________________ चंदविकेप 1062 - अभिधानराजेन्द्रः - भाग 3 चंदविकंप अष्टौ शतानि चतुःपञ्चाशदिधिकानि 854, तैः पूर्वराशेर्मागोहियते, लब्धनि षट्त्रिंशतयोजनानि३६, शेषाणि तिष्ठन्ति शतान्यष्टापञ्चाशदधिकानि 358, अत ऊर्द्धमेकषष्टिभागा आनेतव्याः, ततश्चतुर्दशभिर्भागे लब्धाश्चत्वारः सप्तभागाः, एतावत्परिमाण एकैकश्चन्द्रविकम्प इति, इह सर्वाभ्यन्तरं सूर्यमण्डलं सर्वात्मना प्रविष्टं केवलमष्टापश्चाशत्शतं 158, तत्र द्वाविंशेन शतेन द्वादशस्य सूर्यमार्गस्योपरि द्वे योजने लब्धे, शेषास्तिष्ठन्ति तत्र एकषष्ठिभागाः, एकस्य च एक षष्टि भागस्य सल्काश्चत्वारः सप्त भागाः, येऽपि च प्रथमे चन्द्रमण्डले रविमण्डलात् शेषां अष्टावेकषष्टिभागास्तेऽप्यत्र प्रक्षिप्यन्ते इतिजाताएकादश एकादश एकषष्टिभागाः, द्वादशाच्च सूर्यमण्डलात्परतो योजनद्वयातिक्रमे सूर्यमण्डलमत आगत्य द्वितीयाचन्द्रमण्ड-लादभ्यन्तरं प्रविष्टं सूर्यमण्डलमेकादश एकषष्टिभागा एकस्व सप्तधा छिन्नस्य सत्काश्चत्वारो भागा इति। साम्प्रतं शेषेषु द्वितीयादिषु चन्द्रमण्डलेषु यावत्प्रमाणं सूर्यमण्डलादभ्यन्तरं प्रविष्टं तावत्परिमाणप्रतिपादमार्थ करणमोहइच्छामंडलरूवुण, गुणियमभंतरं तु सूरस्स। तस्सेणं सामण्णं, सामण्णविसेसियं सासिणो / / यस्मिन्मण्डलस्य चन्द्रमण्डलाइभ्वनतरं प्रविष्टस्य ज्ञातुमिच्छा, तेन इच्छामण्डलेन रूपोनेन प्राक्तनमनन्तरोक्तमभ्यन्तरप्रविष्ट सूर्यमण्डल परिमाणगुणितं क्रियते, गुणितंच सत्यावद् भवति तावत्प्रमाणे तस्मिन् मण्डले चन्द्रमण्डलादभ्यन्तरं सूर्यस्य मण्डलं प्रविष्टपवसेयम् / तद् यथातृतीये चन्द्रमण्डले किल ज्ञातुमिच्छा, ततस्त्रयो रूपोनाः क्रियन्ते, जातौ द्वौ, ताभ्यां प्रागुक्ता एकादश एकषष्टिांगा गुण्यन्ते, जाता द्वाविंशतिः, येऽपि च चत्वारः सप्तभागास्तेऽपि द्वाभ्यां गुण्यन्ते, जाता अष्टौ, सप्तभिरेक एकषष्टिभागो लब्धः, स पूर्वराशौ प्रक्षिप्यते, तत आगतं तृतीये चन्द्रमाण्डले चन्द्रमण्डलादभ्यन्तरं प्रविष्टं सूर्यमण्डलं त्रयोविंशतिरेकषष्टिभागस्य सारधा छिन्नस्य सत्क एको भागः, एवं चतुर्थचन्द्रमण्डले चन्द्रमण्डलादभ्यन्तरं सूर्यमण्डलं प्रविष्टाश्चतुस्त्रिशदेकषष्टिभागः, एकस्य चएकषष्टिभागस्य सत्काः पञ्च सप्तभागाः, पञ्चमे मण्डले षट्चत्वारिंशदेकषष्टिभागाः, अस्व सप्तधा छिन्नस्य द्वितीयादिषु तु चन्द्रमण्डलेषु विशेष वक्ष्यति। (तस्सेसं लामणं ति) तस्याभ्यन्तरप्रविष्टस्य सूर्यमण्डलस्य यत् शेष सूर्यमण्डलसत्कं तत् सामान्य साधारणं, चन्द्रमण्डलानि प्रविष्ट मित्यर्थः / यत् सामान्यद् विशेषितमतिरिक्तं चन्द्रमण्डलविष्कम्भस्य तत् शशिनोऽसाधारणं द्रष्टव्यम् / तद्यथा-द्वितीये चन्द्रमण्डले सूर्यमण्डलसाधारणाः षट्त्रिंशदेकषष्टिभागाः, एकस्य चैकषष्टिभागस्य त्रयः सप्तभागाः। किमुक्तं भवति ?, एतावत्प्रमाणं द्वितीये चन्द्रमण्डले सूर्यमण्डलं प्रविष्टमिति चन्द्रमण्डलस्य च विष्कम्भः षट्पञ्चाशदेकषष्टिभागा योजनस्य, ततः षट्पञ्चाशतः षट्त्रिंशत्येकषष्टिभागेषु त्रिषु चैकषष्टिभागस्य सप्तभागेष्वपनीतेषु शेषास्तिष्ठन्त्ये कोनविंशतिरेकषष्टिभागाः, एक स्य च एकषष्टिभागस्य चत्वारः सप्तभागाः, एतावत्प्रमाणं द्वितीयं चन्द्रमण्डलं क्षेत्रे सूर्यमण्डलबत् बहिविनिर्गतं चन्द्रमण्डलमिति। एवं सर्वेष्वपि मण्डलेषु भावनीयम्, भावयिष्यते चाग्रेऽप्येतदाचार्य इति न संमोहः कार्यः / संप्रति षष्ठादिषु चन्द्रमण्डलेषु विशेषमाह-- छट्ठाइं रविसेस, रविससिणो अंतरं तु नायट्वं / तं व ससि सुद्ध सूरं-तराहियं अंतरं वाहिं।। षष्ठादिषु चन्द्रमण्डलेषु प्रागुक्तकरणवशात् यल्लभ्यते तत्र र वेः सूर्यमण्डलात् शेषं वर्तते, तत्रविशशिनोरन्तरं ज्ञातव्यम्। “तं वेत्यादि" अत्र तं वेति प्रथमा सप्तम्यर्थे, सप्तम्यर्थे, शशिशुद्ध इत्यत्र प्रत्येक विभक्तिलोप आर्षत्वात् / ततोऽयमर्थ:-तस्मिन् रविशशिनोरन्तरे, वाशब्दो भिन्नक्रमः, स चैवं योजनीयः शशिनि च सूर्यान्तररात् सूर्यान्तरपरिमाणात् योजनकद्विक रूपात् यच द्वे शेष यदधिकं सूर्यान्तरपरिमाणस्य वर्तते तत् शशिनो बहिः सर्थमण्डलादगिन्तरमवसेयम् / यथा षष्ठे किल चन्द्रमण्डले अन्तरं ज्ञातुमिच्छा, ततः षट्पोनाः क्रियन्ते, जाताः पञ्च, तैरेकादश एकषष्टिभागाः, एकस्य चैकषष्टिभगस्य सत्काश्चत्वारः सप्तभागा गुज्यन्ते, जाताः सप्तपञ्चाशदेकषष्टिभागाः, एकस्य च एकषष्टिभागस्य सत्काः षट् सप्तभागाः, तत्राष्टाचत्वारिंशत्कैरेकषष्टिभागैः सूर्यमण्डलविशुद्ध, शेषा एकषष्टिभागाः, एकस्य च एक षष्टिभागस्य सत्काः षट् सप्तभागाः तिष्ठन्ति / एतावन्मात्रप्रदेशे रविशशिनारेन्तरं, तत एतस्मिन् सूर्यान्तरपरिमाणात् द्वियोजनरूपात् परिशुद्धे चन्द्रमण्डलपरिमाणात् द्वियोजनरूपात् परिशुद्धे चन्द्रे मण्डलपरिमाणे च षटपञ्चाशदेकषष्टिरूपे शुद्धे शेषमवतिष्ठन्ते षटपञ्चाशदेकषष्टिभागाः, एकस्य चैकषष्टिभागस्यसत्क एकः सप्तभागः, एतावत् षष्टाचन्द्रमण्डलात्परतः सूर्यमण्डलादर्वागन्तरम्, एवं शेषेष्वपि मण्डलेषु भावनीयम्। जत्थ न सुज्झइ सोमो, तं सणिणो तत्थ होइ पत्तेयं / तस्सेसं सामन्नं, सावन्नविसेसियं रविणो / / यत्र चन्द्रमण्डलक्षेत्रे अनन्तरोक्तकरणाचिन्तायां सोमश्चन्द्रो न शुद्ध्यति / यथा एकादशे चतुर्दशे पञ्चदशे वा, तत्र तावत्प्रमाणं शशिनः प्रत्येकमसाधारणं ज्ञातव्यं, तस्माच्च परतो यत् शेषं चन्द्रमण्डलान्तर्गत सूर्यमण्डलसत्कं तत् सामान्यमुभयसंमिश्रं ज्ञातव्यम्। तस्माच्च सामान्यत् परतो यद्विशेषितमसाधारणं वर्तते तत् वेरवसेयम् / यथा किलैकादशे चन्द्रमण्डलेऽन्तरादि परिमाणं जिज्ञास्य तदेकादशरूपोनं क्रियते, जाता दश ते एकादश एकषष्टिभागा एकस्य च एकषष्टिभागस्य च सत्काश्चत्वारः सप्त भागा गुण्यन्ते, जातं पञ्चदशोत्तरमेकशतम्, एकस्य चैकषष्टिभागस्य सत्काः पञ्च सप्तभागाः 115 / 5. एतेषां मध्ये अष्टाचत्वरिशतैकषष्टिभाग सूर्यमण्डलं शुद्ध, शेषाः सप्तषष्टिरेकषष्टिभागा एकस्य चैकषष्टिभागस्य सत्काः पञ्च सप्त भागास्तिष्ठन्ति, एतत् सूर्यान्तरपरिमाणात् योजनद्वयरूपात् शोध्यन्ते, शेषं त्रिचतुःपञ्चाशदेकषष्टिभागा द्वी चैकस्यैकषष्टिभागस्य सत्को सप्तभागौ, एतावता चन्द्रो न शुध्यति, चन्द्रमण्डलस्य षटपञ्चाशदेकषष्टिभागप्रमाणत्वात्, तत एतावत् सूर्यमण्डलादेकादशं चन्द्रमण्डलमभ्यन्तरं प्रविष्टमवसे यम्, शेष त्वे कषष्टिभागस्य सत्काः पञ्च सप्तभागा इत्येतावत् प्रमाणं सूर्यमण्डलसंमिश्रं, तस्माच परतः षटचत्वारिंशतमेकषष्टिभागान् द्वौ चैकषष्टिभागस्य सप्त भागान् यावत् केवलं सूर्यमण्डलम्,एवं शेषेष्वपि द्वादशादिषु मण्डलेषु भावना कार्या / तदेवमुक्तं, चन्द्रमण्डलान्तरेषु सूर्यमार्गपरिमाणं, चन्द्रसुर्यमण्डलान्तरपरिमाणं, चन्द्रमण्डलसूर्यमण्डलसाधाराणं भागपरिमाण च।