SearchBrowseAboutContactDonate
Page Preview
Page 1117
Loading...
Download File
Download File
Page Text
________________ चंदविकंप 1063 - अभिधानराजेन्द्रः - भाग 3 चंदविकंप साम्प्रतमुक्तमेवार्थे सुखग्रहणधारणनिमित्तं व्याख्याता संजिघृक्षुः प्रथमतः ससर्वाभ्यन्तराणां पञ्चानां साधारणमण्डलानां गाथाद्वयेन / भावनामाहअढे वारस चउछ-त्तीसा तिन्नि उगुणवीस चत्तारि। तेवीसेगं चउवी-स छक्क इगतीस एकं च // चउतीस पंच तेरस, दुगं च वायाल पंच भागाणि / छायाल दुगेगं पुण, चउपण्णं चेव दो भागा। प्रथमे सर्वाभ्यन्तरे चन्द्रमण्डले क्षेत्रे सूर्यमण्डलाबहिर्विनिर्गतचन्द्रमण्डलमष्टावकषष्टिभागान्, ततो द्वितीयाचन्द्रमण्डलादगियान्तराले द्वादश सूर्यमार्गाः / अत्रार्थे च भावना प्रागेव कृता। द्वादशाच सूर्यमार्गात्परतो द्वितीयाचन्द्रमण्डतादाक् द्वे योजने एकादश च एकषष्टिभागाः, एकस्य च एकषष्टिभागस्य सत्काश्चत्वारः सप्तभागाः, तत्र योजनद्वयानन्तरं सूर्यमण्डलमतो द्वितीयाचन्द्र-मण्डलादगिभ्यन्तरं प्रविष्टं सूर्यमण्ड प्रविष्ट सूर्यमण्डलमे-कादशैकषष्टिभागान्, एकस्य च एकषष्टिभागस्य सत्कान् चतुरः सप्तभागान, ततः परं षटत्रिंशदेकषष्टिभागाः, एकस्यच एकषष्टिभागस्य सत्कारस्त्रयः सप्तभागाः, इत्येतावत् परिमाणं सूर्यमण्डलसमिश्रम्, एतावता किल शुद्धं सूर्यमण्डलं, ततः सूर्यमण्डलात्परतो बहिर्विनिर्गतं चन्द्रमण्डलमेकोनविंशतिमेकषष्टिभागान्, एकस्य सत्कान् चतुरः सप्तभागान, ततः परं भूयः तृतीयाचन्द्रमण्डलादाक् यथोक्तपरिमाणमन्तरम् / तद्यथा-पञ्चत्रिंशद् योजनानि त्रिंशदेकषष्टिभागा योजनस्य. एकस्य च एगषष्टिभागस्य सत्काश्च-वार: सत्कारश्चत्वारः सप्तभागाः, एतावति चान्तरे द्वादशसूर्यमागा लभ्यन्ते, उपरिच द्वे योजने त्रयश्चैकषष्टिभागायोजनस्य,एकस्य च एकषष्टिभागस्य सत्काश्चत्वारः सप्तभागाः, ततोऽत्र प्रागुक्तद्विती-याभ्यांतेद्वादशस्य च सूर्यमार्गस्योपरि द्वे योजने, त्रय एकषष्टिभागाः योजनस्य, एकस्य चैकष्टिभागस्य सत्क एकः सप्तभागस्तत्र प्रक्षिप्यते। ततो जाताश्चतुरास्त्रिंशदेकषष्टिभागस्य सप्तभागाः, तत इदं तृतीयाचन्द्रमण्डलात्परतो द्वादश सूर्यमार्गाः, द्वादशाच सूर्यमार्गात्परतो योजनद्वयमतिक्रम्य सूर्यमण्डलं चतुर्थाचन्द्रमण्डलादगभ्यन्तरं प्रविष्ट चतुस्त्रिंशतिमेकषष्टिभागानेकस्य चैकषष्टिभागस्य सत्कान् पञ्च सप्तभागान्, ततः शेष सूर्यमण्डलस्य त्रयोदशैकसप्तषष्टिभागाः, एकस्य चैकषष्टिभागस्य सत्को द्वौ सप्तभागी, इत्येतत् चतुर्थचन्द्रमण्डलसंमिश्रं चतुर्थस्य सूर्यमण्डलाद् बहिश्चन्द्रमण्डलस्य विनिर्गतद्विचत्वारिंशदेकषष्टिभागा एकस्य चैकषष्टिभागस्य सत्काः पञ्च सप्तभागाः, ततः पुनरपि यथोदितं परिमाणं चन्द्रमण्डलान्तरं, तत्र च द्वादश सूर्यमार्गा लभ्यन्ते, द्वादशस्य च सूर्यमार्गस्योपरि द्वे योजने, त्रय एकषष्टिभागा योजनस्य, एकस्य च एकषष्टिभागस्य सत्कारश्चत्वारः सप्तभागाः तत्र ये चतुर्थस्य चन्द्रमण्डलस्य बहिर्निर्गता द्वाचत्वारिंशदेकषष्टिभागाः, एकस्य चैकषष्टिभागस्य सत्काः पञ्च सप्तभागाः, तेऽत्र राशौ प्रक्षिप्यन्ते, ततो जाताः षटचत्वारिंशदेकषष्टिभागाः द्वौ च एकस्य एकषष्टिभागस्य सत्कौ सप्तभागौ, ततश्चतुर्थाचन्द्रमण्डलात्यरतोद्वादशसूर्यमार्गात्परतो योजनद्वयमिक्रम्य सूर्यमण्डलं, तच पञ्च माचन्द्रमण्डलार्वाक अभ्यन्तरं प्रविष्ट षटचत्वारिंशदेकषष्टिभागान, द्वौ चैकस्य सत्कौ सप्तभागौ, शेष सूर्यमण्डलस्यैक एकषष्टिभाग एकस्य चैकषष्टिभागस्य सत्काः पञ्च सप्तभागा इत्येतावत्परिमाणं पञ्चम चन्द्रमण्डलसंमिश्र, तस्य च पञ्चमस्य चन्द्रमण्डलस्य सूर्यमण्डलादहिविनिर्गतं चतुःपञ्चाशदेकषष्टिभागाः, एकस्य चैकषष्टिभागस्य द्वी सप्तभागौ, तदेवं पञ्च सर्वाभ्यन्तराणि चन्द्रमण्डलानि साधारणानि, चतुर्षु च चन्द्रमण्ड-लान्तरेषु द्वादश सूर्यमार्गा इत्येतद्भावितम्। सम्प्रति पञ्च साधारणानि चन्द्रमण्डलानि विभावयिषुराहनव छप्पणेग एक्का-वीसंवा तिण्णि वा चत्ता। चत्तालीस तिगऽहिया, तेतीसा एगसीया य॥ चउयाला उणवीसं, ति छप्पणं एग नव छकं / पञ्चमाचन्द्रमण्डलात्परतो भूयः षष्ठं चन्द्रमझ्लमधिकृत्यान्तरं, तथ पञ्चत्रिंशतयोजनानि एकषष्टिभागकरणार्थमेकषष्टया गुणयन्ते, गुणयित्वा चौपरितनास्त्रिंशदेकषष्टिभागाः प्रक्षिप्यन्ते, ततो जातानि एकविंशतिशतानि पञ्चषष्टयधिकानि२१६५, येऽपि च पञ्चमस्य चन्द्रमण्डलस्य सूर्यमण्डलाद्वहिर्विनिर्गताश्चतुःपञ्चादेकषष्टिभागा द्वौ च एकस्य एकषष्टिभागस्य सत्को सप्तभागौ तत्र प्रक्षिप्यन्ते, जातानि द्वाविंशतिशतानि एकोनविंशत्यधिकानि, एकस्य च एकषष्टिभागस्य सत्काः षट् सप्तभागाः२२१६६, सूर्यस्य विकम्पो द्वे योजने अष्टाचत्वारिंशदेकषष्टिभागाधिके, तत्रद्वे योजने एकषष्ट्या गुण्येते, जाट द्वाविंशं शतमेकषष्टिभागाना,तत उपरितना अष्टाचत्वारिंशदेकषष्टिभागाः प्रक्षिप्यन्ते, जातं सप्तत्यधिकं शतं 170, तेन पूर्वराशेर्भागो हियते, लब्धास्त्रयोदश, शेषास्तिष्ठन्ति नव, एकस्य च एकषष्टिभागस्य सत्काः षट सप्तभागाः, तत इदमाग-तमपञ्चमाञ्चन्द्रमण्डलात्परतस्त्रयोदश सूर्यमार्गाः, त्रयोदशस्य च सूर्यमार्गस्योपरि षष्ठाचन्द्रमण्डलादर्वागन्तरं नव, एकस्य च एकषष्टिभागस्य सत्काः षट् सप्तभागाः ततः परतः षष्ट चन्द्रमण्डलं, तच षटपञ्चाशदेकषष्टिभागात्मक, ततः परतः सूर्यमण्डलादर्वागन्तरं, (छप्पणेग त्ति) षटपञ्चाशदेकषष्टिभागाः, एकस्य च एकषष्टिभागस्य सत्क एकः सप्तभागः, तदनन्तरं सूर्यमण्डलं, तस्माच परत एकषष्टिभागानां चतुरुत्तरेण शतेन एकस्य च एकषष्टिभागस्य सत्येन सप्तभागेन हीनं यथोदितप्रमाणं चन्द्रमण्डलान्तरं प्राप्यत इति एतस्मात् सूर्यमण्डलात्परतोऽन्ये द्वादश सूर्यमार्गाः लभ्यन्ते ततः सर्वसंकलनया तस्मिन्नप्यन्तरे त्रयोदशसूर्यमार्गाः, तस्य च त्रयोदशस्य सूर्यमार्गस्योपरि सप्तमाचन्द्रमण्डलादर्वागन्तरमेकविंशतिरेकषष्टिभागाः, एकस्य च एकषष्टिभागस्य त्रयः राप्तभागाः, ततः सप्तमं चन्द्रमण्डल, तस्माच्च सप्तमाचन्द्रमण्डलात्परतश्चतुश्चत्वारिंशता एकषष्टिभागैः एकस्य च एकषष्टि भागस्य सत्कै श्चतुर्भिः सप्तभागैः सूर्यमण्डलं, ततो द्विनवतिसंख्यैकषष्टिभागैः चतुर्मिश्च एकस्य एकषष्टिभागस्य सत्के: सप्तभागः न्यून यथोदितप्रमाण चन्द्रमण्डलान्तरं, ततः परमस्तीत्यनेनाऽपि द्वादश सूर्यमार्गा भवन्तीति, तस्मिन्नप्यन्तरे त्रयोदश सूर्यमार्गाः, त्रयोदशस्य च सूर्यस्य बहिरष्ट मात्र चन्द्रमण्डलाद अन्तरं त्रयस्त्रिंशदेकषष्टिभागाः, ततोऽष्टम, तस्माचाष्टमाचन्द्रमण्डलात्परतस्यस्त्रिंशता एकषष्टिभागैः सूर्यमण्डलं, तत एकाशीतिसंख्यैरेकषष्टिभागैरून यथोदितप्रमाणं चन्द्रमण्डलान्तरं, पुरतो विद्यते इति,ततः पुरतोऽन्येद्वादश सूर्यमार्गाः, ततस्तस्मिन्नप्यन्तरेसर्वसंकलनया त्रयोदशसूर्यमार्गाः, त्रयोद
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy