________________ चंदसिरी 1066 - अमिधानराजेन्द्रः - भाग 3 चंदायण तरि, आ०५०१ अ०। पूर्वभवे चन्द्रस्याग्रमहिष्या मातरि, ज्ञा०२ श्रु०१ अ०॥ चंदसूरदंसावणिया स्त्री०-(चन्द्रसूर्यदर्शनिका)। सद्योजातस्य बालस्य तृतीये दिवसे क्रियमाणे चन्द्रसूर्यदर्शनाभिधे उत्सवविशेषे, भ०११ उ०। ज्ञा०। (चंददरिसणिया' शब्दे 1071 पृष्ठे तविधिः) चंदसूरपासणिया-स्त्री०-(चन्द्रसूर्यदशर्निका)। अन्वर्थानुसारिणि सद्यो बालस्य तृतीयदिवसोन्सवे विपा०१ श्रु०२ अ०। चंदसूरि-पुं०-(चन्द्रसूरि)। आर्यवज्रस्वामिशिष्यश्रीवज़सेनसूरीणा शिष्ये, यतश्चन्द्रकुलं विनिर्गतम् / “श्रीवज्रसेनसञ्झस्तत्पदपूर्वाद्रिचूलिकाऽऽदित्यः / मूल चान्द्रकुलस्याजनि च ततश्चन्द्रसूरिगुरुः" ||१||ग०४ अधिः / स च वैक्रमसंवत्सराणां द्वितीयशतकेऽभूवदिति पट्टावलिकादर्शनात् प्रतीयते / निरयावलिकानां श्रुतस्कन्धस्य विवरणकर्तरि, सच "वसुलोचनरविवर्षे , श्रीमच्छ्री चन्द्रसूरिभिर्दब्धा। आभडवसाकवसतौ, निरयावलिशास्त्रवृत्तिरियम् / / 1 / / " इति (नि०५ वर्ग) 1228 वैक्रमवर्षे आतीसत्। निशीथाध्ययनस्य विंशतितमोद्देशसत्कसूत्राणां विशेषव्याख्याकृति श्रीशीलभद्रसूरीणां शिष्ये च / (स च / "श्रीशीलभद्रसूरीणां, शिष्यैः श्रीचन्द्रसूरिभिः / विककोद्देशे व्याख्या, दृब्धा स्वपरहे तवे / / वेदाश्वरुद्रयुक्ते, विक्रमसंवत्सरे तु मृगशीर्षे / माघसितद्वादश्यां, समर्थितेयं रवौ वारे // 2 // " इति स्वोल्लेखात् वैक्रमसंवत् 1174 वर्षे जज्ञे, इति निरयावलिकानिशीथाध्ययनयोरके एव व्याख्यकृत् इति प्रतीयते, उभयत्र दृब्धेतिपदप्रयोगात्, चतुः पञ्चाशद् वर्षाण्यन्तरं दीर्घायुषः कथञ्चित्सम्भवत्येव।) अयञ्च मलधार्यभबदेवशिष्यहेमचन्द्रसूरिशिष्यविजयसिंहसूरिशिष्योऽभवदिति, तत्कृतसंग्रहणीरत्रग्रन्थोक्तेः, अनेनावश्यके प्रदेशव्याख्या नाम टिप्पनकमापि कृतमस्ति, विक्रमसंवत् 1222 वर्षे तृतीयोऽपि चन्द्रसूरिः पाक्षिकसूत्रटीकाकारकस्य यशोदेवसूरेः शिष्य आसीत्। जै० इ०। चंदसूरोतरण-न०-(चन्द्रसूर्यावतरण) समवसरणभूमौ श्रीवीर स्वामिवन्दनार्थं सविमानयोश्चन्द्रसूर्ययोरवतरणे, कल्प०५ क्षण / विपा० / नि०। (तद्वक्तव्यता 'सूरचंद' शब्दयोरवसेया) ('उत्तरणं चंदसूराणं' 'अच्छेर' शब्दे प्रििनभागे 200 पृष्ठे आवेदितम्) चंदसूरोवराग-पुं०-(चन्द्रसूर्योपराग) ग्रहणे, “चंदसूरोवरागो गहणं / भन्नति” नि० चू०१६ उ०। चंदसेण-पुं०-(चन्द्रसेन) श्रीऋषभजिनेन्द्रस्य षट्चत्वारिंशे पुत्रे, कल्प०७ क्षण / स्वनामके सूरौ च, अयमाचार्यः विक्रम संवत् 1207 मिते विद्यमान आसीत्, प्रद्युम्नसूरेरयं शिष्य उत्पादसिद्धिनाम्नो ग्रन्थस्य कर्ता। जै० इ०। चंदसेहर पुं०-(चन्द्रशेखर) हरिश्चन्द्रसमकालीने नृपे, यो हि क्षीणद्रव्य हरिश्चन्द्र याचमानेन कुलपतिना वसु लक्षं याचनीय इत्युक्तः / ती०३८ कल्प० / श्रीसोमतिलकसूरीणां शिष्ये च, श्रीसोमप्रभसूरेः पट्टे श्रीसोममिलकसूरीन्द्रास्तेषां च ये विनेयास्तत्र श्रीचन्द्रशेखरः प्रथमः / ग०४ अधि०। चंदा-स्त्री०-(चन्द्रा) चन्द्राद्वीपे चन्द्रदेवस्य राजधान्याम्, जी०३ प्रति०।। (तद्वक्तव्यता 'चंददीव' शब्दे अस्मिन्नेव भागे 1071 पृष्ठे उक्ता) चंदागमणपविभति-न०-(चन्द्रागमनप्रविभक्ति) / वीरवन्दनार्थ समागतस्य चन्द्रस्याभिनयात्मके नाट्यभेदे, रा०। चंदागारोवम-त्रि०-(चन्द्राकारोपम)। चन्द्राकारश्चन्द्राकृतिः स उपमा येषां तानि तथा / चन्द्रमण्डलवद् वृत्ते, जी०३ प्रति०। रा०। चंदाणण-पु०-(चन्द्रानन)। जम्बूद्वीपे ऐरवतवर्षेऽस्थाभवसर्पिण्यां जाते प्रथमतीर्थकरे, स० ति० आव०। चंदाणणा-स्त्री०-(चन्द्रानना) / चन्द्रवदाननं मुखं यासां ताः। जी०३ प्रति० / रा० / चन्द्रमुख्याम् नेमिकुमारस्य राजीमत्याः भार्यायाः स्वनामख्यातायां सख्याम्, कल्प०७क्षण / स्वनामख्यातायां शाश्वत जिनप्रतिमायाम्, सा चोत्कर्षतः पञ्चधनुःशतानि जघन्यतः सप्तहस्ता / रा! चंदाभ-पुं०-(चन्द्राभ) / अवसर्पिण्यामेकादशे कुलकरे, जं०२ वक्ष० / भ० / “चंदाभो ति सामन्नं स चेव ताव सोमलेसा विसेसो चंदपियणम्मि दोहिलो चंदाभोयति," चन्द्रप्रभे तीर्थकरे, आ० चू०२ अ० / पञ्चमदेवलोकस्थे विमानभेदे, स०६ सम० / अभ्यन्तरपश्चिमायाः कृष्णराजेर लोकान्तिकविमाने, यत्र गर्दतोया लोकान्तिकदेवा निवसन्ति। स्था०८ ठा०॥ चंदायण-न०-(चान्द्रायण) / चन्द्रेण वृद्धिभाजा क्षयभाजा च सहायते गम्यते यत्तचान्द्रायणम्। चन्द्रप्रतिमायाम, (द्वा०)। एकैकं वर्द्धयेद् ग्रासं, शुक्ले कृष्णे च हापयेत् / भुञ्जीत नामावास्यायसा-मेष चान्द्रायणे विधिः / / 18|| (एकैकमिति) एकैकं वर्द्धयेत् कवलं शुक्ले पद्वो प्रतिपत्तिथरारभ्य यावत् पौर्णमास्यां पञ्चदश कवलाः, कृष्णे च पक्षे हापयेत् हीनं कुर्यादकैक कवलं, ततो भुञ्जीत न अमावास्यायां, तस्यां सकलकवलक्षयादेष चान्द्रायणश्चन्द्रेण वृद्धिभाजा क्षयभाजा च सहायते गम्यते यत् तत् चान्द्रायणं, तस्यायं विधिः करणप्रकार इति / द्वा०१२ द्वा० / इयं च चन्द्रायणप्रतिमा यवमध्या स्याद्वजमध्या च, तत्राद्यां तावद्दर्शयन्नाहसुक्कम्मि पडिवयाओ, तहेव वुड्डीऍ जाव पण्णरस। पंचदसपडिवयाहिं, तो हाणी किण्हपडिवक्खे ||19|| शुक्ले शुक्लपक्षे प्रतिपदः प्रथमतिथेरारभ्य तथैव तेनैव प्रकारेण एकाघेकोत्तरलक्षणेन वृद्धया प्रतिदिनं भिक्षाणां कवलानां च वर्द्धनेन यावत्पञ्चदश भिक्षाः कवलान्वा गृह्णाति (पंचदसपडिवयाहिं ति) पञ्चदश्यां पौर्णमास्यां प्रतिपदि च कृष्णपक्षप्रथमतिथौ (तो त्ति) ततोऽनन्तरम् - (हाणि त्ति) एकैकशोऽनुदिनं भिक्षादिहानि करोति कृष्णप्रतिपक्षे, कृष्णस्वरूपे शुक्लपक्षापेक्षया द्वितीयपक्षे इत्यर्थः / तत्र चामावास्यायामका भिक्षा कवलो वा स्यादिति गाथार्थः / / 16 / / अथ वजमद्ध्या, तामाहकिण्हे पडिवएँ पण्णर-स एगहाणीओंजाव इक्को उ। अमवस्सपडिवयाहिं, वुड्डी पण्णरस पुनाए।।२०।। कृष्ण पक्षे प्रतिवदि प्रथमतिथौ पञ्चदश कवलादीन् गृह्णाति