________________ चम्म 1120- अभिधानराजेन्द्रः - भाग 3 चम्म कल्पते निर्ग्रन्थानां सलोमानि चर्माणि अधिष्ठातुं परिभोक्तुं, तत्रापि यत् चर्म परिभोक्तुं तदेव ग्राह्य नोऽपरिभुक्तं, तदपि च प्रातिहारिक, नोऽप्रातिहारिकं, तदपि चैकरात्रिकं, नैवानेकरात्रिकमिति सूत्रार्थः / एतन्निग्रन्थानामवपवादसूत्रम्। अथ शिष्यः ग्राह-निर्ग्रन्थानां किं कारण न कल्पते ? सूरिराहदोसा उजे होति तवस्सिणीणं, लोमाइणे ते ण जजीण तम्मि / तं कप्पती तेसि सुतोवदोसा, जं कप्पती तासि ण तं जतीणं / / ये दोषाः स्मृतिकरणादयस्तपस्विनीनां लोमयुक्ते अजिने चर्मपि भवन्ति, ते यतीनां तस्मिन् सलोमचर्मणि न भवन्ति / अतस्तत्कल्पते तेषां श्रुतोपदेशात्प्रस्तुतसूत्रवचनात्, यन्त्र निर्लाम चर्म तासां कल्पते, न तद्यतीनां, स्मृतिकरणादिदोवप्रसङ्गादिति, सलोमापि चर्म निर्ग्रन्थानामुत्सर्गतो न कल्पते। यत आह - निग्गंथाण सलोम, ण कप्पती सुसिर तं तु पंचविहं / पोत्थग तण दूसं तं, दुविहं चम्मं पि पणगं च / / सलोमधर्म निर्ग्रन्थानां न कल्पते शुषिरं जीवाश्रयस्थानमिति कृत्वा / बृ०३ उ०। अत्र परः प्राह - दिट्ठा सलोमें दोसा, णिल्लोमं णाम कप्पती घेत्तुं / गेण्हणि गुरुगा पडिले-हपणगतसपाणसतिकरणं / / सलोमचर्मणि यतो दोषा दृष्टा अतो निर्ग्रन्थानां निर्लोमचर्म नामेति संभावयामः कल्पते ग्रहीतुम्। सूरिराह-यदि निर्लोमचर्मणो ग्रहणं करोति ततश्चतुर्गुरुकाः, यत्सूत्रप्रत्युपेक्षणा न शुद्ध्यति, पनकत्रसप्राणिनो वा संमूर्छ न्ति, सुकु मारतया भुक्तभोगिनां स्मृतिक रणं भवति, अभुक्तभोगिनस्तु कौतुकम्। इदमेव स्पष्टयतिभुत्तस्स सतीकरणं, सरिसं इत्थीण एय फासेणं / जति ता अचेयणम्मि, फासो किमु चेयणे इतरे / / भुक्तभोगिनः स्मृतिकरणं भवति-अहो ! स्त्रीणां संबन्धी यःस्पर्शोऽस्माभिरनुभूतपूर्वः तेन सदृशमेतचाप्येतादृशसुखस्पर्शोऽनुभूयते। किं पुनः सचेनतने इतरस्मिन् स्त्रीशरीरे भविता, एवं विचिन्त्य प्रतिगमनादीनि कुर्युः, यत एते दोषा अतो निर्लोम गृहीतुंन कल्पते, तर्हि मा कल्पता, यत्तु सलोमकं तत्तावदेतत्सूत्रेणानुज्ञातं, भवद्भिस्तु तदपि प्रतिषिद्ध, तदेतत् कथमिति? अत्रोच्यतेसुत्तनिवाओ वुड्डे, गिलाण ताइवसभुत्त जतणाए। आगाढे च गिलाणे, मक्खण घट्टे भिन्ने अरिसीओ। सूत्रनिपातो वृद्धे ग्लाने वा भवति, वृद्धस्य ग्लानस्य वा सरुपस्पर्शमसहिष्णोरास्तरणार्थ सलोम चर्म ग्राह्यमिति भावः। तच तदिवसभुक्तं, | कुम्भकारादिभिस्तस्मिन्नेव दिवसे परिभुक्तम्, तत्र हि वसादयः प्राणिनो न भवति, तच गृहीत्वा यतनया रोमाण्युपरिकृत्वा परिभोक्तव्यम्, आगाढे चग्लानत्वे यत्तैत्नेव भ्रक्षण तदर्थं, यस्य वा गुदादिपाश्र्वाणि घृष्टानि, यो वा साधुभिंन्नकुष्ठी, यस्य वा अर्शासि समुद्भूतानि तदर्थ वा निर्लोम चर्म ग्रहीतव्यमिति संग्रहगाथासमासार्थः। अथैनामेव विवृणोतिसंथारह गिलाणे, अनिलादी चम्म घेप्पति सलोमं। वुड्डाऽसहवालाण व, अत्थरणट्ठा वि एमेव / / ग्लानस्य संस्तारकार्यम् अनिलादिसंबन्धि सलोम चर्म गृह्यते, वृद्धाऽसहिष्णुबालानामप्यास्तरणार्थमेवमेव सलोम चर्म ग्राह्यम्। तच कीदृशमित्याह - कुभारलोहकारे-हिं दिवसमलिय भुत्तं तसविहूणं / उवरि लोडे काउं, सोत्तुं गोसे तमत्थें ति // कुम्भकारलोहकारादिभिः स्वस्वकर्मकुर्वाणयदिवसतो मलितं परिभुक्त तत् त्रसविहीनं भवति। अतः संध्यासमये तेषां तत्प्रतिहारिक गृहीत्वा लोमाण्युपरि कृत्वा रात्रौ तत्र सुप्त्वा 'गोसे' प्रभाते प्रत्यर्थयन्ति। अवताणगादि णिल्लो-म तेल्ल चमट्ट घेप्पती चम्म। घट्ठा व जस्स पासा, गलंतकोढेऽरिसासुं वा / / अवयाणादितैलेन वा ग्लानस्याभ्यङ्गे विधातव्ये निर्लोम चर्म ग्रहीतव्यम्, अध्वानादौ वा चार्थम्, यस्य वा पाणि घृष्टानि तस्यास्तरणार्थ, यो वा गलत्कुष्ठः साधुस्तस्य परिधानार्थमास्तर-णार्थ वा, अर्शासि वा यस्य समुत्पन्नानितस्योपवेशनार्थं निर्लोम चर्म गृह्यते। सोणिय पूयालित्ते, दुक्खं धुवणा दिणे चीरे। कच्छुल्ले किमिभिल्ले, छप्पतिगिल्ले व णिल्लोमं // शोणितेन पूयेन वा आलिप्तस्य चीवरस्य दिने धुवना दुष्करा, अतः कच्छूवतः किट्टिभवतश्च निर्लोम चर्म कल्पते / कच्छू पामा, किटिभं शरीरैकदेशभावी कुष्ठभेदः, तथा यस्य षट्पदिका प्राचुर्येण समूर्च्छति स षट्पदिकावान् निर्लाम चर्म परिधानं ग्रहाति। जह कारणे निल्लोमं, तु कप्पती तह भवेज इयरं पि। आगाढि सलोमं आ-दि काउ जा पोत्थए गहणं / / यथा कारणे निर्लोम चर्म कल्पते तथा इतरदपि शुषिरमपि ग्रहीतुं कल्पते / किंबहुना ? आगाढे कारणे सलोम चर्म आदौ कृत्वा पश्चानुपूर्व्या तावन्नेतव्यं यावत्पुस्तकस्याऽपि ग्रहणं कर्तव्यम्। एतदेव स्पष्टयतिभत्तपरिन्नगिलाणे, कुसमाहि खराऽसती तु झुसिरा वि। अप्पडिले हिय दूसा-ऽसती तु पच्छा तण्ण होति। भक्तपरिज्ञावतः प्रतिपन्नानशनस्य, तथा ग्लानस्यास्तरणार्थ कुशादीन्यशुषिरतृणानि गृह्यन्ते, अथ तानि खराणि कर्क शानि नवानि प्राप्यन्ते, ततः शुषिराण्यपि तृणानि गृहीतव्यानि / अथाभक्तप्रत्याख्यानिनो ग्लानस्य वा सुखशयनार्थ प्रथमतोऽप्रत्युपेक्ष्य दूष्यम् उपधानं तूलादि ग्रहीतव्यं, तदभावे यथाक्रमम