________________ १998-अभिधानराजेन्द्रः - भाग 3 प्नुवन्ति सा आत्मविराधना, भारश्च मार्गे गच्छन्तीनां तस्य महान् भवति, भयं च स्तेनादिभ्यस्तद्विषयं भवति भुक्तभोगिनीनां च स्मृतिकरणम्, इतरासां तु कौतुकमुपजायते, ततश्च प्रतिगमन भूयोऽपि गृहवासाश्रयणम्, आदिशब्दादन्यतीर्थिकगमनादि वा कुर्युः / ___ अथैनामेव नियुक्तिगाथां व्याख्यानयति - तसपाणविराहणया, चम्मसलोमे तु होति अहिकरणं / निल्लामे तसपाणग, कुंथुयमाणे य करणं वा / / सलोमनिचर्मणि संसक्तानांकुन्थुभृतीनां त्रसप्राणिनां विराधना भवति, तवातिरिक्तोपकरणत्वादधिकरणं भवति, निर्लोमन्यपि चर्मणि परिभुज्यमाने त्रसप्राणिनो विराध्यन्ते कुन्थुमति च तस्मिन् करणं पादकर्म संयती कुर्यात्। अविदिण्णोवधि पाणा, पडिलेहा वि य ण सुज्झति सलोमे। वासासु य संसजति, पतावमवतावणे दोसा / / तीर्थकरैरवितीर्णोऽदत्तोऽयं सलोमचर्मलक्षण उपधिः, शुषिरतया च तत्र सीमान्तरेषु प्राणिनः संमूर्छन्ति, प्रत्युपेक्षणाऽपिच न शुद्ध्यति, वर्षासुच कुन्थुपनकादिभिः तचर्म संसज्जयते, यदि संसज्जनभयात्प्रतापयति ततोऽग्निविराधना, अथ न प्रतापयति ततः त्रसप्राणिनः संसञ्जन्ति, एवमुभयथाऽपि दोषा भवन्ति। आगंतुतदुब्भूया सत्ता, सुसिरे वि गिण्हितुं दुक्खं / अह उज्झति तो मरणं, सलोमणिल्लोमचम्मेऽयं / / आगन्तुकास्तदुद्भूताश्च कुन्थुपनकादयः सत्त्वाः अशुषिरेऽपि ग्रहीतुं दुःखेन शक्यन्ते, किं पुनः शुषिरे सलोमचर्मणि, ततो यत्तेषां भूयोभूयः संघट्यमानानां परितापनं तन्निष्पन्नं प्रायश्चित्तम्, अथ तद्भयवान् जन्तूनुज्झति ततस्तेषां मरणं भवेत् ततः सलोमचर्माश्रित्योक्तम्। अथ सलोमनिर्लोम्नोरुभयोरपि दोषा उच्यन्ते - भारो भय परितावण, मारण अहिकरणमेव अविदिन्नं / तित्थयरगणहरेहिं, सतिकरणं भुत्तभोगीणं / / सलोम्ना निर्लोम्ना वा चर्मणा मार्गे गच्छन्तीनां भारो भयं चोत्पद्यते, परितापनं मारणं वा भवति / अथैतद्दोषभयात् परित्यजति, ततोऽसंयतैगृहीते अधिकरणम्, तीर्थकरगणधरैश्चावितीर्णोऽदत्तोऽयमुपधिः सलोमनि च कुन्थुपनकादि जीवानां परिभुज्यमाने स्मृतिकरणं भुक्तभोगिनीनाम्, इतरासा कौतुकुपजायते। कथमित्याह - जइ ता अचेतणम्मि, अइणे फरिसो उ एरिसो होति। केरिस सचेयणम्मी, पुरिसे फरिसो उगमणादी। यदि तावदचेतने अजिने चर्मणि ईदृशः स्पर्श ततः किं पुनः सचेतनस्य पुरुषस्य स्पर्शो भवति, एवं विचिन्त्य काचिदार्यिका गमनमवधावनं कुर्यात्, आदिशब्दाद् विहायसमरण वा प्रतिपद्यते। द्वितीयपदमाह विइयपऍ कारणम्मी, चम्मुटवलणे तु होति निल्लोमं / आगाढकारणम्मी, चम्मसलोमम्मि जयणाए। द्वितीयपदे कारणे चर्मापि गृण्हीयात्, कथमित्याह-उद्वलनमभ्यगन करयाश्चिदार्यिकायाः कर्तव्यं, तदर्थं निलाम चर्म गृह्यते / अथागाह कारणं, ततः सलोमचर्मणोऽपि यतनया परिभोगः कर्तव्य इति। अथैनामेव नियुक्तिगाथां विवृणोतिउनुम्मि वायम्मि धणुग्गहे वा, अरिसाणि मूले व विमोइतव्वे / एगंगसव्वंगगए व वाते, अभिंगिता चिट्ठति चम्मलोमे / / यस्याः संयत्याः प्राचुर्येणोद्धेवात उच्छलति, धनुहोऽपि वातविशेषो, यः शरीरं कुब्जीकरोति, स वा यस्या अजनिष्ट, अर्शा सिवा संजातानि, शूलं वा अभीक्षण मुद्धावति, पाणिपादाद्यङ्ग विमोचितं स्वस्थानाचलितम्, एकाऽङ्गतो वा सर्वाङ्गतो वा कस्याश्चिद् वातः समुत्पन्नः, सा निर्लोमचर्मणि अभ्यङ्गिता तिष्ठति। अथ सलोमविषयं विधिमाहतरच्छुचम्म अणिलामयस्स, कडिं व वेति जहिं व वातो। एरंडऽणेरंड सुणेण डकं, वेति ठायंति व दीविचम्मे / / अनिलमयीं वातरोगिणीं तरक्षुचर्मणा वेष्टयन्ति, यत्र वा हस्तादो वातो भवति तं वेष्टयन्ति.एरण्डेन वा हडिक्कितेन वा अनेरण्डेन वा, शुनाऽऽदिदष्टानां वा चर्मणा वेष्टयन्ति, द्वीपिचर्माणि वातान् स्थापयन्ति। पुया व धस्संति अणत्थरम्मि, पासा व घस्संति व थेरियाए। लोहारमादी दिवसोवभुत्ते, लोमाणि काउं अह संपिहंति।। स्थाविरायाः संयत्या अनास्तृते प्रासादे उपविशन्त्याः पुतौ घृष्येते, सुप्ताया वा पावलं घृष्येते, ततः सलो मधर्मापि, यदि च सा लोहकारदिभिरुपविशद्भिरुपभुक्तं तत्प्रातिहारिक दिने दिने मार्गेऽपि लोमान्यधः कृत्वा संपिदधति, परिभुञ्जते इत्यर्थः। दिवसे दिवसे य दुल्लभ, उच्चत्तं घेत्तुं तमाइणं / लोमेहि णं संविओअए, मउअट्ठा च न ते समुद्धरे।। अथ प्रातिहारिकं दिवसे दिवसे गवेष्यमाणं दुर्लभ, न लभ्यते इत्यर्थः / तत उच्चत्वेन ‘णमिति' तदजिनं गृहीत्वा रोमभिः संवियो-जयेत्, रोमाण्युच्छुभेदिति भावः। अथ तेषु स्थानेषु नतदजिनपरुषस्पर्श भवति ततो मृद्वर्थ न तानि रोमाणि समुद्धरेत्॥ वृ०३उ०|| जे मिक्खूसलोमाई चम्माई धारेइ, धरतं वा साइज्जइ / / 5 / / सह लोमेहि सलोमं अहिलेइ, नाम ममेमं ति जो गिण्हइ, तस्स चउलहुँ। चम्मम्मि सलोमम्मी, ठाणणिसीयणतुयट्टणादीणि। जे भिक्खू तेगिच्छा, सो पावति आणमादीणि / / 21 / / सलोमे चम्मे जो ठाणं चेव त्ति करे णिसीयइ तुयट्टइवा, सो आणादिदोसे पावति, इमं व से पच्छित्तं / नि० चू०१२ उ०॥ कप्पइ निग्गंथाणं सलोमाइंचम्माई अहिद्वित्तए, से विपरिभुत्ते, नो चेव णं अपरिभुत्ते, से वि य परिहारिए, नो चेव णं अपडिहारिए, से विय एगराईए, नो चेवणं अणेगराईए।