________________ चक्खिदिय 1105 - अभिधानराजेन्द्रः - भाग 3 चक्खिदिय अथाऽनुरक्तस्तस्यां स,तद्वेश्मासन्नमापणम्। गृहीत्वाऽऽवर्जयद्राज्ञी-वर्ग समर्घ्यदानतः॥५॥ अथैकदाच पप्रच्छ, चेटीर्गन्धपुटीरिमाः। कश्छोटयति ताः स्माहुः, स्वयं नः स्वामिनीत्यथ / / 6 / / कस्तूरिकाक्षरैलेखं, लिखित्वा भूर्जपत्रके। क्षिप्त्वैकरया गन्धपुट्याः, मध्ये चेट्याः समार्पयत्।।७।। सचायम्काले प्रसुप्तस्य जनार्दनस्य, मेघान्धकारासु च शर्वरीषु। मिथ्या न जल्पामि विशालनेत्रे, ते प्रत्ययार्थं प्रथमाक्षरेषु / / 8 / / छोटयित्वा पुटं मध्या-तं लेखं देव्यवाचयत्। अचिन्तयच धिग्भोगान्, मसिलेखमथालिखत्॥६॥ सचायम्नेहलोके सुखं किञ्चि-च्छादितस्यांहसा भृशम्। मितं च जीवित लोके, तेन धर्मे मतिं कुरु // 10 // पूर्ववत् प्रथमाक्षरैरेवोत्तरमा तदैव च तथा कृत्वाऽ-प्रेयश्च्चेटीकरे पुटीम्। न बन्धुरा इमे गन्धाः , इत्युदित्वाऽपयेरिमाम्॥११॥ अर्पितायां गन्धपुट्यां चेट्याऽऽख्याते च वाचिके। पुटीमाच्छोट्य लेखस्थं, लेखार्थमवधार्य सः॥१२॥ भग्नाशः खेदमेंदस्वी, निर्ययौ संहताऽऽपणः। तदाऽऽप्तिचिन्तोपायार्थी , भ्रमन राज्यान्तरं गतः // 13 // एतं श्लोकं तत्राोषीत् -- न शक्यं त्वरमाणेन, प्राप्तुमर्थान् सुदुर्लभान्। भार्यां च रूपसंपन्न, शत्रूणां च पराजयम् / / 14 / / अत्र च दृष्टान्तःवसन्तपुरमित्यास्ते, पुरं सुरपुरात्प्रति। श्रावको जिनदत्तोऽभू-त्तत्र सार्थपतेः सुतः॥१५॥ पुर्यासितश्च चम्पाया-मीश्वरः सार्थपो धनः। अस्त्याश्चर्यद्वयं तस्य, यन्न भूतं न भावि च / / 16 / / चतुरब्धिसारभूता, विमला मुक्तावलीगुणैः कलिता। अकलितमूल्यविशेषा, सकलकलाकुशलमतिरपि च / / 17|| हारप्रभा च कन्यास्ति, तद्रूपादिगुणस्तुतौ। स्याद्वागीशोऽप्यवागीशः, स्वयं वागप्यवागिव / / 18| जिनदत्तस्तदाका -ऽनुरक्तस्तामथाचत। श्रावकोऽयमिति ददौ, मिथ्यादृष्टिर्न तस्य सः 1116 / / चट्टवेषः स्वयं चम्पा-मेकाकी संययौ ततः। एकस्तत्रास्त्युपाध्यायः, तं विद्यार्थी त्युपस्थितः॥२०॥ उपाध्यायोऽवदद्भद्र ! पाठयिष्याम्यहं परम्। मद्गृहे भोजनं नास्ति, दुभिक्षं चास्ति संप्रति / / 21 / / धनश्च दत्ते भौताना, ततः सोऽगात्तदन्तिके। देहि विद्यार्थिनो मेऽन्नं, सोऽवदद्दास्यते पठ।।२२।। तेनोद्दिष्टा सुताऽमुष्मै, ददीथा नित्यं भोजनम्। स दध्यौ चिन्तितं जातं, सक्तुमध्येऽलुठद्घृतम्॥२३॥ फलाद्युपाचरत्तस्याः,उपचारं न साऽग्रहीत्। अथावसरमासाद्य, सोऽत्वरस्तां वशेऽनयत्॥२४॥ अथ सा तद्गुणै रक्ता, तमुवाच पलाय्यते। तेनोक्तं नोचितमिदं, त्वमुन्मत्ताऽधुना भव / / 2 / / सा तयाऽभूततः पित्रा-5ऽहूता मान्त्रिकतान्त्रिकाः। सर्वानवर्जयत्तीव्र० तां तेऽसाध्येत्यथाऽत्यजन्॥२६।। अथाधृतिः पिता मुह्य, चट्टस्तं स्माह मा मुह। क्रमागतास्ति मे विद्या, सर्व सेत्स्यत्यदस्तया // 27 // दुष्करस्तूपचारोऽस्याः, श्रेष्ठ्यूचे सुकरो मम। आख्यचट्टोऽथ कार्येऽत्र, चत्वारो ब्रह्मचारिणः // 28 // आनेयास्ते कुशुद्धाश्चे-त्तदा कार्य न सेत्स्यति। तेषां भवत्यनर्थश्च, तान् भौतषर्निथानयत् / / 26 / / आनायितास्तथा, योधाश्चत्वारः शब्दबेधिनः। दिक्पालाः स्थापितास्तेऽय, लिखित्वा तत्र मण्डलम् // 30 // उक्ताश्च ते मनाग वेध्याः, शिवाशब्दो भवेद्यतः। भौताश्चोच्यन्त कुर्वीध्वं, हुं फट् कृते शिवारुतम्॥३१॥ त्वं रोषेण धुतेनैव, तिष्ठेरूचेचकन्यका। कृते तथैव भूतास्ते, विद्या नाभूत्पटुः सुता // 32 // तदा धनस्य वैराग्य-मजायत तपस्विषु। चट्टेनोक्तं मयाऽनाणि, सिद्धि ब्रह्मचारिभिः // 33 // ऊचे धनोऽधुना कः स्या-दुपायश्चट्ट ऊचिवान्। शोध्या ब्रह्मभृतः क्वापि, श्रृणु तेषां च लक्षणम्॥३४॥ भवन्त्येवंविधाः श्रेष्ठिन, मुनयो ब्रह्मचारिणः / येच सत्यादिका गुप्तीः पालयन्ति सदा नव // 35|| अथदर्शनिनः सर्वान, श्रेष्ठी प्रश्नं स पृष्टवान्। ब्रह्मगुप्तीन कोऽप्याख्य-दाख्यन् श्वेताम्बराः पुनः / / 36 / / वसतिः कथासनाक्षे, कुड्यन्तरपुरा रते। प्रणीतात्यसने भूषा, नवैता ब्रह्मगुप्तयः / / 37|| श्रेष्ठी तानाह मे कार्य , गृहेऽस्ति ब्रह्मचारिभिः / ऊचुस्ते गृहिणां कार्य, विधातुं कल्पते न नः॥३८॥ लब्धा ब्रह्मभृतश्चट्ट!, कार्य नेच्छन्ति ते पुनः। सोऽभ्यधादीदृशा एव, भवन्ति मुनयो धन ! // 36 // विमुक्तलोकव्यापाराः, एषां नामापि सिद्धिकृत् / मण्डलं पुनरालिख्य, दिक्पाला विनिवेशिताः // 40 // न्यस्तानि साधुनाभानि, चक्रे पूजां यथाविधि। न शिवाकूजितं जातं, जाता श्रेष्ठिसुता पटुः // 41 // धनोऽथ साधुमाहात्म्य-ज्ञानात् सुश्रावकोऽभवत्। चट्टो धर्मोपकारीति, दत्ते द्वे अपि तस्य ते॥४२॥ एवं स्थैर्यादुपायेन, प्राप रूपवर्ती प्रियाम्। इति श्रुत्वेभ्यसूर्देशे, तदुपायं च सोऽप्यगात्॥४३॥ विद्यासिद्धा दण्डरक्षा-करास्तिष्ठन्ति तत्रच। तस्य ते सेवया तुष्टाः, स्माहुरस्मत्किमीहसे? // 44 // ऊचे मे घट्यतां देवी, जगुस्ते घटयिष्यते। तैस्तस्याथ समं राइया, मेलोपायो व्यचिन्त्यसौ॥४५|| साऽपवादा नृपत्यक्ता, मिलत्येषाऽस्य नान्यथा। विकुर्विताऽथ तैर्मारि-मर्तु लग्नो घनोजनः / / 4 / / अथारक्षा नृपेणोक्ताः, मारिर्विज्ञाय कथ्यताम्। वासवेश्मनि तैर्देव्यो, विद्ययाऽथ विकुर्विताः।।४७॥ मनुष्यहस्तपादांशाः, देव्यास्यं च सलोहितम्। तैरुक्तं देव ! गहे स्वे-ऽन्वेष्या मारिः परत्र न॥४८॥ राज्ञाऽन्विष्टा च दृष्टा चा-ऽऽदिष्टास्तेऽथ यथा रहः / स्वगृहे मण्डलं कृत्वा,नीत्या तत्र निगृह्यताम्॥४६॥ नीता तैरथ सातत्र, रात्रावध्यास्य मण्डलम्। हन्तुं प्रचक्रमे याव-दिभ्यसूस्तावदाययौ // 50 //