SearchBrowseAboutContactDonate
Page Preview
Page 1111
Loading...
Download File
Download File
Page Text
________________ चंदमंग्ग १०८७-अभिधानराजेन्द्रः भाग-३ चंदमंग न्ति चन्द्रमण्डलानि यानि रविशशिनक्षत्राणं सामान्यानि साधारणानि। कि मुक्तं भवति ?-रविरपि तेषु मण्डलेषु गच्छति, शश्यपि, नक्षत्राण्यपीति, तथा सन्ति चन्द्रमण्डलानि यानि सदा आदित्याभ्या, 'सूत्रे द्वित्वेऽपि बहुवचनं प्राकृत्वात् विरहितानि, येषुन कदाचिदपि द्वयोः सूर्ययोर्मध्ये एकोऽपि सूर्यो गच्छतीति भावः / एवं भगवता सामान्येनोक्ते भगवान गौतमो विशेषावगमनिमित्तं भूयः प्रश्रयति-“ता एएसि णं' इत्यादि, सुगमम्। भगवानाह-"ता एएसिणं इत्यादि। ता इति पूर्ववत्। एतेषां पञ्चदशानां चन्द्रमण्डलानां मध्ये यानि तानि चन्द्रमण्डलानि, यानि, णं इतिप्राग्वत् सदा नक्षत्रैरविरहितानि तान्यष्टौ / तद्यथा- “पढमे चंदमंडले" इत्यादि / तत्र प्रथमे चन्द्रमण्डले अभिजिदादीनि द्वादश नक्षत्राणि / तथा त तत्र संग्रहणिगाथा- “अभिइ सवण धणिट्टा, सयभिसया दो य होंति भद्दवया / रेवइ अस्सिणि भरणी, दो फगुणि साइ पढमंसि" / 1 / तृतीये चन्द्रमण्डले पुनर्वसुमघे, षष्ठे चन्द्रमण्डले कृत्तिका, सप्तमे रोहिणीचित्रे, अष्टमे विशाखा, दशमे अनुराधा, एकादशे ज्येष्ठा, पञ्चदशे मृगशिर आर्द्रा पुष्योऽश्लेषा हस्तो मूलम् पूर्वाषाढा उत्तराषाढा च / तत्राद्यानि षट् नक्षत्राणि यद्यपि पञ्चदशस्य मण्डलस्य बहिश्चारं चरन्ति तथाऽपि तानि चन्द्रमण्डलानि, यानि सदा नक्षत्रैविरहितानि तानि सप्त / तद्यथा-द्वितीयं चन्द्रमण्डलमित्यादि। तथा तत्र तेषां पादशानां चन्द्रमण्डलानां मध्ये यानि तानि चन्द्रमण्डलानि रविशशिनक्षत्राणां सामान्यानि भवन्ति तानि, 'णं' इति प्राग्वत्।। चत्वारि / तद्यथा- "पढमे चंदमंडले इत्यादि। तथा तत्र तेषां पञ्चदशानां चन्द्रमण्डलानां मध्ये यानि तानि चन्द्रमण्डलानि, यानि सदा आदित्याभ्यां विरहितानि तानि पञ्च / तद्यथा- "छठे चंदमंडले" इत्यादि सुगमम् / एतगणनाच यान्यभ्यन्तराणि पञ्च चन्द्रमण्डलानि / तद्यथा-प्रथम द्वितीयं तृतीयं चतुर्थ पञ्चम, यानि च सर्वबाह्यानि पञ्चचन्द्रमण्डलानि, तद्यथा-एकादशं द्वादशं त्रयोदशं चतुर्दश पञ्चदशमित्येतानि दश तानि सूर्यस्यापि साधारणानीति गम्यते / तथा चोक्तमन्यत्र"दस चेव मंडलाइं, अभितरवाहिरा रविससीणं / सामन्नाणि उ नियमा, पत्तेया होंति सेसाणि" // 1 // अरयाक्षरगमनिका-पञ्चाभ्यन्तराणि, पञ्च बाह्यानि, सर्वसंख्यया दश मण्डलानि नियमाद् रविशशिनो: सामान्यानि साधारणानि, शेषाणि तु यानि पञ्च चन्द्रमण्डलानि षष्ठादीनि दशपर्यन्तानि प्रत्येकान्यसाधारणानि चन्द्रस्य, तेषु चन्द्र एव गच्छति, न तु जातु कदाचिदपि सुर्य इति भावः / इह किं चन्द्रमण्डलं कियता भागेन सूर्यमण्डलेन स्पृश्यते, कियन्ति वा चन्द्रमण्डलस्यापान्तराले एव सूर्यमण्डलानि, कथंवा षडादीनि दशपर्यन्तानि पञ्च चन्द्रमण्डलानि सूर्येण न स्पृश्यन्ते, इति चिन्तायां विभागोपदर्शनं पूर्वाचार्य: कृतम्, ततस्तद्विनेयजनानुग्रहायोपदइयते-तत्र प्रथमत एतद्विभावनार्थ विकम्पक्षेत्रकाष्ठा निरूप्यते इह सूर्यस्य विकम्पक्षेत्रकाष्ठा पञ्चयोजनशतानि दशोत्तराणि / तथाहि-यदि सूर्यस्यैकेनाहोरात्रेण विकम्पो द्वे योजने, एकस्य च योजनस्याष्टाचत्वारिंशदेकषष्टिभागा लभ्यन्ते, तत स्त्र्यशीत्यधिकेनाहोरात्रशतेन किंलमामहे ? राशित्रयस्थापना-१।२/४०।१८३। अन्न सवर्णेनाथ 2 योजने एकषष्टया गुण्यते गुणयित्वा चोपरितना अष्टाचत्वारिंशदेकषष्टिभागा: प्रक्षिप्यन्ते, ततो जातं सप्तत्यधिक शतम् / 170, एतत् अशीत्यधिकेन शतेनान्यराशिना गुण्यते, जातान्येकत्रिंशत्सहस्राणि शतमेकं दशोत्तरम् 31110 / तत एतस्य राशेर्योजनानयनार्थमेकषष्टया 61 भागो ह्रियते, लब्धानि पञ्च योजनशतानि दशोत्तराणि 510, एतावती सूर्यस्य विकम्पक्षेत्रकाष्ठा। चन्द्रमसः पुनर्विकम्पक्षेत्रकाष्ठा पक्ष योजनशतानि नवोत्तराणि, एकस्य च योजनस्य त्रिपञ्चाशदेकषष्टिभागाः / तथाहि-यदि चन्द्रमस एकेनाहोरात्रेण विकम्प: षट् त्रिंशद्योजनानि, एकस्य च योजनस्य पञ्चविंशतिरेकषष्टि-भागा:,एकस्य च एकषष्टिभागस्य चत्वारः सप्त भागा लभ्यन्ते, ततश्चतुर्दशभिरहोरात्रैः किं लभामहे ? राशित्रयस्थापना१ 3661 25 4 61 7 अत्र सवर्णेनार्थं प्रथमत: षट्त्रिंशत् एकषष्ट्या गुण्यते, गुणयित्वा चोपरितनाः पञ्चविंशतिरेकषष्टिभागास्तत्र प्रक्षिप्यन्ते, जातानि द्वाविंशतिशतानि एकविंशत्यधिकानि 2221 / एतानि सप्तभिर्गुणयित्वा चोपरितनाश्चत्वार: सप्तभागास्तत्र प्रक्षिप्यन्ते, ततो जातानि पञ्चदशसहस्राणि पंचशतान्येकपञ्चाशदधिकानि 15551, ततो योजनानयनार्थम् 617 छेदराशिरप्येकषष्टिलक्षण: सप्तभिर्गुण्यते, जातानि चत्वारि शतानि सप्तविंशत्यधिकानि 427, तत उपरितनो राशिश्चतुर्दशभिरन्त्यराशिरू पैर्गुण्यते, ततो जाते द्वे लक्षे सप्तदश सहस्राणि सप्तशतानि चतुर्दशाधिकानि 217714, ततश्छेद्यछेदकराश्यो / सप्तभिरपवर्तना जाता, उपरित्तनो राशिरेकत्रिंशत्सहस्राणि शतमेकं व्युत्तरं 31102, छेदराशिरेकषष्टिः, ततस्तया भागे हुते लब्धानि पञ्चयोजनशतानि नवोत्तराणि, एकस्य च योजनस्य त्रिपश्चाशदेकषष्टिभागा. 506 / 53, एतावती चन्द्रमसो विकम्पक्षेत्रे काष्टा, सूर्यमण्डलस्य च परस्परमन्तरंटे द्वे योजने, चन्द्रमण्डलस्य च परस्पम् अन्तरं पश्चत्रिंशत्योजनानि, एकस्य च योजनस्य त्रिंशदेकषष्टि 30161 भागाः, एकस्य च एकषष्टिभागस्य चत्वारः सप्त भागा: / उक्तं च जम्बूद्वीपप्रज्ञप्तौ- "सूरमंडलस्य णं भंते ! सूरमंडलस्स एसणं केवइअं अवाहाए अंतरे पण्णत्ते ? गोअमा ! दो जोअणाई सूरमंडलस्स सूरमंडलस्स अवाहाए अंतरे पण्णत्ते, तथा चंदमंडलस्स णं भंते ! चंदमंडलस्स एसणं केवइए अवाहाए अंतरे पण्णत्ते ? गोअमा! पंचतीस जोयणाइं तीसं च एगसहि भागा जोअणस्स एणं च एगसट्ठिभागं सत्तहा छित्ता चत्तारि च चुण्णिआ भागा, सेसा चंदमंडलस्स, चंदमंडलस्स अवाहाए अंतरे पण्णत्ते" इति। एतदेव च सूर्यमण्डलस्यचस्वस्वमण्डलविष्कम्भपरिमाणमुक्तं सूर्यस्य चन्द्रमसश्च विकम्परिमाणमवसेयम्। तथा चोक्तम्-सूरविकंपो एको, समंडला मंडलंतरिया। "सूरविकंपा एको, संमडला होइ मंडलंतरिया / चंदविकपो य तहा, समडला मण्डलंतरिया // 1 // " अस्या गाथाया अक्षरगमनिका-एक: सूर्यविष्कम्भो भवति, (मंडलंतरियत्ति) अन्तरमेव आन्तयं, भेषजादित्वात् स्वार्थे ट्यण, तत: स्त्रीत्वविवक्षायां डीप्प्रत्यते आन्तरी, आन्तर्येव आन्तरिका मण्डलस्य मण्डलान्तरिका (संमडल त्ति) इह मण्डलशब्देन मण्डलविष्कम्भ उच्यते, परिमाणे परिमाणवत् उपचारात्, ततः सह मण्डलेन मण्डलविष्कम्भपरिमाणेन वर्तते इति समण्डला / किमुक्तं भवति ?-एकस्य सूर्यमण्डलान्तरस्य यत्परिमाणं योजनद्वयलक्षं तदेव सूर्यमण्डलविष्कम्भपरिमाणेन अष्टाचत्यारिंशदेकषष्टिभागलक्षेण सहितमेकस्य सूर्यवि
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy