________________ चरियापविट्ठ 1154 - अभिधानराजेन्द्रः - भाग 3 चरियापविट्ठ दिषु प्रविष्टास्तेषामेकतम परिगृह्येदमुच्यतेचरिकाप्रविष्टो भिक्षुर्यावत्- | परिमाणावधारणे। ततोऽयमर्थः-एकरात्रं द्विरात्रं त्रिरात्रं चतूरात्रं पञ्चरात्रं यावत् व्याख्यानतो विशेषप्रतिपत्तिरिति द्वितीयं तृतीयमपि पञ्चाहं यावदिति द्रष्टव्यम्, स्थविरान् पश्येत्। कुत्र पश्येदिति चेत् ? उच्यतेअभिनिचारिकां गन्तुमुत्कलोऽपि तेनाचार्येण यत्र संदेशको दत्तः, तत्स्थविरैः सह मिलितानां सैवालोचना तिष्ठति, या अन्यस्मात् गणादागतेनोपसंपद्यमानेन वितीर्णा, तदेव च प्रतिक्रमण, यदवसम्नादागत्य तस्मिन् गच्छे उपसंपन्नेन तस्मात् स्थानात्प्रतिक्रान्तं, सैव चावग्रहणस्य पूर्वाऽनुज्ञापना तिष्ठति, या अन्यस्मात् गणादागतेनोपसंपद्यमानेन साधर्मिकावग्रहस्यानुज्ञापना कृता यथालान्दम्। अपिशब्दोऽत्र संभावने, न केवलं यथाकालं, किन्तु चिरमपि यथाकालं यावत् ततो गच्छात्तस्य भावो न विपरिणमति, तावदवग्रहः, अवग्रहस्य सैव पूर्वाऽनुज्ञापना तिष्ठति / एतचान्तर्दी पकमतो यथालन्दमप्यालोचना प्रतिक्रमणं च द्रष्टव्यम्। व्य०४ उ०। चरियापविढे भिक्खू परं चउराया पंचरायाओ थेरे पासेज्जा, पुणो आलोएज्जा, पुणो पडिक्कमेजा, पुणो य परिहारस्स उवट्ठाएजा, भिक्खुभावस्स अट्ठाए दोच्चं पि उग्गहे अणुण्णवेयव्ये सिया, कप्पइसे एवं वदित्तए अणुजाणहभंते ! मितोग्गहं अहालंदं धुवं णियतं णेच्छइयं विउट्टियं ततो पच्छा कायसंफासं, एवं नियट्टे वि दो गमा।|२०|| चरिकां प्रविष्टो भिक्षु चतूरात्रात अत्रापि व्याख्यानतो विशेषप्रतिपत्तिस्तत इद द्रष्टव्यम-यदितस्य भावो विपरिणतो यथा कोऽत्र स्थास्यति इति, ततश्चतूरात्रात पञ्चरात्राद्वा आरतः परतो वा स्थविरान् पश्येत्, पुनरपि च तस्य भावो जातो-यथा तिष्ठाम्यत्र तत्रैवोपसंपदा, तथा प्रथमोपसंपदीव पुनरालोचयेत् पुनः प्रतिक्रामेत, पुनश्छेदस्य परिहारस्य / वा उपतिष्ठेत् / किमुक्तं भवति-विपरिणते अविपरिणते वा भावे यत् किञ्चित् आपन्नं प्रायश्चित्तस्थानं तस्मिन् आलोचितेय आचार्येण छेदः परिहारो वा निर्दिष्टस्तस्य सम्यकश्रद्धायत्तस्य कारणार्थमभ्युत्तिष्ठेत्, भिक्षुरुपपातस्य आज्ञाया अर्थाय, पाठान्तरं-भिक्षुभावस्य भिक्षुत्वस्या य, मे यथायस्थितं भिक्षुत्वं भूयादित्येवमर्थः / द्वितीयमपि वारमयग्रहोऽनुज्ञातव्यः स्यात् / कथमित्याह-अनुजानीत भदन्त / परमकल्याणयोगिन् मितमवग्रह, अवग्रहग्रहणं गमनादीनामुपलक्षणं, मितं गमनं मितमवस्थानां मितं स्थाननिषीदनत्वग्वर्तनादि अनुजानीत, यथालन्दं यथाकालं ध्रुवं यदव इयं कर्त्तव्यं नियतं यावन्नावधावामि तावदवश्यमहापनीय, नियतं यावत्सहायान्न लभे तावदवश्यमनुष्ठेयमः यथा व्यावृत्तम्। किमुक्तं भवति-व्यावृत्य यबहूधा उपपातप्रतिच्छन्नं तत् अनुजानीत, ततो गुरुणा अभ्युपगते कायस्य क्रमयुगलक्षणस्य शिरसा संस्पर्श करोति / अथवा-कृतिकर्मादिष्वागमने निर्गमने च यः कायसंस्पर्शस्तमप्यनुजानीत, "एवं निय? वि दो गमा" इति। एवमनुना प्रकारेण यथा चरिकाप्रविष्टौ गमावुक्तौ द्वे सूत्रे अभिहिते, तथा चरिकानिवृत्तेऽपि द्वौ गमौ वक्तव्यौ। तौ चैवम् - चरियानियट्टे भिक्खू० जाव चउरायपंचरायातो थेरे पासेजा, स चेव आलोयणा, स चेव पडिक्कमणा, स चेव उग्गहस्स पुव्वाणुण्णवणा चिट्ठति अहालंदमवि उग्गहे / / चरियानियट्टे भिक्खू परं चउरायपंचरायातो घेरे पासेज्जा पुणो आलोइजा, पुणो पडिक्कमेजा, पुणो छेयस्स परिहारस्स वा उवट्ठाएज, मिक्खुभावस्स अट्ठाए दोच्चं पि उग्गहे अणुण्णवेयव्वे सिया, अनुजाणह भंते ! मितोग्गहं अहालंदं धुवं निययं निच्छइयं विउट्टियं ततो पच्छा कायसंफासमिति॥ अस्य च सूत्रद्वयस्याप्यर्थः स एव यश्चरिकाप्रविष्टसूत्रद्वयस्य, यद्येवं किमर्थमनयोरुपादानं, चरिकाप्रविष्टसूत्राभ्यामेव गतार्थत्वात्। तथाहिथैव चरिकाप्रविष्टानां सामाचारी सैव चरिकातो निवृत्तानामपीति / सत्यमेतत्, केवलमनुचारिते निवृत्तसूत्रद्वये यैव चरिकाप्रविष्टना समाचारी सैव चरिकातो निवृत्तानामपीति न लभ्यते, सूत्रेऽनुपात्तत्वात्, किं त्वन्यत्किमपि कल्पते, ततः कल्पनान्तरंमा भूदिति निवृत्तसूत्रद्वयमपि, सूत्रपञ्चकसंक्षेपार्थः। संप्रतिभाष्यकृद्विषमपदविवरणं चिकीर्षुः प्रथमतो यच्चरिकाप्रविष्टाद्यसूत्रेऽभिहितं “जाव चउरायपंचरायतो थेरे पासेज्जा" इति तद्व्याख्यानार्थमाहपंचाहग्गहणं पुण, बलकरणं होइ पंचहि दिणेहिं। एगदुगतिण्णपणगा, आसज्जवलं विभासाए। सूत्रे "जाव चउरायपंचरायाओं" इत्यत्र यत् पञ्चाहग्रहणं पुनर्विशेषतः कृतमाचार्यण, पुनःशब्दो विशेष, ततः पञ्चभिर्दिनैर्बलकरणं भवतीति ज्ञापनार्थम्। उक्तंच-“एगपणगद्धमास, सट्ठीसुणमणुयगोणहत्थीण।" अथ पञ्चभिर्दिनैः कथमपि बलं न भवतीति ततो द्वितीयमपि पञ्चाहं यावत्। तथाचाह-एकद्वित्रिपञ्चकदिवसानां बलमाश्रित्य विषयाविकल्पेन एक वा द्वौ वा त्रीन् वा यावदित्येवंरूपेण, सूत्रे चैवं पञ्चात्रग्रहणमुपलक्षणं व्याख्यानतो विशेषप्रतिपत्तिरतो न भाष्यसूत्रयोर्विरोधः / संप्रति “सचेव आलोयणे" इत्यादिपदव्याख्यानार्थमाह - उपसंपञ्जमाणेन,जा दत्ताऽऽलोयणा पुरा! अवसन्नेहि आगम्म, पडिकंतो उ भावतो।। जा याणुण्णवणा पुव्वं, कया साहम्मिउगहे। संभावणाएँ साऽलंदं, जाभावो अणुवत्तती।। याऽन्यस्माद्गणादागतेनोपसंद्यमानेनाऽऽलोचना पुरा दत्ता च तिष्ठति, यत्र पूर्वमवसत्रेभ्य आगम्य भावतः प्रतिक्रान्तस्तदेव प्रतिक्रमणं तिष्ठति, या च पूर्वनन्यस्मात् गणादागतेन साधर्मिकावग्रहस्यानुज्ञापना कृता सैव तिष्ठति। अहाखंदमवि इत्यत्र योऽपिशब्दः तस्यार्थः-सा च एषा न केवलं तावनतं कालं किं तु चिरमपि कालं, यावज्जीवाऽधिकृतगच्छस्थायितयाऽनुवर्तते तावत् सैवावग्रहस्यानुज्ञापना तिष्ठति / यथालन्दमपि सैवालोचना, तदेव च प्रतिक्रमणमपि द्रष्टव्यम्। अधुना द्वितीये चरिकाप्रविष्टसूत्रे यदुक्तम्-"परं चउरायपंचरायातो" इत्यादि, तद्व्याख्यानार्थमाह - परं परिणते भावे, परिभूतो उ सो पुणो। न चोवसंपयाए व, तत्थाऽऽलोएपडिक्कमे / /