SearchBrowseAboutContactDonate
Page Preview
Page 1157
Loading...
Download File
Download File
Page Text
________________ चरम 1133 - अभिधानराजेन्द्रः - भाग 3 चरम शब्देनेति अवक्तव्यः, शेषास्तुभङ्गाः प्रतिषेध्याः। तथा च वक्ष्यति-"पढमो तइओ यहोइ दुपएसे। अस्यायमर्थःद्विप्रदेशके स्कन्धे प्रथमो भङ्गश्चरम इति तृतीयोऽवक्तव्य इति भवति।शेषास्तु प्रतिषेध्याः, असम्भवात्, स चासम्भवः सुप्रतीत एव। तिपएसिए णं भंते ! खंधे पुच्छा ? गोयमा तिपदेसिए खंधे सिय चरमे नो अचरमे, सिय अवत्तव्वए नो चरमाइं, नो अचरमाई नो अवत्तव्वयाई,नो चरमे य अचरमे य, नो चरमे य अचरमाई, सिय चरमाइं च अचरमे य, नो चरमाइं च अचरमाइं च, सिय चरमे य अवत्तव्वए य, सेसा मंगा पडिसेहेयव्वा।। "तिपएसिए णं भंते ! खंधे" इत्यादि प्रश्नसूत्रं प्राग्वत् / निर्वचनम् - "गोयमा ! सिय चरमे” इत्यादि / इह यदा त्रिप्रदेशिकाः स्कन्धो द्वयोराकाशप्रदेशयोः समश्रेण्या व्यवस्थियोरेवमवगाहो भवति तदाऽसौ चरमःता चरमाचरमत्वभावना द्विप्रदेशिकस्कन्धवद्भानीया, अचरमप्रतिषेधः प्राग्वत्, स्यादवक्तव्य इति, यदा स एव त्रिप्रदेशिक: स्कन्ध एकस्मिन्नाकाशप्रदेशेऽवगाहते तदा परमाणुवत् चरमाचरमव्यपदेशकारणशून्यतया चरमाऽचरमशब्दाभ्यां व्यपदेष्टुमशक्यत्वादवक्तव्यः, चतुर्थादयोऽष्टमपर्यन्ताः प्रतिषेध्याः, असंभवात, असंभवस्तु प्रतीतत्वात् स्वयमुपयुज्य वक्तव्यः, नवमस्तु ग्राह्यः, तथा चाह-(सिय चरमाइ य अचरमे य) प्राकृते द्वित्वेऽपि बहुवचनम्, ततोऽयमर्थः स्यात्कदाचिदयं भङ्गश्चरमोऽचरमश्च, तत्र यदा स त्रिप्रदेशिकः स्कन्धः त्रिष्पाकाशप्रदेशेषु समश्रेण्या व्यवस्थितेष्वेवमवगाहते तदाऽऽदिमान्तिमौ द्वौ परमाणुपर्यन्तवर्तित्वाचरमौ, मध्यमस्तु मध्यवर्तित्वादचरम इति, दशमस्तु प्रतिषेध्यस्कन्धस्य त्रिप्रदेशिकतया चरमाचरमशब्दयोः बहुवचननिमित्तासंभवात्, एकादशस्तु ग्राह्यः, तथा चाह-(सिय चरमे य अक्त्तव्वए य) स्यात्कदाचिदयं भगश्चावक्तव्यश्च, तत्रयदास त्रिप्रदेशिक: समश्रेण्या विश्रेण्या चैवमवगाहते तदा द्वौ परमाणू समश्रेण्या व्यवस्थिताविति द्विप्रदेशावगाढद्विप्रदेशिकस्कन्धवचरमव्यपदेशकारणभावातः चरम एकश्च परमाणुर्विश्रेणिस्थश्चरमाचरमशब्दाभ्यां व्यपदेष्टुमशक्य इत्यवक्तव्यः, शेषास्तुभङ्गाः सर्वेऽपि प्रतिषेध्याः। वक्ष्यति च-“पढमोतइओ नवमो, एक्कारसमोय तिपएसे।" अस्यायमर्थः-त्रिप्रदेशे स्कन्धे प्रथमो भङ्गश्चरम इति, तृतीयोऽवक्तव्य इति, नवमश्चरमौ वाऽचरमश्च, एकादशश्चरमश्चावक्तव्यश्चेति भवति, शेषा भङ्गान घटन्ते। चउप्पएसिए णं भंते ! खंधे पुच्छा? गोयमा ! चउप्पएसिएणं खंधे सिय चरमे नो अचरमे, सिय अवत्तव्यए नो चरमाइं, नो अचरमाइंनो अवत्तव्वयाई, नो चर मे य अचरमे य, नो चरमे य अचरमाइंच, सिय चरमाई अचरमे य, सिय चरमाइंच अचरमाई च, सिय चरमे य अवत्तव्वए य, सिय चरमे य अवत्तव्वयाइंच, नो चरमाइं च अवत्तव्वए य, नो अचरमाई च अवत्तव्ययाई च, नो अचरमे य अवत्तदए य, नो अचरमे य अवत्तव्वयाइं च, नो अचरमाइं च अवत्तव्वएय, नो अचरमाइं च अवत्तव्वयाइंच, नो चरम य अचरमे य अवत्तव्वए य, नो चरमे य अधरमे य अवत्तव्वयाइं च, नो चरमे य अचरमाइंच अवत्तव्वए य, नो चरमे य अचरमाइं च अवत्तव्क्याई च, सिय चरमाइं च अचरमे य अवत्तव्यए य, सेसा भंगा पडिसेहेयव्वा / / “चउप्पएसिएणं भंते ! खंभे" इत्यादि प्रश्नसूत्रं प्राग्वत्। निर्वचनमाह'गोयमा ! सिय चरमे" इत्यादि। अत्र प्रथमतृतीयनवमदशमैकादशद्वादशत्रयोविंशतितमरूपाः सप्त भङ्गाः ग्राह्याः, शेषाः प्रतिषेध्याः, तत्र प्रथमभङ्गो यः स्याचरम इति, इह यदा चतुःप्रदेशिकस्कन्धो द्वयोराकाशप्रदेशयोः समश्रेण्या व्यवस्थितयोरेवमवगाहते तदा चरमः, सा च चरमत्वभावना समश्रेण्या व्यवस्थितद्विप्रदेशावगाढद्विप्रदेशस्कन्धवद्भावनीया, तृतीयो भगः स्यादवक्तव्य इति, स चैवम् -यदा स एव चतुष्प्रदेशकः स्कन्ध एकस्मिन्नाकाशप्रदेशेऽवगाहते तदा परमाणुवत् वक्तव्यः, नवमः स्याचरमौ चाचरमश्च, स चैवम् -यदा सचतुःप्रदेशात्मकस्कन्धस्त्रिष्वाकाशप्रदेशेब्वेवमवगाहते तदा आद्यन्तप्रदेशावगाढौ चरमौ, मध्यप्रदेशावगाढस्त्वचरमः, दशमः स्याचरमौ चाचरमौ च, तत्रयदा स चतुःप्रदेशात्मकः स्कन्धः समश्रेण्या व्यवस्थितेषु चतुर्वाकाशप्रदेशेष्वेवमवगाहतेतदा आद्यन्तद्विप्रदेशावगाढौ द्वौ परमाणू चरमौ, द्वयोस्तु मध्यमयोराकाशप्रदेशयोरवगादौ द्वौ परमाणू अचरमाविति, एकादशः स्याचरमश्चावक्तव्यः, स चैवमयदास चतुः प्रदेशकः स्कन्धः त्रिष्वाकाशप्रदेशेषु समश्रेण्या चैवमवगाहते तदा समश्रेणिव्यवस्थितद्विप्रदेशावगाढास्त्रयः परमाणयो द्विप्रदेशावगाढद्विप्रदेशकस्कन्धवत् चरम एकश्च विश्रेणिस्थः परमाणुरिव चरमाचरमशब्दाभ्यां वयपदेष्टमशक्यत्वादवक्तव्य इति, द्वादशः स्याचरमश्चावक्तव्यौ च, स चैवम्- यदा स चतुःप्रदेशात्मकः स्कन्धश्चतुर्वाकाशप्रदेशेष्वेवमवगाहतेद्वौ परमाणू द्वयोः समश्रेण्यावस्थितयोराकाशप्रदेश यो च परमाणू द्वयोः विश्रेण्या व्यवस्थितयोः तदा द्वौ परमाणू समश्रेण्या व्यवस्थितौ द्विप्रदेशावगाढद्विप्रदेशकस्कन्धवचरमः, द्वौ च परमाणू विश्रेणिव्यवस्थितौ केवलपरमाणुवचरमाचरमशब्दाभ्यां व्यपदेष्टुमशक्यावित्यवक्तव्यौ / त्रयोविंशतितमः स्याचरमौ चाचरमश्चावक्तव्यश्च, कथमिति चेत् ? उच्यते-इह यदा स चतुःप्रदेशकः स्कन्धश्चतुर्खाकाशप्रदेशेववमवगाहते त्रयः परमाणवस्त्रिषु समश्रेण्या व्यवस्थितेष्वाकाशप्रदेशेष्वेको विश्रेणिस्थप्रदेशे तदा त्रिषु परमाणुषु समश्रेणिव्यवस्थितेषु मध्ये आद्यन्तौ परमाणुपर्यन्तवर्तित्वाच्चरमौ, मध्यस्त्वचरमो, विश्रेणिस्थस्त्ववक्तव्य इति। वक्ष्यति च "पढमो तइओ नवमो, दसमो एक्कारसो य वारसमो / भंगा चउप्पएसये, तेवीसइमो य वोधव्वो।।१।।" गतार्था / पंचपदे सिए णं भंते ! खंधे पुच्छा? गोयमा ! पंचपदेसिए खंधे सिय चरमे नो अचरमे, सिय अवत्तव्वए नो चरमाई नो अचरमाइं नो अवत्तव्वयाई,सिय चरमे य अ चरमे य, नो चरमे य अचरमाइं च, सिय चरमाइंच अचरमे य, सिय चरमाइं च अचरमाइं च, सिय चरमे य अवत्तवए
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy