________________ चरम 1130- अभिधानराजेन्द्रः - भाग 3 चरम विमाणाणं एवं चेव, इसीप्पन्भाराए एवं चेव, लोगे वि एवं चेव, एवं अलोगे वि। "इमा णं भंते ! रयणप्पभा पुढवी किं चरमा" इत्यादि पृच्छा ? अथकेयं चरमाचरमपरिभाषा ? उच्यते-चरमं नाम पर्यन्तवर्ति, तच्चरमत्यमापेक्षिकमन्यापेक्षया तस्य भावात्। यथा पूर्वशरीरापेक्षया चरमं शरीरमिति, अचरममप्रान्तं मध्यवर्ति इतियावत्, तदपि चापेक्षिकं, तस्य चरमापेक्षया भावात्। यथा तथाविधान्यशरीरापे-क्षया मध्यशरीरमचरमशरीरं तदेव चरमाचरमेत्येकवचनान्तः प्रश्नः कृतः / सम्प्रति बहुवचनान्तमाह(चरमाई अचरमाई ति) एतानि चत्वारि प्रश्नसूत्राणि तथाविधैकत्वपरिणामविशिष्टद्रव्यविषयाणि कृतानि / संप्रति प्रदेशानधिकृत्य प्रश्नसूत्रद्वयमाह-(चरमंतपएसा य इति) चरमाण्यवान्तर्वर्तित्वात् अन्ताश्चरमान्तप्रदेशाः / अचरममेव कस्याप्यपेक्षयाऽनन्तवर्तित्वादन्तोऽवरमान्तप्रदेशाः / तदेवं षट्सु प्रश्नेषु कृतेषु भगवानाह-गौतम ! सा रत्नप्रभा पृथिवी नो चरमा, चरमत्वं ह्यापेक्षिकमित्युक्त, न चात्रान्यदपेक्षणीयमस्ति, केवलाया एव तदन्यनिरपेक्षायाः स्पृष्टत्वात्, नाप्यचरमा, तत एव हेतोः, तथा ह्यचरमत्वमपि आपेक्षिकं, न चात्रान्यदपेक्षणीयमस्तीति / किमुक्तं भवति? इयं रत्नप्रभा पृथिवी न पश्चिमा, नापि मध्यमा, तदन्यस्यापेक्षणीयस्याविवक्षणादिति / अत एव न चरमाणि, चरमत्वव्यपदेशस्यैवाऽसम्भवः, तद्विषयबहुवचनासम्भवात् / तथाहि-यदा तस्याश्चरमत्वव्यपदेश एवोक्तयुक्तेनोपद्यते, तदा कथं तद्विषयं बहुवचनमुपपत्तुमर्हतीति, एवमचरमाण्यपि प्रतिषेधनीयानि, प्रागुक्तयुक्तेरचरमत्वव्यपदेशस्यासंभवात्, न चरमान्तप्रदेशा नाप्यचरमान्त प्रदेशाः,उक्तयुक्त्या चरमत्वस्याचरमत्वस्य चाऽसम्भवतस्तत्प्रदेशकल्पनाया अप्यसम्भवात्। यद्येवं तर्हि किंस्वरूपा सेत्यत्र आह-नियमान्नियमेनाचरमं चरमाणि च / किमुक्तं भवति ? यदीयमखण्डरूपा विवक्षितत्वात् पृज्यते तदा यथोक्तभङ्गानामेकेनापि भङ्गेन व्यपदेशो न भवति, यदा त्वसंख्येयप्रदेशावगाढेत्यनेकावयवविभागात्मिका विवक्ष्यते तदा यथोक्तनिर्वचनविषया भवति / तथाहिरत्नप्रभापृथिव्या यानि प्रान्तेष्ववस्थितानि खण्डानि प्रत्येक तथाविधविशिष्ट-कत्वपरिणामपरिणतानि चरमाणि 1 यत्पुनर्मध्ये महद्रत्नप्रभायाः खण्डं तत्तथाविधैकत्वपरिणामयुक्तत्वादेकत्वेन विवक्षितमित्यचरमम् 2, उभयसमुदायरूपा चेयम्, अन्यथा तदभावप्रसङ्गात् / तदेवमवयवावयविरूपतया चिन्तायामचरमचरमाणि चेत्यखण्डैकनिर्वचनविषया प्रतिपादिता, यदा पुनः प्रदेशचिन्ता क्रियते तदैवं निर्वचनम्, चरमान्तप्रदेशाश्च, अचरमान्तप्रदेशाश्च। तथाहि-ये बाह्यखण्डेषु गताः प्रदेशास्ते चरमान्तप्रदेशाः ये पुनर्मध्यैकखण्डगताः प्रदेशास्तेऽचरमान्तप्रदेशाः। अन्ये तुव्याचक्षतेचरमाणि नाम तथाविधप्रविष्टेतरप्रान्तकप्रादेशिकीश्रेणिपटलरूपाणि मध्यभागोऽचरम इति / तदपि समीचीनम्, दोषाभावात्। चरमान्तप्रदेशा यथोक्तरूपप्रान्तकप्रादेशिक श्रेणिपटलगताः प्रदेशा अचरमान्तप्रदेशा मध्यभागगताः प्रदेशाः / अनेन निर्वचनसूत्रेण एकान्तदुर्नयप्रधानेन अवयवावयविरूपं रत्नप्रभादिकं वस्तु, तयोश्चावयवावयविनोर्भेदाभेद इत्यावेदित, तथा चावयवायविरू-पतायां परोक्तदूषणावकाशः / तथा धर्मसंग्रहणीटीकायां बाह्यवस्तु-प्रतिष्ठावसरं प्रतिपादितमिति ततोऽवधार्यम् / एवं “जाव अहे सत्तमाए पुढवीए " इत्यादि / यथा रत्नप्रभा पृथिवी प्रश्ननिर्वचनाभ्यामुक्ता, एवं शर्कराद्या अपि पृथिव्यः, सौधर्मादीनि च विमानानि अनुत्तरविमानपर्यवसानानि, ईषत्प्रागभारालोकश्च वक्तव्यः, सूत्रपाठोऽपि सुगमत्वात् स्वयं परिभावनीयः। स चैवं-“सकरप्पभाए णं भंते ! पुढवी किं चरमा, अचरमा, चरमाणि, अचरमाणि" इत्यादि। (एवमलोके वि इति) एवमुक्तेन प्रकारेणालोकोऽपि वक्तव्यः / स चैवम्-"अलोए णं भंते ! किंचरमे अचरमे" इत्यादि प्रश्नसूत्रतथैवा निर्वचनसूत्रं- "गोयमा ! अचरमे चरमाणि व चरमंतपएसा य अचरमंतपएसा य" / तत् चरमाणि यानि लोकनिष्कुटेषु प्रविष्टानि, शेषमन्यसर्वमचरमं, चरमखण्डगताः प्रदेशाश्चरमान्तप्रदेशाः, अचरमखण्डगताः प्रदेशा अचरमप्रदेशाः प्रज्ञा०१ पद / भ०। (4) सम्प्रत्येतेषु रत्नप्रभादिषु प्रत्येकं चरमाचरमादिगत मल्पबहुत्वमभिधित्सुरिदमाह - इमीसे णं भंते ! रयणप्पभाए पुढवीए अचरमस्स य चरमाण य चरमंतपदेसाण य अचरमंतपरदेसाण य दव्वट्ठयाए पदेसट्ठयाए दवट्ठपदेसट्टयाए कयरे, कयरेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ? गोयमा ! सव्वत्थोवे इमीसे रयणप्पमाए पुढवीए दव्वट्ठयाए एगे अचरमे चरमाइं असंखेजगुणाई अचरम चरमाणि य दो वि विसेसाहियाए पदेसट्टयाए सव्वत्थोवा, इमीसे रयणप्पभाए पुढवीए चरमंतपदेसा अचरमंतपदेसा, अचरमंतपदेसा असंखेजगुणा, चरमंतपदेसा य अचरमंतदेसा य दो वि विसेसाहिया दव्वट्ठपदेसट्ठयाए सव्वत्थोवे, इमीसे रयणप्पभाए पुढवीए दव्वट्ठयाए एगे अचरमे चरमाइं असंखेज्जगुणाई अचरम चरमाणि य दो वि विसेसाहियाई चरमंतपदेसा असंखेनगुणा अचरमंतपदेसा असंखेनगुणा चरमंतपदेसा य अचरमंतपदेसा यदो वि विसेसादिया एवं० जाव अहे सत्तमा सोहम्मस्स० जाव लोगस्स य एवं चेव। "इमी से णं भंते ! रयणप्पभाए पुढवीए अचरमस्स य चरमाणं" इत्यादि प्रश्नसूत्रं सुगमम्। निर्वचनसूत्रे सर्वस्तोकं द्रव्यार्थतया अस्या रत्नप्रभायाः पृथिव्या अचरमखण्डम्। कस्मादितिचेदत आह-एके 'निमित्तकारणहेतुषु सर्वासां विभक्तीनां प्रायोदर्शनम्' इति न्यायादव हे तो प्रथमा / ततोऽयमर्थे:यस्मात्तथाविधैक स्कन्धपरिणामपरिणतत्वादेकं ततः स्तोकतस्मात् यानि चरमाणि खण्डानि तान्यसंख्येयगुणानि, तेषामसंख्यातत्वात्, अथाचरमं चरमाणि समुदितानि चरमाणां तुल्यानि विशेषाधिकानि चेति शङ्कायामाह-अचरम चरमाणि च समुदितानि विशेषधिकानि। तथाहि-यदचरमद्रव्यं तचरमद्रव्येषु प्रक्षिप्ते ततश्चरमेभ्य एकोनाधिकत्वाद्विशेषाधिकसमुदायो भवति, प्रदेशार्थत्वचिन्तायां सर्वस्तोकाश्चरमान्तप्रदेशाः, वतश्चमखण्डानिमध्यखण्डापेक्षयाऽतिसूक्ष्माणि, ततस्तेषामसंख्येयानामपि ये प्रदेशास्ते मध्यखण्डगतप्रदेशापेक्षया सर्वस्तोकाः, तेभ्यो अचरमप्रदेश असंख्येयगुणाः, अचरमखण्ड