________________ चंदमंग्ग १०८८-अभिधानराजेन्द्रः भाग-३ चंदमंग्ग कम्पस्य परिमाणमिति, तथा मण्डलान्तरिका चन्द्रमण्डलपरिमाण पञ्चत्रिंशत् योजनानि, एकस्य च योजनस्य त्रिंशदेकषष्टिभागा एकस्य चैकषष्टिभागस्य चत्वारः सप्त भागा इत्येवंरूपम् / (संभडल ति) मण्डलविष्कम्भपरिमाणेन सहित एकश्चन्द्रविकम्पो भवति। यस्तु विकम्पक्षेत्रकाष्ठादर्शनतो विकम्पपरिमाणं ज्ञातुमिच्छति तं प्रतीय पूर्वाचार्योपदर्शिता करणगाथा"सगमंडलेहि लद्धं, सगकट्ठाओ हवंति सविकंपा / जे सगविक्खंभजुया, हवंति सगमंडलंतरिया |" अस्याक्षरमात्रगमनिका-ये चन्द्रमस: सूर्वस्य वा विकम्पा:, कथं भूतास्ते इत्याह-स्वकविष्कम्भयुताः स्वकमण्डलान्तरिका:, स्वस्वमण्डविष्कम्भपरिमाणसहितस्वस्वमण्डलान्तरिकारूपा इत्यर्थः / भवन्ति स्वकाष्ठात: स्वस्वविकम्पयोग्यक्षेत्रपरिमाणस्य स्वकमण्डलै: स्वस्वमण्डलसंख्यया भागे हतेयल्लब्धं तावत्परिमाणास्ते स्वविकम्पा: स्वस्वविकम्प: भवन्ति / क्षेत्रकाष्ठापञ्च योजनशतानि दशोत्तराणि 510, तान्येकषष्टिभागकरणार्थमेकषष्ट्या गुण्यनते, जातान्ये कत्रिंशत्सहस्राणि शतमेकं दशोत्तरं 31110, सूर्यस्य मण्डलानि विकम्पक्षेत्रे त्र्यशीत्यधिकं शतम् 183, ततो योजनानयनार्थ त्र्यशीत्यधिक मण्डलशतमेकषष्टया गुण्यते, जातान्येकादशसहस्त्राणि शतमेकं त्रिषष्ट्यधिकम् 11163, एतेन पूर्वराशेर्मागो ह्रियते, लब्धे ट्वे योजने, शेषमुपरिष्टादुद्वरति सप्ताशीतिशतानि चतुरशीत्यधिकानि 8784 तत: संप्रत्येकषष्टिभागा आनेतव्या इत्यधस्तात् छेदराशि: त्र्यशीत्यधिक शतम् 183, तेन भागे हृते लब्धा अष्टाचत्वारिंशदेकषष्टिभागा: 4861, एतादेकैकस्य सूर्यविकम्पस्य परिमाणां तथा चन्द्रस्य विकम्पक्षेत्रकाष्ठापश योजनशतानि नवोत्तराणि त्रिपञ्चाशच्चैकषष्टिभागा योजनस्य 506 / 53 , तत्र योजनान्येकषष्टिभागकरणार्थम् एकषष्ट्या गुण्यन्ते, जातान्येकत्रिंशत्सहस्त्राणि एकोनपञ्चाशदधिकानि 31046 तत उपरितनास्त्रिपञ्चाशदेकषष्टिभागा: प्रक्षिप्यन्ते 61, जातान्येकत्रिंशत्सहस्राणि शतमेकं व्युत्तरम् 31102. चन्द्रस्य तु विकम्पक्षेत्रमध्ये मण्डलानि चतुर्दश 14, ततो योजनार्थ चतुर्दश एकषष्ट्या गुण्यन्ते, जातान्यष्टौ शतानि चतुःपञ्चाशदधिकानि 854, तैः पूर्वराशेर्भागो ह्रियते, लब्धानि षट्त्रिंशद्योजनानि 36, शेषाणि तिष्ठन्ति त्रीणि शतान्यष्टापञ्चाशदधिकानि 358, अत ऊर्ध्वम् एकषष्टि भागा आनेतव्याः, ततश्चतुर्दशरूपोऽधस्तात् छेदराशि: 14 तेन भागे हत्ते सप्तभागकरणार्थ सप्तभिर्गुण्यन्ते, पञ्चविंशतिरेकषष्टिभागा: 25 / 61 शेषास्तिष्ठन्त्यष्ठो 8 / ते सप्तभागकरणार्थ सप्तभिर्गुण्यन्ते, जाता षट्पञ्चाशत् 56, तस्याश्चतुर्दशभिगि हृते लब्धाश्चत्वारः सप्तभागाः, एतावत्परिमाण एकैकश्चन्द्रविकम्प इति, तदेवं चन्द्रस्य सूर्यस्य च विकम्पक्षेत्रकाष्ठा चन्द्रमण्डलानां सूर्यमण्डलानां च परस्परमन्तरमुक्तम् / संप्रति प्रस्तुतमभिधीयते-तत्र सर्वाभ्यन्तरे चन्द्रमण्डले सर्वाभ्यन्तरं सूर्यमण्डलं सर्वात्मना प्रविष्ट, केवलमष्टावेकषष्टिभागाश्चन्द्रमण्डलस्य बहिः शेषा वर्तन्ते। चन्द्रमण्डलात् सूर्यमण्डलस्याष्टाभिरेकषष्टिभगीनतवात्ततो द्वितीया चन्द्रमण्डलादगिपान्तराले द्वादश सूर्यमार्गाः / तथाहि-द्वयोश्चन्द्रमण्डलयोन्तरं पञ्चत्रिंशत् योजना नि, त्रिंशच्चैकषष्टिभागा योजनस्य, एकस्य च एकषष्टिभागस्य सत्काश्चत्वारः सप्तभागा:, तत्र योजनान्येकषषष्टिभागकरणार्थमकषष्ट्या गुण्यन्ते, गुणयित्वा चोपरितनास्विंकषष्टिभागाः प्रक्षिप्यन्ते, जातान्येकविंशतिशतानि पञ्चषष्ट्यधिकानि 2165, सूर्यस्य विकल्पा द्वे योजने अष्टाचत्यारिंशदेकषष्टिभागा योजनस्य, तत्र द्वे योजने एकषष्ट्या गुण्येते, जातं द्वाविंशशतम् 122, तत उपरितना अष्टाचत्वारिंशदेकषष्टिभागा योजनस्य प्रक्षिप्यन्ते, जातं सप्तत्यधिकं शतं 170, तेन पूर्वराशेर्भागो ह्रियते, लब्धा द्वादश, एतावन्तोऽपान्तराले सूर्यमार्गा भवन्ति, शेष तिष्ठति पञ्चविंशशतं 125, तत्र द्वाविंशेन शतेन द्वादशस्य सूर्यमार्गस्योपरि द्वे योजने लब्धे, शेषास्तिष्ठन्ति त्रय एकषष्ठिभागा:, येऽपि च प्रथमे चन्द्रमण्डले रविमण्डलात् शेषा अष्टावेकषष्टिभागास्तेऽप्यत्र प्रक्षिप्यन्ते इति जाता एकादश एकषष्टिभागाः, तत इदमागतं द्वादशात्सूर्यमार्गात्परतो द्वितीयाचन्द्रमण्डलादर्वाग् द्वे योजने, एकादश च एकषष्टिभागा योजनस्य, एकस्य च एकषष्टिभागस्य सत्काश्चत्वार सप्तभागाः, तत्र योजनद्वयानन्तरं सूर्यमण्डलमतो द्वितीयाचन्द्रमण्डलादगिभ्यन्तरं प्रविष्ट सूर्यमण्डलम्, एकादशे एकषष्टिभागानेकस्य च एकषष्टिभागस्य सत्कान् चतुर: सप्तभागान, तत: परं षट्त्रिंशदेकषष्टिभागा एकस्य च एकषष्टिभागस्य सत्कास्त्रय: सप्तभागा इत्येतावत्परिमाणं सूर्यमण्डलं चन्द्रमण्डलसंमिश्र, तत: सूर्यमण्डलात्परतो बहिविनिर्गत चन्द्रमण्डमलमेकोनविंशतिमेकषष्टिभागानेकस्य च एकषष्टिभागस्य चतुर: सप्तभागान, ततः परं भूयस्तृतीयाचन्द्रमण्डलादर्वाग् यथोक्तपरिमाणमन्तरम् / तद्यथा-पञ्चत्रिंशत्योजनानि त्रिंशदेकषष्टिभागा योजनस्य, एकस्य च एकषष्टिभागस्य सत्काश्चत्वारः सप्तभागा:, एतावति चान्तरे द्वादश सूर्यमार्गा लभ्यन्ते, उपरि च द्वे योजने जयश्चैकषष्टिभागा योजनस्य, एकस्य च एकषष्टिभागस्य सत्काश्चत्वारः सप्तभागाः, ततोऽत्र प्रागुक्ता द्वितीयस्य चन्द्रमण्डलस्य सत्का: सूयमण्डलाद् बहिर्विनिर्गता एकोनविंशतिरेकषष्टिभागाः, एकस्य च द्वाषष्टिभागस्य चत्वार: सप्तषष्टिभागाः प्रक्षिप्यन्ते, ततो जातास्त्रयोविंशतिरेकषष्टिभागा:, एकस्य च एकषष्टिभागस्य सत्क एकः सप्तभागः, तत इदमायातं द्वितीयाचन्द्रमण्डलात्परतो तिक्रमेण सूर्यमण्डलं, तत्र तृतीयाचन्द्रमण्डलादगभ्यन्तरं प्रविष्ट, त्रयोविंशतिमेकषष्टिभागान् एकं च एकषष्टिभागासत्कं सप्तभागं, तत: शेषाश्चतुर्विंशतिरेकषष्टिभागाः, एकषष्टिभागस्य षट् सप्तभागा: सूर्यमण्डलस्य तृतीयचन्द्रमण्डलसंमिश्रः, ततस्तृतीयं चन्द्रमण्डल सूर्यमण्डला बहिर्विनिर्गतमेकत्रिंशतभेकषष्टिभागाद्, एकस्य च एकषष्टिभागस्य सत्कमेकं सप्तभागं, ततो भूयोऽपि यथोक्तं चन्द्रमण्डलान्तरं, तस्मिश्च द्वादश सूर्यमार्गा लभ्यन्ते, द्वादशस्य सूर्यभार्गस्योरपि द्वे योजने त्रय एकषष्टिभागा योजनस्य, एकस्य च एकषष्टिभागस्य सत्काश्चत्वारः सप्तभागाः, ततो येऽत्र तृतीयमण्डलसत्का; सूर्यमण्डलाद् बहिर्विनिर्गत एकत्रिंशदेकषष्टिभागा योजनस्य, एकस्य च एकषष्टिभागस्य सत्का एके सप्तभागा: तेऽत्र प्रक्षिप्यन्ते, ततो जाताश्चतुत्रिंशदेकषष्ठिभागा: एकस्य च एकषष्टिभागस्य सत्का: पञ्च सप्तभागा: तत इदं वस्तुतत्त्वं जातंतृतीयाचन्द्रमण्डलात्परतो द्वादशसूर्यमार्गात्परतो योजनद्वयमतिक्रम्य सूर्यमण्डलं, तचचतुर्थाश्चन्द्रममलादक अभ्यन्तरं प्रविष्ट चतुस्त्रिशतमेकषष्टिभागानेकस्य च एकषष्टिभागस्य सत्कान् पञ्च सप्तभागान्, ततः शेषा: सूर्यमंण्डलस्य त्रयोदश एकषष्टिभागाः, एकस्य च एकषष्टिभागस्य सत्कौद्वौ भागो, इत्येतावच्चदतुर्थचन्द्रमण्डलसंमिश्र, चतुर्थस्य चन्द्रमण्डलमस्य सूर्यमण्डलाद बहिर्विनिर्गतद्विचत्वारिंशदेकषष्टिभागा एकषष्टिभा--