________________ चंदमग्ग 1066 - अभिधानराजेन्द्रः - भाग 3 चंदमग्ग गस्य पञ्च सप्त भागाः, ततः पुनरपि यथोदितपरिमाणं / चन्द्रमण्डलान्तरं, तत्र च च द्वादश सूर्यमार्गा लभ्यन्ते, द्वादशम्य च सूर्यमार्गस्योपरि द्वे योजने त्रय एकषष्टिभागा योजनस्य, एकस्य च एकषाष्टिभागस्य सत्कारश्चत्वारः सप्तभागाः, तत्र च ये चतुर्थस्य चन्द्रमण्डलस्य सूर्यमण्डलाद् बहिर्विनिर्गता द्वाचत्वारिंशदेकषष्टिभागाः,एकस्य च एकषष्टिभागस्य सत्काः पञ्च सप्तभागाः, तेऽत्र राशौ प्रक्षिप्यन्ते, ततो जाताः षट्चत्वारिंशदेकषष्टिभागाः, द्वौ च एकषष्टिभागस्य सत्को सप्तभागौ, तत एवं वस्तुस्वरूपमवगन्तव्यम्चतुर्थाचन्द्रमण्डलात्परतो द्वादश सूर्य मार्गाः, द्वादशाच्च सूर्यमार्गात्परतो योजनद्वयातिक्रमे योजनद्वयातिक्रमे सूर्यमण्डलं,तच पञ्चमाञ्चन्द्रमण्डलादर्वाग अभ्यन्तरं प्रविष्ट षट्चत्वारिंशमेकषष्टिभागान्, द्वौ च एकस्यैकषष्टिभागस्य सत्की सप्तभागौ, शेष सूर्यमण्डलस्य एकएकषष्टिभागः, एकस्य च एकषष्टिभास्य पञ्च सप्तभागाः, इत्येतावत्परिमाणं, पञ्चमं चन्द्रमण्डलं संमिश्र, तस्य चपञ्चमस्य चन्द्रमण्डलस्य सूर्यमण्डलाबहिर्विनिर्गतं चतुः पञ्चाशदेकषष्टिभागा एकस्यच एकषष्टिभागस्य द्वौ सप्तभागौ, तदेवं पञ्च सर्वाभ्यन्तराणि चन्द्रमण्डलानि सूर्यमण्डलसंमिश्राणि, चतुर्षु चन्द्रमण्डलान्तरेषु द्वादश द्वादश सूर्यमार्गा इति जातम्। संप्रति षष्ठादीनि दशमपर्यन्तानि पञ्च चन्द्रमण्डलानि सूर्यमण्डलासंस्पृष्टानि भाव्यन्ते-तत्र पञ्चमाचन्द्रमण्डलात्परतो भूयः षष्ठं चन्द्रमण्डलमधिकृत्यान्तरं, तन्त्र पञ्चत्रिंशत्योजनानि त्रिंशच्चैकषष्टिभागा योजनस्य, एकस्य च एकष्टिभागस्य सत्काश्चत्वारः सप्तभागाः, तत्र च पञ्चत्रिंशद्वयोजनान्येकषष्टिभाग करणार्थमेकषष्टचा गुण्यन्ते, गुणयित्वा चोपरितनास्त्रिंश-देषष्टिभागाः प्रक्षिप्यन्ते,ततो जातान्येकविंशतिशतानिपञ्चषष्ट्यधि-कानि 2165, येऽपि च पञ्चमस्य चन्द्रमण्डलस्य सूर्यमण्डलाद् बहिर्विनिर्गताश्चतुः पञ्चाशदेकषष्टिभागा द्वौ च एकषष्टिभागस्य सत्कौ सप्तभागौ,ते अत्र प्रक्षिप्यन्ते, जातानि द्वाविंशतिशतान्येकोनविंश-त्याधिकानि 2216, सूर्यस्य विकम्पो द्वे योजने अष्टाचत्वारिंशदेकषष्टि-भागाधिके, तत्र द्वे योजने एकषष्ट्या गुण्येते, जातं द्वाविंशं शतमेक-षष्टिभागानां, तत उपरितना अष्टाचत्वारिंशदेकषष्टिभागाः प्रक्षिप्यन्ते, जातं सप्तत्यधिक शतम् 170, तेन पूर्वराशेर्भागो हियते, लब्धास्त्रयोदश, शेषास्तिष्ठन्ति नय, एकस्य च एकषष्टिभागस्य सत्काः षट् सप्तभागाः, तत इदमागतं पञ्चमाचन्द्रमण्डलात्परस्त्रयोदश सूर्यमास्त्रियोदशस्य च सूर्यमार्गस्योपरि षष्ठाचन्द्रमण्डलादर्वाक् अन्तरं नव एकषष्टिभागा योजनस्य, एकस्य च एकषष्टिभागस्य सत्काः षट् सप्तभागाः, ततः परतः षष्ठं चन्द्रमण्डलं, तब षट्पञ्चाशदेकषष्टिभागात्मकं, ततः परतः सूर्यमण्डलादर्वागन्तरं षट्पञ्चादेकषष्टिभागाः, एकस्य चैकषष्टिभागस्य एकः सप्तभागः, तदनन्तरं सूर्यमण्डलं, तस्माच परत एकषष्टिभागानां चतुरुत्तरेण शतेन एकस्य च एकषष्टिभागस्य सत्केनैकेन सप्तभागेन हीनं यथोदितप्रमाणं चन्द्रमण्डलान्तरं प्राप्यते, तस्मात्सूर्यभार्गोत्परतोऽन्ये द्वादश सूर्यमार्गा लम्यन्ते, ततः सर्वसंकलनया तस्मित्रप्यन्तरे त्रयोदश सूर्यमार्गाः, तस्य च त्रयोदशस्य सूर्यमार्गस्योपरि सप्तमाचन्द्रमण्डलादर्वाक् अन्तरमेकविंशतिरेकषष्टिभागा एकस्य च एकषष्टिभागस्य त्रयः सप्तभागाः ततः सप्तमं चन्द्रमण्डलं, तस्माच्च सप्तमाचन्द्रमण्डलात् परतः चतुश्चत्वारिंशता एकषष्टिभागैरेकस्य च एकषष्टिषष्टिभागैश्चतुर्भिश्च एकस्य एकषष्टिभागस्य सत्कैः सप्तभागैन्यूनं यथोदितप्रमाणं चन्द्रमण्डलान्तर, ततः परमस्तीत्यनेनापि द्वादश सूर्यमार्गा लभ्यन्ते, ततस्तस्मिन्नप्यन्तरे सर्वसङ्कलनया त्रयोदश सूर्यमार्गास्त्रयोदशस्य सूर्यमार्गस्य बहिरष्टमाचन्द्रमण्डलादर्वाग् अन्तरं त्रयस्त्रिंशदेकषष्टिभागाः, ततोऽष्टमं चन्द्रमण्डलं, तस्माचाष्टमाचन्द्रमण्डलात्परतस्त्रयस्त्रिंशता एकषष्टिभागैः सूर्यमण्डलं, तत एकाशीतिसंख्यैरेकषष्टिभागैरूनं यथोदितप्रमाणं चन्दमण्डलान्तरं पुरतो विद्यते इति ततः पुरतोऽन्येऽपि द्वादशसूर्यमार्गाः, ततस्तस्मिन्नप्यन्तरेसर्वसंकलनया त्रयोदश सूर्यमार्गाः त्रयोदशाच सर्यमार्गात्परतो नवमाचन्द्रमण्डलादर्वागन्तरं, चतश्चत्यारिंशदेकषष्टिभागा एकस्य च एकषष्टिभागस्य चत्वारः सप्तभागाः, ततः परं नवमं चन्द्रमण्डलं, तस्माच नवमाचन्द्रमण्डलात्परत एकविंशत्या एकषष्टिभागैरेकस्य च एकषष्टिभागस्य त्रिभिः सप्तभागैः सूर्यमण्डलं, तत एकोनसप्ततिसंख्यैरेकषष्टिभागैरेकस्य च एकषष्टिभागस्य त्रिभिः सप्तभागः परिहीणं यथोक्तप्रमाणं चन्द्रमण्डलान्तरं, तत्र चान्ये द्वादश सूर्यमार्गाः, एवं चास्मिन्नप्यन्तरे सर्वसंकलनया त्रयोदश सूर्यमार्गाः, तस्य च त्रयोदशस्य सूर्यमार्गस्योपरि दशमाचन्द्रमण्डलादाक् अन्तरं षट्पञ्चाशदेकषष्टिभागाः, एकस्य च एकषष्टिभागस्य एकः सप्तभागः, ततो दशमं चन्द्रमण्डलं, तस्माच दशमाचन्द्रमण्लात्परतो नवभिरेकषष्टिभागैरेकस्य च एकषष्टिभागस्य सत्कैः षड्यिः सप्तभागैः सूर्यमण्डलं, ततः सप्तपञ्चाशता एकषष्टिभागैरेकस्य च एकषष्टिभागस्य सत्कैः षडभिः सप्तभागैरून प्रागुक्तपरिमाणं चन्द्रमण्डलान्तरं, ततो भयोऽपि द्वादश सूर्यमार्गा लभ्यन्ते, इति तस्मिन्नप्यन्तरे सर्वसकलनया त्रयोदश सूर्यमार्गाः, ततस्त्रयोदशस्य सूर्यमार्गस्योपरि एकादशाचन्द्रमण्डलादर्वागन्तरं सप्तषष्टिभागाः, एकस्य च एकषष्टिभागस्य सत्काः पञ्च सप्तभागाः, तदेवं पञ्च चन्द्रमण्डलानि षष्ठादीनि दशमपर्यन्तानि सूर्यसंमिश्राणि षट्सु च चन्द्रमण्डलान्तरेषुत्रयोदशसूर्यमार्गाइति जातम्, सप्रत्येतदन्तरमुच्यतेतत्र एकादशे चन्द्रमण्डले चतुःपञ्चाशदेकषष्टिभागाः, एकस्य च एकषष्टिभागस्य सत्कौ द्वौ सप्तभागौ, इत्येतावत् सूर्यमण्डलादभ्यन्तरं प्रविष्ट एक एकषष्टिभागः, एकस्य च एकषष्टिभागस्य पञ्च सप्तभागाः इत्येतावन्मात्रं सूर्यमण्डलसंमिश्रम् एकादशाचन्द्रमण्डलाद् बहिर्विनिर्गत सूर्यमण्डलं षट्चत्वारिंशदेकषष्टिभागाः, एकस्य च एकषष्टिभागस्य सत्की द्वौ सप्तभागौ, तत एतावता हीनं परतश्चन्द्रमण्डलान्तरमस्तीति द्वादश सूर्यमार्गा लभ्यन्ते, ततः पैरमेकोनाशीत्या एकषष्टिभागैरेकल्प च एकषष्टिभागस्य सत्काभ्यां द्वाभ्यां सप्तभागाभ्यां द्वादशं चन्द्रमण्डलं, तच्च द्वादशं चन्द्रमण्डलं सूर्यमण्डलादभ्यनतर प्रविष्टं द्वाचत्वारिंशतमेकषष्टिभागान्, एकस्य च एकषष्टिभागस्य सत्कान् पञ्च सप्तभागान्, शेषचत्रयोदश एकषष्टिभागा योजनस्य एकषष्टिभागस्य सत्कौ द्वौ सप्तभागौ, इत्येतावन्मात्र सूर्यमण्डलसंमिश्र, तस्माचद्वादशाचन्द्रमाण्डलाबहिर्विनिर्गतं सूर्यमण्डलं चतुस्त्रिंशतमेकषष्टिभागान्योजनस्य, एकस्यचएकषष्टिभागस्य सत्कान् पञ्च सप्तभागान्, तत एतावन्मात्रेण हीनं परतश्चन्द्रमण्डलान्तरं, तत्र च द्वादश सूर्यमार्गा लभ्यन्ते, द्वादशच सूर्यमार्गात्परतो नवतिसंख्यैरेकषष्टिभागैरेकस्य च एकषष्टिभागस्य सत्कैः षड्भिः सप्तभागैस्त्रयोदशं चन्द्रमण्डलं, तच त्रयोदशं चन्द्रमण्डलं सूर्यमण्डलादभ्यन्तरं प्रविष्टम् एक