SearchBrowseAboutContactDonate
Page Preview
Page 1156
Loading...
Download File
Download File
Page Text
________________ चरम 1132 - अभिधानराजेन्द्रः - भाग 3 चरम विसेसाहिया इति लोकालोकचरमाचरमान्तप्रदेशेशेभ्यः सर्वद्रव्याणि विशेषाधिकानि, अनन्तानन्तसंख्यानां जीवानां तथा परमाण्वादीनामनन्तपरमाण्वात्मकस्कन्धपर्यान्तानां प्रत्येकाना मनन्तसंख्यानां पृथक् 2 द्रव्यत्वात् तेभ्योऽपि सर्वप्रेदेशा अनन्तगुणाः, तेभ्योऽपि सर्वपर्याया अनन्तगुणाः, प्रतिप्रदेशं स्वपरभेदभिन्नानां पर्यायाणामानन्त्यात्। (6) इदानीं परमाण्वादिकं चिन्तयन्नाह -- परमाणुपोग्गलाणं भंते ! किं चरमे अचरमे अवत्तव्वए चरमाइं अचरमाइं अवत्तव्वयाई 6 उदाहु चरमे य अचरमे य 7 उदाहु चरमे य अचरमाइं८ उदाहु चरमाई अचरमे यह उदाहु चरमाई च अचरमाइंच 10 पढमा चउभगी। उदाहु चरमे य अवत्तव्वए य 11 उदाहु चरमे य अवत्तव्वयाई च 12, उदाहु चरमाई च अवत्तव्वए य 13 उदाहु चरमाइं च अवत्तव्वयाइं च 14 वीया चउभंगी। उदाहु अचरमे य अवत्तव्वए य 15 उदाहु अचरमस्स य अवत्तव्वयाई च 16 उदाहु अचरमाइं च अवत्तव्वए य 17 उदाहु अचरमाइंच अवत्तव्वयाइ च 18 तइया चउभंगी। उदाहु चरमे य अचरमे य अवत्तव्वए य 16 उदाहु चरमे य अचरमे य अवत्तव्वयाइं च 20 छदाहु चरमे य अचरमाइं च अवत्तव्वए य 21 उदाहु चरमे य अचरमाइं च अवत्तव्वयाई च 22 उदाहु चरमाइं अचरमे य अवत्तव्वए य 23 उदाहु चरमाइं अचरमे य अवत्तव्यवाई 24 उदाहु चरमाई च अचरमाई च अवत्तव्वए य 25 उदाहु चरमाइं च अचरमाइ च अवत्तव्वयाइं च 26 एवं छव्वीसभंगा ? गोयमा ! परमाणुपोग्गले नो चरमे नो अचरमे नियमा अवत्तव्वए, सेसा मंगा पडिसेहेयव्वा। तत्र प्रश्नसूत्रे षट्विंशतिभङ्काः, यतस्त्रीणि पदानि चरमाचरभावक्तव्यलक्षणानि, तेषां चैकैकसंयोगे प्रत्येकमेकवचनास्त्रयोभङ्गाः / तद्यथाचरमः १अचरमः २अवक्तव्यकः३। त्रयोबहुवचननेन। तद्यथा-चरमाणि 1 अचरमाणि 2 अवक्तव्यानि 3 / सर्वसंख्यया षट् द्विकसंयोगास्त्रयः। तद्यथा-चरमाचरमपदयोरेकः, चरमाऽवक्तव्यकपदयोर्द्वितीयः, अचरमाऽवक्तव्यकपदयोस्तृतीयः। एकैकस्मिश्चत्वारो भगाः, तत्र प्रथमे द्विकसंयागे एवं चरमश्चाऽचरमश्च १चरमश्चाऽचरमाश्च 2 चरमाश्चारमश्च 3 चरमाश्चाचरमाश्च 4 / एवमेव चतुर्भङ्गी चरमावक्तव्यपदयोः, एवमेव चाचरमावक्तव्यपदयोः, सर्वसंख्याया द्विकसंयोगे द्वादश भङ्गाः त्रिकसयोगे एकवचनबहुवचनाभ्यामष्टी, सर्वसङ्कलनया षड्वंशतिः / अत्र निर्वचनमाह-“गोयमा ! परमाणुपोग्गले नो चरम" इत्यादि। परमाणुपुद्गलश्चरमो न भवति, चरमत्वं ह्य वापेक्ष, न चान्यदपेक्षणीयमस्ति, तस्याविवक्षणान्न च सांशः परमाणुर्ये नांशापेक्षया चरमत्वं प्रकल्पते, निरवयवत्वात्तस्मान्न चरमो नाप्यचरमो निरवयवतया मध्यत्वायोगात्, कित्यवक्तव्यः, चरमाचरमव्यपदेशकारणतः शून्यतया चरमशब्देनाऽचरमशब्देन वा व्यपदेष्टुमशक्यत्वात्, वतुं शक्यं हि वक्त व्यं, यत्तु चरमशब्देन अचरमशब्देन वा स्वस्वनिमित्तशून्यतयावक्तुमशक्यं | तदवक्तव्यमिति, शेषास्तु भङ्गाः प्रतिषेध्याः, परमाणौ तेषामसंभवात्। वक्ष्यति च-"परमाणु म्मि य तइओ" अस्थायमर्थः-परमाणी परमाणुचिन्तायां तृतीयो भङ्गः परिग्राह्यः, शेषा निरवयवत्वेन प्रतिषेध्याः / प्रज्ञा०६ पद। परमाणुपोग्गले णं भंते ! किं अचरिमे ? गोयमा ! दव्वादेसेणं णो चरिमे अचरिमे, खेत्तादेसेणं सिय चारिमे सिय अचरिमे, कालादेसेणं सिय चरिमे, सिय अचरिमे, भावादेसेणं सिय चरिमे सिय अचरिमे॥ “परमाणु" इत्यादि। (चरमे ति) यः परमाणुर्यस्माद्विवक्षित-भावाच्च्युतः सन् पुनस्तंभावनप्राप्स्यति स तद्भावपेक्षया चरमः, एतद्विपरीतस्त्वचरम इति, तत्र (दव्वादेसेणं ति) आदेशः प्रकारो द्रव्यरूप आदेशोद्रव्यादेशस्तेन नो चरमः, सहि द्रव्यतः परमाणुत्वाच्च्युतः संघातमवाप्यापिततश्च्युतः, परमाणुत्वलक्षणं द्रव्यत्वमवाप्स्यति इति (खेत्तादे सेणं ति) क्षेत्रविशेषितत्वलक्षणप्रकारेण स्यात्कदाचिचरमः / कथम्? यत्र क्षेत्र केवली समुद्धातं गतस्तत्र क्षेत्रे यः परमाणुरवगाहोव्सौ तत्र क्षेत्रे तेन केवलिना समुद्धातगतेन विशेषितो न कदाचनाप्यवगाहं लप्स्यते, केवलिनो निवार्णगमनादित्येवं क्षेत्रतश्चरमोऽसाविति / निर्विशेषणक्षेत्रापेक्षया त्वचरमस्त-त्क्षेत्रावगाहस्य तेन लप्स्यमानत्वादिति / (कालोदेसेणं ति) कालविशेषितत्वलक्षणप्रकारेण (सिय चरिमे त्ति) कथञ्चिच्चरमः, कथम् ? यत्र काले पूर्वाह्नादौ केवलिना समुद्धातः कृतस्तत्रैव यः परमाणुः परमाणुतया संवृतः स तं कालविशेष केवलिसमुद्धातविशेषितं न कदाचनापि प्राप्स्यति, तस्य केवलिनः सिद्धिगमनेन पुनः समुदाताभावादिति तदपेक्षया कालतश्चरमोऽसाविति निर्विशेषणकालापेक्षया त्वचग्म इति / (भावाएसेणं ति) भावो वर्णादिविशेषः, तद्विशेषणलक्षणप्रकारेण स्याचरमः, कथम् ? विवक्षितकेवलिसमुद्धातावसरे यः पुदगलो वर्णादिभावविशेष परिणतः स विवक्षितकेवलिसमुद्धातविशेषितवर्णपरिणामापेक्षया चरमो यस्मात् तत्केवलिनिर्वाणे पुनस्तं परिणाममसौ न प्राप्स्यतीति, इदं च व्याख्यानं चूर्णिकारमतमुपजीव्य कृतमिति। भ०१४ श०५ उ०। दुपदेसिए णं भंते ! खंधे पुच्छा ? गोयमा ! दुपदेसिए खंधे सिय चरमे नो अचररमे, सिय अवत्तव्वए, सेसा भंगा पडिसेहेयव्वा॥ "दुपएसिएणं भंते!" इत्यादि प्रश्नसूत्र प्राग्वत्। निर्वचनमाह- "गोयमा ! सिय चरमेनो अचरमे, सिय अवत्तव्वए" इत्यादि द्विप्रदेशकः स्कन्धः स्यात् कदाचित् चरमः / कथमिति चेत्? उच्यते-इह यदा द्विप्रदेशकः स्कन्धो द्वयोराकाशप्रदेशयोरवगाढो भवति समश्रेण्या व्यवस्थितया, तदा एकोऽपि परमाणुरपरपरमाण्वपेक्षया चरमोऽपरोऽप्यपरपरमाण्वपेक्षया चरम इति चरमः, अचरमस्तु न भवति, सर्वद्रव्याणामपि केवलाचरमत्वस्यायोगात् / यदा तु स एव द्विप्रदेशिकः स्कन्धः एकस्मिन्नाकाशप्रदेशे अवगाहते, तदा स तथाविधैकत्यपरिमाणपरिणततया परमाणुवत् चरमाचरमव्य - पदेशकारणशून्यत्वान्न चरमशब्देन व्यपदेष्टुं शक्यते, नाप्यचरम
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy