________________ चरम 1135 - अभिधानराजेन्द्रः - भाग 3 चरम व्यवस्थितयोरेवमवगाहते, एकस्मिन्नप्याकाशप्रदेशे त्रयः परमाणयोऽपरस्मिन्नपि त्रय इति, तदा द्विप्रदेशावगाढो द्विप्रदेशकस्यन्धवचरमः, अचरमलक्षणस्तु द्वितीयो भङ्गो न घटते, चरमरहितस्य केवलस्याऽचरमस्याऽसम्भवात्, न खलु प्रान्ताभावे मध्यं भवतीति भावनीयमेतत्, तृतीयोऽवक्तव्यलक्षणः, स चैवम्-यदा षट्प्रदेशात्मकः स्कन्ध एतस्मिन्नाकाशप्रदेशेऽवगाहते तदा परमाणुवचरमाचरमशब्देन व्यवदेष्टुमशक्यत्वादवक्तव्यः, चतुर्थश्चरमाणिति, पञ्चमोऽचरमाणीति, षष्ठोऽवक्तव्यानि इति, पञ्चदशोऽचरमश्चावक्तव्यश्च, षोडशोऽचरमश्चावक्तव्यानि च, सप्तदशोऽचरमाणि चावक्तव्यश्चाष्ट दशोऽचरमाणि चावक्तव्यानि चेत्येते सप्त भङ्गा ओघत एव न संभवन्ति, तथाप्रकाराणां द्रव्याणामेवासम्भवात्। न हि एवं जगति केवलानि चरमादीनि द्रव्याणि सम्भवन्ति, असम्भवश्च प्रागुक्तभावनानुसारेण सुगमत्वात् स्वयं भावनीयः, सप्तमश्चरमश्चाचरमश्चेत्येवं रूपः, एवं यदा स ष्टप्रदेशात्मकः स्कन्धः पञ्चस्वाकाशप्रदेशेष्वेकपरिक्षेपेण व्यवस्थितेष्वेवमवगाहते द्वौ परमाणू मध्यमप्रदेशे एकैकः शेषेषु तदा तेषां चतुर्णा परमाणूनामेकसम्बन्धिपरिणामपरिणतत्वादेकवर्णत्वादेकगन्धत्वादेकरसत्वादेकस्पर्शत्वात् चैकत्वव्यपदेशः, एकत्वव्यपदेशवचरम इति व्यपदेशो, यौ तुद्वौ परमाणू मध्ये तावेकत्वपरिणामपरिणतावित्यचरमः, अष्टमश्चरमश्चाचरमौ च, तत्र यदा स एव षट्प्रदेशात्मकः स्कन्धः षट्सु प्रदेशेषु एक परिक्षेपेणैकाधिकमेवमवगाहते तदा पर्यन्तवर्तिनः परिक्षेपेणावस्थितावश्चत्वारः परमाणवः प्रागुक्तयुक्तरेकश्चरमो द्वौ च मव्यवर्तिनावचरमाविति, अन्ये त्वभिदधतिचतुर्णा परमाणूनां क्षेत्रप्रदेशान्तरव्यवहिताधिकत्वपरिणामो न भवति, तदभावाच नैष भङ्ग उपपद्यते, प्रतिषिद्धश्च सूत्रे, यतो वक्ष्यति-“वि चउत्थ पंचछट्ट" इतिप्राकृतशैल्या "छट्टऽह' इत्येतयोः पदयोर्निदैशः। ततोऽवमर्थः-षष्ठमष्टमं च वर्जयित्वेति, अथ नामैवंरूपोऽपि भङ्गो भवति तदेवं गम्यते-य एकवेष्टकाव्यवधानेन चत्वारः परमाणवः ते तथाविधैकत्वपरिणामपरिणतत्वाञ्चरमः तस्मादधिकोऽपि समश्रेण्यैव प्रतिबद्धत्वान्न तदतिरिक्त इति सोऽपि तस्मिन्नेव चरमे गण्यते इत्येकं चरम, पुनश्च योऽधिकमध्ये व्यवस्थित इति स मध्यवर्तित्वादने कपरिणामित्वाच्च वस्तुनोऽचरमोऽपि, ततोऽचरमावित्यपि भवति, अत्रापि न कश्चिद्विरोधः, तत्त्वं पुनः केवलिनो विदन्ति, नवमश्चरमौ चाचरमश्च, यदा स एव षटप्रदेशकः स्कन्धः त्रिष्वाकाशप्रदेशेषु समश्रेण्या व्यवस्थितेष्वेवमवगाहते एकैकस्मिन्नाकाशप्रदेशे द्वौ 2 परमाणू इति तदाऽऽद्यप्रदेशवर्तिनौ द्वौ 2 परमाणू चरमौ द्वावन्त्यप्रदेशवर्तिनौ चरम इति, चरमौ द्वौ तु मध्यप्रदेशवर्तिनावेकोऽचरम इति, दशमश्चरमौ चाऽचरमौ च। स चैवम्यदा षटप्रदेशकः स्कन्धश्चतुर्वाकाशप्रदेशेषु समश्रेण्या व्यवस्थितेष्वेवमवगाहतेद्वौचाद्ये प्रदेशेद्वौ द्वितीये एकस्तृतीये एकश्चतुर्थे तदाद्वौ परमाणू प्रथमप्रदेशवर्तिनावेकश्चरम एकोऽन्त्यप्रदेशवर्ती चरम इति चरमौ द्वौ परमाणू द्वितीयप्रदेशवर्तिनावेकोऽचरम एकस्तृतीयप्रदेशवर्ती अचरम इत्यचरमावपि द्वौ, एकादशश्चरमश्चावक्तव्यश्च। स चैवम्- यदा स एव षट् प्रदेशात्मकः स्कन्धस्त्रिष्वाकाशप्रदेशेषु समश्रेण्या विश्रेण्या चैवमवगाहते वायाधे प्रदेशे द्वौ समश्रेण्या व्यवस्थिते द्वितीयप्रदेशे द्वा विश्रेणिस्थे तृतीयप्रदेशे तदा द्वितीयप्रदेशावगाहाश्चत्वारः परमाणयः समश्रेणिव्यवस्थितद्विप्रदेशावगाढव्यणुकस्कन्धवदेकश्चरमौ द्वौ च विश्रेणिस्थप्रदेशावगाढौ परमाणुवदेकोऽवक्तव्यः, द्वादशश्चरमश्चावक्तव्यौ च, तत्र यदा स षट्प्रदेशात्मकः स्कन्धश्चतुर्वाकाशप्रदेशेषु समश्रेण्या विश्रेण्या चैवमवगाहते द्वौ परमाणू ग्रथमप्रदेशे द्वौ समश्रेणिव्यवस्थिते द्वितीये प्रदेशे एकरततः परमुपरितृतीयप्रदेशे एकस्याद्यश्चतुर्थे इति तदा चत्वारः परमाणवो, द्विप्रदेशावगाढः पूर्ववदेकश्चरमो, द्वौ च विश्रेणिस्थप्रदेशद्वयावगाढाववक्तव्याविति, त्रयोदशश्चरमौ चावक्तव्यश्च यदास एव षट्प्रदेशकः स्कन्धः पञ्चस्वाकशप्रदेशेषु समश्रेण्या विश्रेण्या चेवमवगाहते द्वौ परमाणू द्वयोराकाशप्रदेशयोः समश्रेणिव्यवस्थितयोः द्वौ तयोरेवाधः समश्रेणिव्यवस्थितयोराकाशप्रदेशयोः श्रेणिद्वयमध्यभागसमश्रेणिस्थे चैकस्मिन्नाकाशप्रदेशे द्वाविति तदा द्विप्रदेशावगाढव्यणुकस्कन्धवदुपरितनद्विप्रदेशावगाढौ द्वौ परमाणू एकश्चरमो द्वाबधःस्तनाविति चरमौ द्वावेकप्रदेशावगाढौ परमाणु वदेकाऽवक्तव्यः, चतुर्दशश्चरमौ चावक्तव्यौ च, तत्र यदा स एव षट्प्रदेशकः स्कन्धः षट्स्वाकाशप्रदेशेषु समश्रेण्या विश्रेण्या चैवमवगाहते द्वौ परमाणू द्वयोराकाशप्रदेशयोः समश्रेण्या व्यवस्थितयोः द्वौ तयोरेवाधः समश्रेणिव्यवस्थितयोराकाशप्रदेशयोरेको विश्रेणिव्ययमध्यभागसमश्रेणिस्थे प्रदेश एक उपरितनयोः द्वयोः विश्रेणिस्थे तदा द्वावुपरितनावेकश्चरमौ द्वावधस्तनाविति चरमौ द्वौ चावक्तव्यकाविति, एकोनविंशतितमश्चरमश्चाचरमश्चावक्तव्यश्च, स चैवम्-यदा स षट्प्रदशकः स्कन्धः षट्वाकाशप्रदेशेषु एकपरिक्षेपेणु विश्रेणिस्थैकाधिकमवगाहते तदा एकवेष्टकाश्चत्वारः परमाणवः, प्रागुक्तयुक्तेरेकश्चरम एकोऽचरमो मध्यवतीं एकोऽवक्तव्यो यश्च विंशतितमश्चरमश्चाऽचरमश्चावक्तव्यौ च स सप्तमप्रदेशस्यैवोपपद्यते, न षट्प्रदेशकस्य, योऽप्येकविंशतितमश्चरमश्चाचरमौ चावक्तव्यश्च सोऽपि सप्तप्रदेशस्यैवोपपद्यते न षट्प्रदेशकस्य, यस्तु द्वाविंशतितमः चरमश्चारमौ चावक्तव्यौ च सोऽष्टप्रदेशकस्यैवेति त्रयोऽत्र्येकोनविंशत्यादयोऽत्र प्रतिषिद्धाः, यश्च त्रयोविंशतितमश्चरमौ चाचरमश्चावक्तव्यः सच एव, यदा स एव षट्प्रदेशकः स्कन्धश्चतुर्वाकाशप्रदेशेष्वेवमवगाहते द्वौ 2 परमाणू द्वयोराकाशप्रदेशयोरेकस्तयोरेव समश्रेणिस्थे तृतीये आकाशप्रदेशे एको विश्रेणिस्थे इति तदा आद्यप्रदेशावगाढौ द्वौ परमाणू चरमस्तृतीयप्रदेशावगाढश्चरमो द्वितीयप्रदेशावगाढौ द्वौ परमाणू चरमो विश्रेणिस्थोऽवक्तव्यः, चतुर्विंशतितमः चरमौ चाचरमश्चावक्तव्यौ च, तत्र यदा स एव षट्प्रदेशात्मकः स्कन्धः पञ्चस्वाकाशप्रदेशेषु समश्रेण्या विश्रेण्या चैवमवगाहते त्रिष्वाकाश्प्रदेशेषु समश्रेण्या व्यवस्थितेष्वाद्ये एको द्वितीये एकस्तृतीये द्वौ द्वयोर्विश्रेणिस्योरेकैक इति तदा आद्यन्तप्रदेशावगाढौ चरमौ मध्यवागाढौ अचरमौ विश्रेणिस्थौ प्रदेशद्वयावगाढौ अवक्तव्यौ पञ्चविंशतितमश्चरमौ चाऽचरमौ चावक्तव्यश्च, यदा स एव षट्प्रदेशा-त्मकः स्कन्धःपञ्चसुप्रदेशेषुसनश्रेण्या विश्रेण्याचैवमवगाहतेचतुर्णा-काशप्रदेशेषु समश्रेणिव्यवस्थितेष्वाद्यप्रदेशत्रये एकैकश्चतुर्थे द्वौ पञ्चमे विश्रेणिस्थे एकः तदा आद्यन्तप्रदेशवर्तिनौ चरमौ मध्यप्रदेशद्वयवर्तिनौ द्वावचरनौ विश्रेणिप्रदेशस्थ एकोऽवक्तव्यः षट्वेिंशतितमः चरमौ चावक्तव्यौ, स