण्णत्थ इहेव मं मिलिज्जाह। अतिदुव्वले य नाउं, विसज्जणा नत्थि इतरेसिं॥ यत्र यूयं गमिष्यथ अहमपि इतः स्थानात् तत्र एष्यामि आगमिष्यामि अथवा-अन्यत्र मम सकाशे आगन्तव्यम्, यदि वा-अत्रैव मा यूयं मिलेयुर्यथा वा यैः संदिश्यते तथा तैःकर्त्तव्यम्, आचार्येणाप्यतिदुब्लान् तान् तेषां विसर्जना मुत्कलेन कर्त्तव्या, इतरेषां निष्कारणं गन्तुमनसां विसर्जना नास्ति। एतेन विरतणमवितरणं च सूत्रोपात्त व्याख्यातम्। तं चेव पुव्वमणियं, आपुच्छणे मास दोबऽणापुच्छा। उवओगें तहिं सुणणा, साहसण्णीगिहत्थेसु॥ यदि निर्गन्तुमनसोऽनापृच्छया व्रजन्ति तदा प्रायश्चित्तं मासलघु, पृच्छायामपि कृतायां यदेव पूर्वभणितं तदेवाधिकृत्य गमनकाले द्वितीयं वारमापृच्छा कर्तव्या। यदि पुनर्द्वितीयं वारं नापृच्छन्ति तदाऽपि प्रायश्चित्तं मासलघु, किं कारणं द्वितीयमपिवारमापृच्छा कर्तव्येति चेत् ?, अत आह-"उवओगे" इत्यादि। यदा पूर्वमापृष्ट तदाऽऽचार्योऽनुपयुक्त आसीत्, पश्चादुपयुक्तो जातः, उपयुक्तेन च तत्राशिवादयो दोषा ज्ञाताः / अथवा(सुणण त्ति) पश्चादाचार्येण विचारादिनिमित्त बहिर्निर्गतेन श्रुतं, यथातत्र बहयो दोषा इति, यदि वा साधुना केनापि संज्ञिना श्रावकेण गृहस्थेन वा, केन या मिथ्यादृष्टिना भद्रकेण कथितमाचार्याणाम्, यथा-तत्र बहवो दोषा इति, तस्मात् द्वितीयवारमवश्यं प्रष्टव्य, पृच्छायां च कृतायां यद्यपि तत्र न केचनापि दोषा आचार्येण विज्ञातास्तथाऽपि तत्र क्षेत्रप्रत्युपेक्षकाः पूर्व प्रेषणीयाः। तथा चाहनाऊण य निग्गमणं, पडिलेहण सुलभ दुल्लभं भिक्खं / जे अगुणा, आपुच्छा, जे वि य दोसा अणापुच्छा।। तेषां साधूनां निर्गमनं ज्ञात्वाऽऽचार्येण साधुभिस्तस्य क्षेत्रस्य प्रतिलेखन कारयितव्यं, येन सुलभं दुर्लभं वा भैक्षं ज्ञायते / किं च ये गुणा द्वितीयवारमापृच्छायां भवन्ति ते प्रतिलेखनेऽपि द्रष्टव्याः, येऽपि च दोषा द्वितीयवारमनापृच्छायां, ते दोसा अप्रत्युपेक्षणेऽपि। केते?, इत्याह - पचंत सावयाई, तेणा दुभिक्ख तावसीतो य। नियगपविट्ठद्धाणा, पप्फुडणा हरियपण्णी य / / प्रत्यन्ताः सीमावर्तिमो म्लेच्छा लोकानामुपप्लवोत्पादनायोत्थिता वर्त्तन्ते, स्वापदानि व्याघ्रादीन्यपान्तराले सन्ति, स्तेना वा शरीरवहारिण उपध्यपहारिणो वा समन्तत उत्थिताः, दुर्भिक्षं वा तत्र जातं० तापस्यो वा प्रचुरास्तत्र भूयस्या ब्रह्मचर्योपद्रवाय प्रभवन्ति, निजका वा अभिनवप्रव्रजितं साधुमुत्प्रव्राजयेयुः, प्रविष्टो वा तत्र कश्चिदुपस्थितः, (उद्धाण त्ति) उद्धसितो वा स कदाचित् दोषो भवेत् (फप्फुडण त्ति) तत्र या वसतिः प्रागासीत् सा केनचिदपनीता स्यात्, (हरितपन्नी यत्ति) तत्र दुर्भिक्षप्रायमतः शाकादिहरितं बाहल्येन भक्ष्यते, तच साधूनामकल्पम् / अथवा-"हरितपण्णी ति" नाम-तत्र देशे केषुचित् गृहेषु राज्ञा दण्ड दत्वा / देवतायै वल्यर्थं पुरुषो मार्यत, स च प्रव्रजितादिर्भिक्षाप्रविष्टः सन् “तत्र गृहस्योपरि आईवृक्षशाखाचिहं क्रियते," तत्रागृहीतसकेतो विनश्यतीति / संप्रति चरिकाप्रविष्टादिसूत्राणां चतुर्णामपि सामान्यतो नियुक्तिमाहअण्णत्थ तत्थ विप्परि-णते य गेलण्णे होइ चउमंगो। फिडियागतागतेसु य, पुण्णा-पुण्णेसु वा दोचं / / अन्यत्र चरिकाप्रवेशे तन्त्र चरिकातो निवृत्तौ विपरिणते विपरिणामे जाते यदाऽऽभवति यच्च न भवति, तेषां तद्वक्तव्यमिति शेषः / तथा : गन्ये भवति चतुर्भङ्गी, तस्यां च चतुर्भङ्गयामगवेषणादौ यदाऽऽभवति प्रायश्चित्तं, तद्वाच्यमित्युपस्कारः। तथा स्फिटिताः त्रिपरिणताः, तेषां गतागतेषु आचार्यस्य समीपमागता इत्येवरूपेषु यावत्तं कालमधिकृताः, तस्मिन् अपूर्णे पूर्ण वा यदि द्वितीयमपि वारम् अवग्रहमनुज्ञापयति ततो यद्विपरिणतैलब्धं तदाचार्यों न लभते, किं तु यदा तेषां तथारूपं चित्तमजायत, यथा-द्वितीयमपि वारमवग्रहमनुज्ञापयामः, ततः प्रभृति यल्लब्धं तदाचार्यस्याऽऽभवति। एष गाथार्थः / साम्प्रतमन्यत्र तत्र वा विपरिणते यत् आभाव्यं तदुपदर्शयतिअवरोपरस्स निस्सं, जइ खलु सुहदुक्खिया करेजाहि। ओहब्भंतर सेहं, लभति गुरू पुणो न लभई य / / यदि चरिकाप्रविष्टा यदि चरिकातो निवृत्ता विपरिणामे किमस्माकमाचार्येण वयमेव परस्परं सुखदुःखनिश्रां कुर्म इत्येवंरूपे जाते अपरस्परस्य परस्परं सुखदुःखितां खलु निश्रां कुर्युः, तदा यावानवधिः कृतस्तस्याभ्यन्तरे तस्मिन्नपूर्णे पूर्ण वा यत् शैक्ष, शैक्षग्रहणमुपलक्षणं शैक्षप्रभृतिकं सचित्तादिकमुत्पादयन्ति तत्तेषामेव भवति, गुरुराचार्यः पुनर्न लभते, चशब्दस्तूचितमर्थ “हटेण" इत्यादिना व्याख्यास्यति / तदेवं तत्रान्यत्र विपरिणते इति भावितम्। इदानीं “गेलण्णे होइ चउभंगो" इति भावयति - गेलण्णे चउभंगो, तेसिं अहवा वि होज्ज आयरिए। दोण्हं पी होजाही, अहव न होञ्जहि दोण्हं पि॥ ग्लान्ये ग्लानत्वे चतुर्भङ्गी भवति। तद्यथा-तेषां विपरिणतानां ग्लानो, नाचार्यस्य इति प्रथमो भङ्गः। अथवा-आचार्ये आचार्यस्य भवतिग्लानो, नतेषामिति द्वितीयः / “दोण्ह पि होज्जाहीति" द्वयानां विपरिणतानामाचार्यस्य भवति ग्लान इति तृतीयः / अथ द्वयानामपि न भवतिम्लान इति चतुर्थः। अत्र प्रायश्चित्तविधिमाह - आयरिऐं अपेसेंते, लहुओ अकरेंते चउ गुरू होंति। परितावणादिदेसा, तेसिं अप्पेसणे एवं / / प्रथमभङ्गे तेषांग्लानो नाचार्यस्येत्येवरूपे, यद्याचार्यों गेवषणयानकमपि साधुसंघाट प्रेषयति प्रायश्चित्तं लघुको मासः। अथ प्रेषणे कृते तैर्वा कथिते यदि ग्लानकृत्यं न किमपि करोति तदा तस्मिन्नकुर्वति चत्वारो गुरुका भवन्ति / येऽपि चानागाढपरितापनादयो दोषास्तन्निमित्तमपि च गुरुलघ्वादि चरमपर्यन्तं तस्य प्रायश्चित्तमापद्यते। द्वितीये भङ्गे आचार्यस्य ग्लानो, न तेषामित्येवंरूपे, तैरपि ग्लानस्य गवेषणाय साधुप्रेषणा