________________ चंदविकंप 1064 - अभिधानराजेन्द्रः - भाग 3 चंदविकंप शाच सूर्यान्नवमाच चन्द्रमण्डलादर्वाक् अन्तरं चतुश्चत्वारिंशदेकषष्टिभागाः, एकस्य च एकषष्टिभागस्य सत्काः चत्वारः सप्तभागाः,ततः परं नवमं मण्डलं, तस्माच्च नवमाञ्चन्द्रमण्डलात्परत एकविंशतिः एकषष्टिभागैरेकम्य च एकषष्टिभागस्य सत्कैः त्रिभिः सप्तभागैः परिहीनं यथोक्तं प्रमाणं चन्द्रमण्डलान्तरं, तत्र चाऽन्ये द्वादश सूर्यमार्गाः, एवं चाऽस्मिन्नप्यन्तरे त्रयोदश सूर्यमार्गाः, तस्य च त्रयोदशस्य सूर्यस्योपरि दशमाचन्द्रमण्डलादर्वाक् अन्तरं षष्ठं, षष्ठात् चन्द्रमण्डलादर्वाक् अन्तरं षटपञ्चाशदेकषष्टिभागाः, एकस्य च एकषष्टिभागस्यैकः सप्तभागः, ततो दशमं मण्डलं, दशमाचन्द्रमण्डलादेकषष्टिभागस्य सत्कैः षड्भिः सप्तभागैः सूर्यमण्डलं ततः सप्तपञ्चाशता एकषष्टिभागैरेकस्य च एकषष्टि भागस्य सत्कैः षड् भिः सप्तभागैरूनं प्रागुक्तपरिमाणं चन्द्रमण्डलान्तरं, ततः सूर्येऽपि द्वादश सूर्यभागी लभ्यन्ते इति / तस्मिन्नप्यन्तरे त्रयोदश सूर्यमार्गाः, त्रयोदशस्य सूर्यमार्गस्योपरि एकादशाचन्द्रमण्डलादर्वाक् अन्तरं सप्तषष्टिभागाः एकस्य च एकषष्टिभागस्य सत्काः पञ्च भागाः, तदेवं भावितानि मध्यमानि पञ्च साधारणानि मण्डलानि षटमुखचन्द्रमण्डलान्तरेषु त्रयोदश सूर्यमार्गाः / __सम्प्रति सर्बबाह्यनि पञ्च साधारणानि मण्डलानि, चतुषु च सर्वबाह्येषु चन्द्रमण्डलान्तरेषु द्वादश सूर्यमार्गान् विभायिषु राहचउ छप्पण्ण दुगेगं, पण्णवयालीसं व दो चेव। बायाल पंच तेरस, दुगं च चोतीस पंच भागा य। इगतीसेगं चउवी-स छक्क तेवीस एक्कं च / इगुणवीस चउ छत्ती-स तिग्नि एकारसेव चउरट्ट। दो दो तेत्तीसऽ? य, नत्थि चउण्हं पिसत्तंसा।। एकादशस्य चन्द्रमण्डलस्य चतुः पञ्चाशदेकषष्टिभागाः, एकस्य च एकषष्टिभागस्य सत्को द्वौ सप्तभागौ, इत्येतत् सूर्यमण्डलादभ्यन्तरं प्रविष्टम् एकषष्टिभागः, एकस्य च एकषष्टिभागस्य सत्काः पञ्च सप्तभागाः इत्येतावन्तमात्रं सूर्यमण्डलसंपिंश्रम् / अत्रार्थे च-"जत्थ न सुज्झइ सोमो” इत्यत्र प्रदेशे भावना कृतैवेति न भूयः क्रियते, तदनुसारेण चोत्तरत्राऽपि स्वयं भावना भावनीया। एकादशात् तु चन्द्रमण्डलाद् बहिर्विनिर्गतं सूर्यमण्डलं षटचत्वारिंशदेकषष्टिभागाः, एकस्य च एकषष्टिभागस्य सत्कौ द्वौ सप्तभागौ, तत एतावता हीन परतश्चन्द्रमण्डलान्तरमस्तीतिद्वादशसूर्यमाई लभ्यन्ते। ततः परत एकोनाशीत्या एकषष्टिभागैरेकस्य च एकषष्टिभागस्य सत्काभ्यां सप्तभागाभ्यां द्वादशं चन्द्रमण्डलं, तच द्वादशं चन्द्रमण्डलं सूर्यमण्डलादभ्यन्तरं प्रविष्टम् (बायाल पंचत्ति) द्विचत्वारिंशदेकषष्टिभागस्य सत्काः पञ्च सप्तभागाः, शेषं च त्रयोदश एकषष्टिभागाः, एकस्य च एकषष्टिभागस्य सत्कौ द्वौ सप्तभागावित्येतावन्मानं सूर्यमण्डलसंमिश्र, तस्माच द्वादशाचन्द्रमण्डलाद् बहिर्विनिर्गत सूर्यमण्डलं चतुस्त्रिंशदेकषष्टिभागाः, एकस्य च एकषष्टिभागस्य सत्काः पञ्च सप्तभागाः, तत एतावन्मात्रेण हीनं परतश्चन्द्रमण्डलान्तरं, तत्र च द्वादश सूर्यमार्गा लभ्यन्ते, द्वादशाच सूर्यात्परतो नवतिसंख्यैरे कषष्टिभागैरेकस्य च एकषष्टिभागस्य सत्कैः षड्भिः सप्तभागैस्त्रयोदशं चन्द्रमण्डलं, तत्र त्रयोदशं चन्द्रमण्डलं सूर्यमण्डलादभ्यन्तरं प्रविष्टम्, (इगतीसेगं ति) एकत्रिंशदेकषष्टिभागाः, एकस्य च एकषष्टिभागस्य सत्काः षट् सप्तभागाः, इत्येतावन्मात्रं सूर्यमण्डलसंमिश्र, तस्मात्र त्रयोदशाचन्द्रमण्डला बहिः सूर्यमण्डलाविनिर्गत त्रयोविंशतिरेकषष्टिभागाः, एकस्य चैकषष्टिभागस्य सत्क एकः सप्तभागः, तत एतावता हीनं परतश्चन्द्रमण्डलान्तरं, तत्र च द्वादश सूर्यमार्गाः, द्वादशाच सूर्यमार्गात्परत एकषष्टिभागानां ह्युत्तरेण शतेन एकस्य च एकषष्टिभागस्य सत्कौस्त्रिभिः सप्तभागैश्चतुर्दशं चन्द्रमण्डलं सूर्यमण्डलादभ्यन्तरं प्रविष्टम्, (इगुणबीस चउत्ति) एकोनविंशतिरेकषष्टिभागस्य सत्काश्चत्वारः सप्तभागाः, शेषं षटत्रिंशदेकषष्टिभागाः एकस्य च एकषष्टिभागस्य सत्कास्त्रयः सप्तभागा इत्येतावत्परिमाणं सूर्यमण्ड लसंमिश्र, तरमाचतुर्दशात् सूर्यमण्डलाद् बहिर्विनिर्गतं सूर्यमण्डलम् एकादश एकषष्टिभागाः, एकस्य च एकषष्टिभागस्य सत्काश्चत्वारः सप्तभागाः, तत एतावता हीनं यथोक्तं परिमाणं चन्द्रमण्डलान्तरं, तत्रच द्वादश सूर्यमार्गाः, द्वादशाच सूर्यमण्डलात्परत एकषष्टिभागानां चतुर्दशोत्तरेण शतेन पञ्च चन्द्रमण्डलं, तच्च पञ्चदशं चन्द्रमण्डलं सर्वानिमान् सूर्यमण्डलादगभ्यन्तरं प्रविष्टमष्टावेकषष्टिभागाः, शेषा अष्टचत्वारिंशदभागाः सूर्यमण्डलसंमिश्र, तदेवं भावितानि सर्वबा-ह्यानि पञ्च साधारणानि मगडलानि, चतुषु च सर्वबाह्येषु चन्द्रमण्डलान्तरेषु द्वादश सूर्यमार्गाः संप्रति येषु प्रागुक्तेषु अंशेषु सप्तांशा भावास्तस्माद् मन्दमतीनां विशिष्टस्मरणायाऽधुना कथयति--"दोदो तेतीस" इत्यादि। ये द्वे अष्टमचन्द्रमण्डलचिन्तायां त्रयस्त्रिंशतावुक्ते, यौ च प्रथमपञ्चदशचन्द्रमण्डलयोरष्टकावुक्तौ, एतेषां चतुर्णामपि सप्तांशा न विद्यन्ते, किं तु परिपूर्णा एव ते एक-षष्टिभागाः, तदेषं ततः सूर्यमण्डलानां चन्द्रमण्डलानां च परिस्परं विभागभावना, एतेषु चन्द्रमण्डलेषु सूर्यो, द्वी च चन्द्रमसौ चारं चरतः। सर्वाभ्यन्तरे मण्डले वर्तमानयोर्द्वयोः परस्परमन्तरपरिमाणमाहनवनउई य सहस्सा, छच्चेव सया हवंति चत्ताला। सूराणा उ आवाहा, अभितरमंडलच्छाया / / सूर्ययोः परस्परमाबाधा नवनवतिः सहस्त्राणि षट्शतानि चत्वारिंशदधिकानि योजनानां 69640, तथाहि-एकोऽपि सूर्यो जम्बूद्वीपे अशीत्यधिकं योजनशतमवगाह्य सर्वाभ्यन्तरे मण्डले स्थितोऽपरोऽपि, ततोऽशीत्यधिक शतं द्वाभ्यां गुण्यते, जातानित्रीणि शतानि षष्ट्यधिकानि 360, एतेषु जम्बूद्वीपविभागयोजनलक्षप्रभाणादपनीतेषु शेष यथोक्तपरिमाणं भवति, यदा तु सर्वाभ्यन्तराऽन्तरे द्वितीये मण्डले उपसंक्रम्य सूर्यो चारचरतः, तदातयोः परस्परमन्तरंनवतियोजनसहस्त्राणि षट्शतानि पञ्चचत्वारिंशदधिकानि, पञ्चत्रिंशश्चैकषष्टिभागा योजनस्य 66645 - 35-61, तथाहि-एकोऽपि सूर्यो द्वितीये मण्डले संक्रामन् द्वे योजने अष्टचत्वारिंशचैकषष्टिभागान् विमुच्य संक्रामति तथा द्वितीयोऽपि, सूर्यविकम्पस्य एतावत्प्रमाणत्वात्, तच्च प्रागेवभावितं,ततः पञ्च योजनानि पञ्चत्रिंशचैकषष्टिभागा योजनस्य, द्वितीये मण्डले सूर्ययोः परस्परमन्तरचिन्तायामधिकत्वेन प्राप्यन्ते, एवमग्रेतनेष्वपि मण्डलेषुभावनीयम्। यदा तु सर्वाभ्यन्तरान्मण्डलातृतीये मण्डले सूर्यो चारं चरतस्तदा तयोः परस्परमन्तरं नवनवतियोजनसहस्त्राणि षट् शतानि एकञ्चाश