________________ चरियापविट्ठ 1155 - अभिधानराजेन्द्रः - भाग 3 चरियापविट्ठ "पर चउरायपचरायातो" इत्यत्र परमिति व्याख्यानतो विशेषप्रतिपत्तिः। ततोऽयमर्थःपरिणते गच्छान्मया निष्क्रमितव्यमित्येवं परिणते भावे, अत एव गच्छात्परिभूतः सन्चतूरात्रात्पञ्चरात्राद्वा परत आरतो वा स्थविरान् पश्येत्, भावश्च पुनर्गच्छावस्थायितया यदि प्रत्यावृत्तोऽजायत ततः स पुनर्भूयो न चोपसंपदीव तत्प्रथमतयोपसंपदीव तत्र तेषु स्थविरेषु पार्वे आलोचयेत, प्रतिक्रामेच। जइ पुण किंचापण्णो, तस्स उ आलोइउं उवट्ठाति। विप्परिणयम्मि भावे, एमेव अविप्परिणयम्मि।। विपरिणते भावे यदि किञ्चित् प्रायश्चित्तस्थानमापन्नः, तस्य प्रथमत आलोचयितुमालोचनां दातुमाचार्याणामपतिष्ठते, एवमेव अविपरिणतेऽपिद्रष्टव्यम्। किमुक्तं भवति? अविपरिणतेऽपि भावे यदि किञ्चिदापन्नः प्रायश्चित्तस्थानं ततः सूत्राण्यालोचयति, एवमाचार्याणामुपतिष्ठते, ततो विपरिणते अविपरिणते वा भावे प्रायश्चित्तस्थानापत्तावालोचितायामाचार्याय छेदंपरिहार वा प्रयच्छन्ति। तस्य श्रद्धापूर्वक कारणायाभ्युत्तिष्ठति। "भिक्खुभावस्य अट्टाए” इत्यत्र पाठान्तरम्-"भिक्खूउववायरस अट्टाए" इति। तत्रोपपातशब्दव्याख्यानार्थमाहउववाओ निद्देसो, आणा विणओय हों ति एगट्ठा। तस्सट्ठाए पुणरवि, मितोग्गहोवासगाऽणुण्णा।। उपपातो निर्देश आज्ञा विनय इत्येतानि भवन्त्येकार्थानि, ततोऽयमर्थःभिक्षुस्तस्योपपातस्य आज्ञाया अर्थाय करणाय पुनरपि द्वितीयमपि वारं मितावग्रहानुज्ञा / किमुक्तं भवति ? मिता चासावनुज्ञा, एतेन मितावग्रहपदव्याख्यानं कृतम्। मितावग्रहणं सूत्रे मितगमनादीनामुपलक्षणमतस्तदुप दर्शयतिमितगमणचेट्ठणातो, मियभाव मियं च भोयणं भंते ! मज्झ धुवं अणुजाणह, जाय धुवा गच्छमज्जाया / / मितगमनं प्रयोजनवशतः तस्य करणात् मितम् (चिट्ठण त्ति) अवस्थानं से तस्य यत् प्रवृत्ततया विश्रामनिमित्तं, तस्य किथत्कालं भावात्, सितं भाषितं, कार्येसमापतिते तस्यावसरभावात् मितं भोजनम, एककुक्षिपूरणमात्रस्य भगवताऽनुज्ञानात् / भदन्त / परमकल्याणयोगिन् मम ध्रुवमभुजानीत, या च ध्रुवा गच्छमर्यादा, तामप्यनुजानीते, इह ध्रुव नैत्थिकमिति त्रयोऽप्येकार्थाः, तथाऽप्यर्थभेदोऽस्ति, तत्र या धुवा गच्छमर्यादेत्य नेन ध्रुवशब्दार्थो व्याख्यातो, ध्रुवमवश्यकरणीयमिति। संप्रति नियतनैश्चयिकशब्दव्याख्यानार्थमाहनिययं च न हाविस्सं, अहमवि ओहाणिया इजा मेरा। नि, जाव सहाए न लभामि इहावसे ताव।। यावदवधावनिका मर्यादा तावदहमपि नियतं नहापयिष्याम्यवश्यकरणीयम् / किमुक्तंभवति ? नियतमवधावनमर्यादातोऽवश्यमहापनीयमिति। तथा नित्यमिति कोऽर्थः-यावत्सहायान्न लभे तावदिहावसामीति, सहायलाभमर्यादाकमावसनं यावदवश्यमनुष्ठेयं, नित्यमित्यर्थः। अधुना "वेउट्टिय" इत्यस्य भावार्थ कथयति दिवसे दिवसे वेउ-ट्टिया उपक्खे य वंदणादीसु / पट्टवणमादिएसुं, उववायपडिच्छणा बहुधा।। दिवसे दिवसे, प्रतिदविसमित्यर्थः / पक्षे पाक्षिकदिने, चशब्दाचातुर्मासिकदिने, सांवत्सरिकदिने च, वन्दनादिषु, आदिशब्दात क्षामणकादिपरिग्रहः / तथा प्रस्थापनादिषु स्वाध्यायपस्थापनादिषु, अत्रादिशब्दात् उद्देशसमुद्देशादिपरिग्रहः। यद्वहुधा अनेकप्रकारमुपपातप्रतिच्छन्नं तदनुजानीत। सम्प्रति “कायसंफास" इति व्याख्यानार्थमाहअब्भुवगए उ गुरुणा, सिरेण संफुसति तस्स कमजुयलं / कितिकम्ममादिएसु य, नितमर्निते य जे फामा / / अनुज्ञापनायां कृतायां गुरुणाऽभ्युपगते दृष्टः सन् तस्य गुरोः क्रमयुगलमात्मीयेन शिरसा संस्पृशति, प्रणमतीत्यर्थः / तदेवं ततः पश्चात्कायसंस्पर्श कुरुते इति व्याख्येयम् / अथवाऽयमर्थः-ततः पश्चात्कायसंस्पर्शमनुज्ञापयति। तथा चाह-कृतिकर्मादिषु, कृतिकर्म वन्दनकं, विश्रामणादिकं वा, आदिशब्दात्क्षामणादिपरिग्रहः, तेषु कर्तव्येष्वागच्छति गच्छति वा ये स्पर्शाः कायस्पर्शाः तान्, अनुजानीतेति वाक्यशेषः। सम्प्रति यत्पाठान्तरं भिक्खुभावस्सेति तद्व्याख्यानार्थमाहभिक्खूभावो सारण-वारणपडि वोयणा जहा पुट्विं / तह चेव इयाणिं पी, निजतुत्ती सुत्तकासे-सा॥ भिक्षुभावो नाम सारणा, वारणा, प्रतिचोदना / अत्र प्रतिचोदनाग्रहणं चोदनाया उपलक्षणं,तत्र विस्मूतेऽर्थे स्मारणा, अनाचारस्य प्रतिषेधनं वारणा, स्खलितस्य पुनः शिक्षणं वोदगा, पुनः पुनः स्खलितस्य भिष्ठु शिक्षापणं प्रतिचोदना / एताभिर्यथावस्थितो भिक्षुभाव उपजायते, ततः कारणे कार्यापचारादेता एव भिक्षुभाव इत्युक्तं तदर्थायेति / किमुक्तं भवति? यथा पूर्वमेता स्मारणादय आसीरन् तथा इदानीमपि स्युरित्येवमर्थः, तदेवं कृता विषमपदव्याख्या भाष्यकृता, साम्प्रतमेषा वक्ष्यमाणा सूत्रस्य स्पर्शिका नियुक्तिः। तामेव प्रथप्रसाधर्मिकसूत्रविषयामाहआकिणो सो गच्छो, सुहदुक्खपडिच्छएहि सीसेहिं। दुव्वलखमगगिलाणे, निग्गमसंदेसकहणे य॥ बहवः साधर्मिका इच्छेयुरेकतो अभिनिचारिका चरितुमित्युक्तम्। तत्र पर आह-केन कारणे न तेषां निगे मेच्छा ? नियुक्ति कृ दाहसुखदुःखप्रतीच्छिकैः सुखदुःखार्थमुपसंपन्नैः प्रतीच्छिकैः शिष्यैश्च स गच्छ आकीर्णः समाकुलः आकीर्णत्वेन स नगरे स्थितोऽन्यत्र स्थितानामेषणीयभक्तपानासंभवात्, तव च तृतीयस्यां पौरुष्या भिक्षावेला, चिरं च हिण्डितव्यं, धान्याम्लक्षारादिकं च तत्र भैक्षं, तत्रः केचित्साधवो दुर्बला जाताः, क्षपका अपि पारणके प्रायोग्यालाभतो दुर्बला अभवन्, ग्लाना अप्यधुनोत्थिताः सीदन्ति, एतैः कारणैर्निगन्तुमिच्छन्ति / दृष्ट्वा चाचार्य पृच्छन्ति, ते चाचार्येण तान् दुबलान् ज्ञात्वा मुत्कलनीयाः, ये पुनर्निष्कारणं गन्तुकामा आपृच्छन्ति तेन मुत्कलनीयाः, ये चानुज्ञाता व्रजतेति तेषामाचार्यः संदेश कथयति।