________________ चमरचंचा 1118 - अभिधानराजेन्द्रः - भाग 3 चम्म अण्णत्थ पुण वसहिं उर्वति, ते तेणढेणं० जाव आवासे / / सुधर्माद्याः पञ्चेह सभा न वाच्याः, कियडूरं यावदियमिह चमरचज्चाराजधानीवक्तव्यता भणितव्येत्याह-(जाव चत्तारि पासायपंतीओ त्ति) ताश्च प्रारदर्शिता एवेति (उवगारियलेणाइ व ति) औपकरिकलयनानि प्रासादादिपीठकल्पानि (उज्जाणियले णाति व त्ति) उद्यानगतजनानामुपकारकगृहाणि नगरप्रवेशगृहाणि वा (निजाणियलेणाति व ति) नगरनिर्गमगृहाणि / (धारवारियलेणाति व त्ति) धाराप्रधानं वारि जलं येषु तानि धारावारिकाणि तानि च तानि लयनानि चेति वाक्यम्। [आसयंतित्ति] आश्रयन्ते ईषद्भजन्ते (सयंति त्ति) श्रयन्ते अनीषद्भजन्ते / अथवा-(आसयंति ति) ईषत्स्वपन्ति (सयंति) अनीषत्स्वपन्ति (जहा रायप्पसेणइज्जे त्ति) अनेन यत्सूचित तदिदम्'चिट्ठति' ऊर्धास्थानेन तेषु तिष्ठन्ति 'निसीयंति' उपविशन्ति 'तुयद्दति' निषण्णा आसते 'हसति' परिहास कुर्वन्ति 'रमंति' अक्षादिना रतिं कुर्वन्ति (ललंति) ईप्सितक्रियाविशेषान् कुर्वन्ति 'कीलति' कामक्रीडां कुर्वन्ति। 'किट्टति' अन्तर्भूतकारितार्थत्वादन्यान् क्रीडयन्ति / 'मोहयंति' मोहन निधुवनं विदधति "पुरा पोराणाणं सुनिन्नाणं सुपरकताणं सुभाणं कडाणं ति” व्याख्या चास्य प्राग्वदिति / (वसहिं उति त्ति) वासमुपयान्ति “एवामेव" इत्यादि / एवमेव मनुष्याणामौपकारिकादिलयनवच्चमरस्स चमरचञ्चावासो न निवासस्थानं केवलं, किन्तु (किडारतिपत्तियं ति) क्रीडायां रतिरानन्दः कीडारतिः। अथवा-क्रीडा चरतिश्च क्रीडारती, सा ते वा प्रत्ययो निमित्तं यत्र तत्क्रीडारतिप्रत्ययं, तत्रागच्छतीति शेषः / भ०१३ श०६ उ०। द्वी०। तत्र सभाःचमरचंचाए णं राजधाणीए पंच सभाओ पन्नत्ता। तं जहा-सभा सुहम्मा उववायसभा अभिसे यसभा आलंकारियसभा ववसायसभा। चमरचञ्चारत्नप्रभापृथिव्यां चमरस्यासुरकुमारराजस्येति सुधर्मासभा यस्यां शय्या, उपपातसभा यस्यामुत्पद्यते, अभिषेकसभा यस्यां राज्याभिषेकेणाभिषिच्यते, अलङ्कारिका यस्यामलङ्क्रियते, व्यवसायसभा यत्र पुस्तकयाचनतो व्यवसायं तत्त्वनिश्चयं करोति, एताश्च यथाक्रममुत्तरपूर्वस्यां द्रष्टव्या इति। स्था०५ ठा०३ उ०। चमरस्सणं असुरिंदस्स असुररण्णो चमरचंचाए रायहाणीए एक्कमेक्कवाराए तेत्तीसं 2 भोमा पण्णत्ता।। (तेत्तीस भोम ति) भौमानि नगराकाराणि, विशिष्टस्थानानीत्यन्ये / स०३३ सम०। तत्रोपपातविहार :चमरचंचा णं रायहाणी उक्कोसेणं छम्मासा विरहिया उववाएणां / / "चमरचंचेत्यादि” चमरस्य दाक्षिणात्यस्थासुरनिकायनायकस्य, चञ्चा चञ्चास्या नगरी चमरचञ्चा, या हि जम्बूद्वीपे मन्दरस्य पर्वतस्य दक्षिणेन तिर्यगसंख्येयान द्वीपसमुद्रान व्यतिव्रज्यारुणवरद्वीपस्य बाह्याद्वेदि कान्तादरुणोदं समुद्रं द्विचत्वारिंशद्योजनसहस्राण्यवगाह्य चमरस्यासुरराजस्य तिगिच्छिकूटो नाम य उत्पातपर्वतोऽस्ति सप्तदशैकविंशत्युत्तराणि योजनशतान्युचः, तस्य दक्षिणेन षड्योजनकोटिशतानि साधिकान्यरुणोदे समुद्रे तिर्यग्व्यतिव्रज्याधो रत्नप्रभायाः पृथिव्याश्चत्वारिंशद्योजनसहस्राण्यवगाह्य व्यवस्थिता जम्बूद्वीपप्रमाणा चं, सा चमरचञ्चा राजधानी उत्कृष्टे न षण्मासान् विरहिता वियुक्तां उपपातेन, इहोत्पद्यमानदेवानां षड्मासान् यावत् विरहो भवतीति भावः / स्था०६ ठा। चमरपच्छिमसरीर न० (चमरपश्चिमशरीर)। चमराणां गोविशेषाणां पश्चिमशरीरम् देहपश्चाद्भागः / चामरे, प्रश्न०४ आश्र० द्वार / चमरुप्पाय पुं० (चमरोत्पात)। चमरस्यासुरराजस्योत्पतने ऊर्द्धगमने, स्था०१० ठा० / (स च 'अच्छर' शब्दे प्रथमभागे 200 पृष्ठे उक्तः / चमरशब्देऽस्मिन्नेव भागे 1113 पृष्ठे चोक्तः) चमस पुं० (चमस)। दर्विकायाम्, औ०। चमू स्त्री० (चमू)। सेनायाम्, आ० म० द्वि० / ज्ञा० / चम्म न० (चर्मन्) / वृत्तौ, धा०। सलोमकृत्स्नचर्मग्रहणम्। (वृ०) नो कप्पइ निग्गंथीणं सलोमाइं चम्माई अहिहित्तए। नो कल्पते निर्ग्रन्थीनां सलोमानि चर्माणि अधिष्ठातुं, निषदनादिना परिभोक्तमिति सूत्रार्थः। अथ भाष्यविस्तरःचम्मम्मि सलोमम्मी,णिग्गंथीणं उदेसमाणीणं / चउगुरुगाऽऽयरियादी, तत्थ वि आणादिणो दोसा।। सलोमनि चर्मणि निर्ग्रन्थीनामुपविशन्तीनां चतुर्गुरुकाः। अत एवाचार्य एतत्सूत्र प्रवर्तिन्या न कथयति चतुर्गरवः, प्रवर्तिनी अमणीनां न कथयति चतुर्गुरुकाः, श्रमण्यो न प्रतिश्रृण्वन्ति मासलघु, तत्राप्यकथने अश्रवणे सलोमचर्मोपवेशने वाऽऽज्ञाद्रयो दोषाः। अथानन्तरोक्तमेव प्रायश्चित्तं विशेषयन्नाहगहणे चिढ़े णिसीयणे, तुयट्टणे च गुरुगा सलोमम्मि। णिल्लोमे चउगुरुगा, समणीणारोवणा चम्मे॥ सलोमचर्मणो ग्रहणं कुर्वन्ति चतुर्गुरु, कालेन च लघवः, गृहीत्वा तत्र स्थानरूपं कुर्वन्ति चतुर्गुरुकाः, तपसा लघवः, कालेन गुरवः, निषदनं कुर्वन्ति चतुर्गुरुकाः, तपसा गुरवः, कालेन लघवः, त्वग्वर्तनं कुर्वन्ति तपसा कालेन च गुरवः, निर्लोमचर्मणि तु चतुर्ल घुकाः, एवमेव चतुर्यु स्थानेषु तएः कालविशेषिता एषा श्रमणीनां चर्मणि चर्मविषयाऽऽरोपणा मन्तव्या। अत्र दोषान् दर्शयतिकुंथुपणगाइ संजमे, कंटगअहिविच्छुगाइ आयाए। भारो भय भुत्तियरे, पडिगमणाई सलोमम्मि / / सलो चर्मणि कुन्थुपनकादयो वर्षासु संमूर्छ ये युः, तेषु स्थाननिषदनादिना विराध्यमानेषु संयमविराधना, कण्ट के न, अहिना, वृश्चिकादिना वा तत्रोपविष्टाः सुप्ता वा यदुपघातमा