SearchBrowseAboutContactDonate
Page Preview
Page 1155
Loading...
Download File
Download File
Page Text
________________ चरम 1131 - अभिधानराजेन्द्रः - भाग 3 चरम स्यैकस्यापि चरमखण्डसमुदायापेक्षया क्षेत्रतोऽसंख्ययगुणत्वात्, चरमान्तप्रदेशा अचरमान्तप्रदेशाश्च द्वयेऽपि समुदिता अचरमान्तप्रदेशेभ्यो विशेषाधिकाः / कथमिति चेत् ? उच्यते-चर-मान्तप्रदेशा अचरमान्तप्रदेशापेक्षया असंख्येयभागप्रमाणाः, ततोऽचरमान्तप्रदेशेषु चरमान्तप्रदेशप्रक्षेपेऽपि ते अचरमान्तप्रदेशेभ्यो विशेषाधिका एव भवन्ति द्रव्यार्थप्रदेशार्थचिन्तायाम्, (अचरमं चरमाणि य दो वि विसेसाहियाई चरमंतपएसा असंखेजगुणा इति) अचरमचरमसमुदायाचरमान्तप्रदेशा असंख्येयगुणाः। कथम् ? उच्यते-इह यदचरमखण्डतदसंख्येयप्रदेशावगाहमपि द्रव्यार्थतया एकं चरमेषु पुनः खण्डेषु प्रत्येकमसंख्येयाः प्रदेशास्ततो भवन्ति चरमाचरमद्रव्यसमुदायादसंख्येगुणाश्चरमान्तप्रदेशास्तेभ्योऽप्यचरमान्तप्रदेशा असंख्येयगुणास्तेभ्योऽपि चरमाचरमप्रदेशाः समुदिता विशेषधिका इति पूर्ववत्। अलोगस्स णं भंते ! अचरमस्स य चरमाण य चरमंतपदेसाण य अचरमंतपदेसाण य दव्वट्ठयाए पदेसट्ठयाए दवट्ठपदेसट्टयाए कयरे, कयरेहिंतो अप्पा वा०४? गोयमा! सव्वत्थोवे अलोगस्स दव्वट्ठयाए एगे अचरमेचरमाइंअसंखेज्जगुणाई अचरममचरमाणि य दो वि विसेसाहियाइं पदेसट्टयाए सव्वत्थोवा; अलोगस्स चरमंतपदेसा अचरमं तपदेसा अणंतगुणा चरसंतपदेसा य अचरमंतपदेसा य दो वि विसे साहिया दवट्ठपदेसट्टयाए सव्वत्थोवे; अलोगस्स दवट्ठायाए एगे अचरंमे चरमाई असंखेज्जगुणाई अचरमं च चरमाणि य दो वि विसेसाहियाई चरमंतपदेसा असंखेजगुणा अचरमंतपदेसा अणंतगुणा चरमंतपदेसा य अचरमंतपदेसा य दो वि विसेसाहिया। प्रदेशार्थचिन्तायां सर्वस्तोका अलोकस्य चरमान्तप्रदेशाः, लोकनिकुटेष्वेवान्तस्तेषां भावात्, तेभ्योऽचरमान्तप्रदेशा अनन्तगुणाः, अलोकस्यानन्तत्वात्। चरमान्तप्रदेशा अचरमान्तप्रदेशाश्च समुदिता विशेषाधिकाः, चरमान्तप्रदेशा ह्यचरमान्तप्रदेशापेक्षया अनन्तभागकल्पाः, ततस्तेषामचरमान्तप्रदेशराशौ प्रेक्षेपेऽपि तेऽचरमान्तप्रदेशेभ्यो विशेषाधिका एव भवन्ति। (5) सम्प्रति लोकालोकविषयं प्रश्नसूत्रमाह - लोगालोगस्सणं भंते ! अचरमस्सय चरमाण य चरमरुपदेसाण य अचरमंतपदेसाण य दव्वट्ठयाए पदेसट्ठयाए दव्वट्ठपदेसट्ठयाए कयरे, कयरेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ? गोयमा ! सव्वत्थोवे लोगालोगस्स दवट्ठयाए एगमेगे अचरमे, लोगस्स चरमाइं असंखेजगुणाई, अलोगस्स चरमाइं विसेसाहियाई, लोगस्स अलोगस्स य अचरमं च चरमाणि य दो वि विसेसाहियाइं पदेसद्वयाए सव्वत्थोवा, लोगस्स चरमंतपदेसा, अलोगस्स चरमंतपदेसा विसेसाहिया, लोगस्स अचरमंतपदेसा असंखिजगुणा, अलोगस्स अचरमंतपदेसा अणंतगुणा,लोगस्सय अलोगस्सय चरमंतपदेसाय अचरमंत पदेसा य दो वि विसेसाहिया दव्वट्ठपदेसट्टयाए सव्वत्थोवे, लोगालोगस्स दवट्ठयाए एगमेगे अचरमे, लोगस्स चरमाई असंखेज्जगुणाई, अलोगस्स चरमाइं विसेसाहियाई, लोगस्स य अलोगस्स य अचरमं च चरमाणि य दो वि विसोसाहियाई, लोगस्स चरमंतपदेसा असंखेजगुणा, अलोगस्स चरमंतपदेसा विसेसाहिया, लोगस्स अचरमंतपदेसा असंखेज्जगुणा, अलोगस्स अचरमंतपदेसा अणंतगुणा, लोगस्स य अलोगस्स य चरमंतपदेसाय अचरमंतपदेसायदो विविसेसाहिया सव्वदव्वा विसेसाहिया सव्वपदेसा अणंतगुणा सव्वपज्जवा अणंतगुणा। प्रश्नसूत्रं सुगमम् निर्वचनमाह-“गोयमा" इत्यादि / गौतम ! लोकस्य अलोकस्य च यत् एकैकं अचरमखण्ड तत् स्तोकमेकत्वात्, तेभ्यो लोकस्य चरमखण्डद्रघ्याण्यसंख्येयगुणानि तेषामसंख्यत्वात्. तेभ्योऽप्यलोकस्य चरमखण्डानि विशेषाधिकानि / कथमिति चेत् ? उच्यते-इह यद्यपि लोकस्य चरमखण्डानि तत्त्वतोऽसंख्येयानि तथापि प्रागुपदर्शितपृथ्वीन्यासपरिकल्पनया तान्यष्टौ परिकल्पन्ते / तद्यथाएकैकं चतसृषु दिक्षु एकैकं च विदिक्ष्विति अलोकचरमखण्डानि च तन्न्यासपरिकल्पनया परिगण्यमानानिद्वादशातद्यथा-एकैकं चतसषदिक्षु द्वे द्वे विदिक्ष्विति द्वादश चाष्टभ्यो न द्विगुणानि त्रिगुणानि च, किंतु विशेषाधिकानि, तेभ्योऽलोकस्य चरमखण्डेभ्यो लोकस्य चरमाचरमखण्डानि, अलोकस्य चरमाचरमखण्डानि समुदितानि विशेषाधिकानि। तथाहि-लोकस्य चरमखण्डानि प्रागुक्तपरिकल्पनया अष्टावेकमचरममित्युभयमीलनेन च अलोकस्याऽपि चरमाचरमखण्डानि समुदितानि त्रयोदश, उभयेषामेकत्र मीलनेन द्वाविंशतिः सा च द्वादशभ्यो न द्विगुणा नापि त्रिगुणा, किं तु विशेषाधिकेति, अलोकस्य चरमखण्डेभ्यो लोकालोकचरमाचरमखण्डानि समुदितानि विशेषाधिकानि, प्रदेशार्थताचिन्तायां सर्वस्तोका लोकस्य चरमान्तप्रदेशाः, अष्टखण्डसत्कानामेव प्रदेशानां भावात् / तेभ्योऽलोकस्य चरमान्तप्रदेशा विशेषाधिकाः, तेभ्योऽलोकस्याचरमान्तप्रदेशा असंख्येयगुणाः, क्षेत्रस्यातिप्रभूततया तत्प्रदेशानामप्यतिप्रभूतत्वाभावात्। तेभ्योऽप्यलोकस्याचरमान्तप्रदेशा अनन्तगुणाः, क्षेत्रस्यानन्तगुणत्वात्, तेभ्योऽपि लोकस्य चरमान्तप्रदेशा अचरमान्तप्रदेशा अलोकस्यापि चरमान्तप्रदेशा अचरमान्तप्रदेशाः समुदिता विशेषाधिकाः / कथमिति चेत् ?, उच्यते-इह अलोकरयाचरमान्तप्रदेशराशौ लोकस्य चरमाचरमान्तप्रदेशा अलोकस्य चरमान्तप्रदेशाश्च, प्रक्षिप्यन्तेतेचसर्वसंख्ययाऽप्यसंख्येयाश्चानन्तराश्यपेक्षयाsतिस्तोका इति प्रक्षेपेऽपि ते अलोकस्याचरमान्तप्रदेशेभ्यो विशेषाधिका एव / एतदनुसारेण द्रव्यार्थप्रदेशार्थचिन्तासूत्रमपि स्वयं परिभाववनीयम्, नवरं लोकालोकचरमाचरमखण्डेभ्यो लोकस्य चरमान्तप्रदेशा असंख्येयगुणा इति लोकस्य किल चरमाणि खण्डान्यष्टौ एकैकस्मिश्च खण्डदेशे खण्डप्रदेशा असंख्येयलोकालोकचरमाचरमखण्डानि च समुदितानि द्वाविंशतिः ततो घटन्ते लोकालोकचरमाचरमखण्डेभ्यो लोकस्य चरमान्तप्रदेशा अअसंख्येयगुणाः शेषपदभावना प्राग्वत् (सव्वदव्वा)
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy