________________ चंदमंडल 1084- अमिधानराजेन्द्रः भाग-३ चंदमंडल कयोर्विरोधः / तदेवमेकचन्द्रायणवक्तव्यतोक्ता / / 1 / / संप्रति द्वितीयचन्द्रायणवक्तव्यताऽभिधीयतेतत्र य: प्रथमे चान्द्रायणे दक्षिणभागादभ्यन्तरं प्रविशन् सप्तार्द्धमण्डलानि उत्तरभागादभ्यन्तरं प्रविशन् षड्अर्द्धमण्डलानि सप्तमस्य चार्द्धमण्मलस्य त्रयोदशसप्तषष्टिभागान् चरितवान् तमधिकृत्य द्वितीयायनभावना क्रियते-तत्रायनस्य मण्डलं क्षेत्रपरिमाणं त्रयोदशार्द्धमण्डलानि चतुर्दश चार्द्धमण्डलस्य त्रयोदश सप्तषष्टिभागा: तत्र प्राक्तनमयनमुत्तरस्यां दिशि सर्वाभ्यन्तरे मण्डले त्रयादशसप्तषष्टिभागपर्यन्ते परिसमाप्तम् / तदनन्तरं द्वितीयायनप्रयेशे चतुःपञ्चाशता सप्तषष्टिभागः सर्वाभ्यन्तरमण्डलं परिसमाप्य ततो द्वितीये मण्डले चारं चरति / तत्र त्रयोदशभागपर्यन्त एकमर्द्धमण्डलं द्वितीयस्यायनस्य परिसमाप्त द्वितीयमद्ध मण्डलमुत्तरस्यां सर्वाभ्यन्तरा तृतीये अर्द्धमण्डलत्रयोदशभागपर्यन्ते तृतीयमर्द्धमण्डलं दक्षिणस्यां दिशि पञ्चमेऽर्द्धमण्ले पञ्चमेऽर्द्धमण्डं दक्षिणस्या दिशि षष्ठेर्द्धमण्डलम् उत्तरास्यां दिशि सप्तमेऽर्द्धमण्डले सप्तममर्द्धमण्डलमुत्तरस्यां दिशि नमवमेऽद्धमण्डले नवममर्द्धमण्मलं दक्षिणस्यां दिशि दशमेऽर्द्धमण्डले मण्डले दशममर्द्धममण्डलम् उत्तरस्यां दिशि एकादशेऽर्द्धमण्डले एकादशमर्द्धमण्डलं दक्षिणस्यां दिशि द्वादशेऽद्धमण्डले द्वादशमर्द्धम-ण्डलम् उत्तरस्यां दिशि त्रयोदशेऽर्द्धमण्डले त्रयोदशमर्द्धमण्डल दक्षिणस्यां दिशि चतुर्दशेऽर्द्धमण्डले चतुर्दशमर्द्धमण्डलं तच त्रयोदशभागपर्यन्ते परिसमाप्त तदनन्तरं त्रयोदशसप्तषष्टिभागान् अन्यान् चरित। एतावता द्वितीयमयन परिसमाप्तम्॥ चतुर्दशेचमण्डले संक्रान्तः सन् प्रथमक्षणादुर्द्धसर्वबाह्यमण्डलाभिमुखं चारं चरति। तत: परमार्थत: कतिपयभागातिक्रमे पञ्चदश एव सर्वाबाह्ये मण्डले वेदितव्य: तदेवमस्मिन्नयने पूर्वभागे द्वितीयादीन्येकान्तरितानि चतुर्दशपर्यन्तानि सप्तार्द्धमण्डलाचीर्णानि पश्चिमभागे च तृतीयादीन्येकान्तरिता नि त्रयोदशपर्यन्तानि षट् अर्द्धमण्डलानि / तत्र पूर्वभागे पश्चिमभागे वाह्यप्रतिमण्डलं स्वयं चीर्णमन्यवीर्ण वा चरति तन्निरू / यति- "ता दोचायणगए" इत्यादि / ता इति पूर्ववत् / द्वितीयाऽयनगते चन्द्र पौरस्त्याद्भागान्निष्क्रामति किमुक्तं भवतिपौरस्त्यभागे चार चरति / सप्तचतु: पञ्चाशत्सत्कानि भवन्ति यानि चन्द्रः परस्येति तृतीयार्थे षष्ठी / परेण सूर्यानाचीर्णानि प्रतिचरति सप्त च त्रयोदशकानि भवन्ति यानि चन्द्र आत्मनैव चीर्णानि प्रतिचरति / इयमत्र भावनामेरो: पूर्वस्या दिशि यो भाग: स पूर्वभागो यश्चापरस्यां दिशि स पश्चिमभागः तत्र पूर्वभागे सप्तस्वा / द्वितीयादिष्येकान्तरितेषु चतुर्दशपर्यन्तेषु सप्तषष्ठिभागप्रविभक्तेषु प्रत्येक चतुःपञ्चाशतम् 2 सप्तषष्टिभागान् चन्द्रः परेण सूर्यादिना चीर्णान् प्रतिचरति / त्रयोदश-२ सप्तषष्टिभागान् स्वयं चीर्णानिति / "ता दोघाणे गए" इत्यादि / तस्मिन्नेव चन्द्रमसि द्वितीयाऽयनगते पश्चिमभागान्निष्क्रामति पश्चिमे भागे चार घरति। षट्चतु: पञ्चाशत कानि भवन्ति यानि चन्द्र: परस्येति परेण सूर्यादिना चीर्णानि प्रति चरति षट्त्रयोदशकानि यानि चन्द्र: स्वयं चीर्णानि प्रतिचरति / अत्रापीयं भावनापश्चिमे भागे षट्स्वपि तृतीयादिष्वेकान्तरितेषु त्रयोदशपर्यन्तेषु अर्द्धमण्डलेषु सप्तषष्ठिभागप्रविभक्तेषु प्रत्येकं चतुःपञ्चाशतं सप्तषष्टिभागान् परचीर्णान् चरति त्रयोदश सप्तषष्टिभागान् स्वयं चीर्णानिति। “अवराईखलुदुवे" इत्यादि। अपरे खलु द्वे त्रयोदशके तस्मिन्नयने द्वितीये चन्द्रः केनाप्यनाचीणं पूर्व स्वयमेव प्रविश्य चार चरति / "कयराइं खलु” इत्यादि / प्रश्रसूत्रं सुगमम् / “इमाइं खलु" इत्यादि / निर्वचनवाक्यमेतदेतच प्रायो निगदसिद्वं नवरमेकं तत् त्रयोदशकं सर्वाभ्यन्तरे मण्डले तत्पाश्चान्यायनगतत्रयोदशकादूद्ध वेदितव्यम् / तस्यैव संभवास्पदत्वात् द्वितीये सर्वबाह्ये मण्डले तच पर्यन्तवर्ती प्रतिपत्तव्यम् “एयाई खलु ताणि" इत्यादि। निगमनवाक्यं सुगमम् / तदेवमेकं चन्द्रमसमधिकृत्य द्वितीयायनवक्तव्यतोक्ता एतदनुसारेण च द्वितीयमपि चन्द्रमसमधिकृत्य द्वितीयायनवक्तव्यता भावनीया / परं तस्य पश्चिमभागे सप्तचतुः पञ्चाशत्कानि परचीर्णानि चरणीयानि सप्तत्रयोदशकानि स्वयं चीर्णाचरणीयानि वक्तव्यानि पूर्वभागे षट् चतुः पञ्चाशत्कानि परचीर्णाचरणीयानि षट्त्रयोदशकानि स्वयं चीर्णप्रतिचरणीयानि / / "एतावता" इत्यादि / एतावता कालेन द्वितीयं चन्द्रायनं समाप्तं भवति। “ता नक्खत्ते” इत्यादि / यचेवं द्वितीयमप्यन एतावत्प्रमाणं ता इति ततो नक्षत्रो मासो न चान्द्रो मासो भवति, नापि चान्द्रो मासो नक्षत्रो मासः, संप्रति नक्षत्रमासात् कियता चन्द्रमासोऽधिक: इति जिज्ञासु प्रभं करोति। "ता नक्खत्ताओ मासातो" इत्यादि। 'ता' इति तत्र नक्षत्रात् चन्द्र चान्द्रेण मासेन किमधिकं चरति। एवं प्रश्च कृते भगवानाह-"ता दो अद्धमंडलाइं” इत्यादि। द्वे अर्द्धमण्डले तृतीयस्यार्द्धमण्डलस्याष्टौ सप्तषष्टिभागान् / एकं च सप्तषष्टिभागमेकत्रिंशद्धा छित्त्वा तस्य सत्कानष्टादशभागानधिकं चर ति / / एतच प्रागुक्तमेकायनाधिकमर्द्धमण्डलमित्यादि गुणं कृत्वा परिभावनीयम् / / 2 / / संप्रति यावता चन्द्रमास: परिपूर्णो भवति तावन्मात्रतृतीयायनवक्तव्यतामाह ता तचायणगए चंदे इत्यादि / इह द्वितीयायनपर्यन्ते चतुर्दशे मण्डले षट्त्रिंशतिसंख्यसप्तषष्टिभागमात्रमाक्रान्तं तच परमार्थत: पञ्चदशमर्द्धमण्डलं प्रविष्टस्तत्प्रविष्टश्च प्रथमक्षणादूद्ध सर्वबाह्यानन्तसक्तिनद्वितीयमण्डलाभिमुखं चरति / तस्य तस्मिन्नेव सर्वबाह्यानन्तरेऽवक्तिने द्वितीये मण्डले चारं चरन् वियक्षितस्ततोऽधिकृतस्तत्रोपनिपातस्तृतीयायनगते चन्द्रे पश्चिमे भागे प्रविशति / बाह्यानन्तरस्याग्भिावर्तिन: पाश्चात्यस्यार्द्धमण्डलस्य एकचत्वारिंशत्सप्तषष्टिभागास्ते वर्तन्ते यानि चन्द्र आत्मना परेण चीर्णान् प्रतिचरित / त्रयोदश च सप्तषष्टिभागास्ते यान चन्द्रः परेणैव चीर्णान् प्रतिचरति / अन्ये च त्रयोदशसप्तषष्टिभागास्ते वर्तन्ते यान् चन्द्रः स्वयं परेणाचीत प्रतिचरति / एतावता च परिभ्रमणेन बाह्यानन्तरमाक्तनपाश्चात्यमर्द्धमण्डलं समाप्तं भवति / तदनन्तरं च तस्मिन्नेव तृतीयाऽयनगते चन्द्र पौरस्त्यभागे प्रविशति सर्वबाह्यादक्तिनस्य तृतीयस्य पौरस्त्यस्यार्द्धमण्डलस्य एकचत्वारिंशत्सप्तषष्टिभागा यान् चन्द्र आत्मना परेण च चीर्णान् प्रतिचरति / तत: परमन्ये ते त्रयोदशे भागा यान् चन्द्र परेणैव चीर्णान प्रतिचरति / अन्ये च ते त्रयोदशभागा याद् चन्द्र आत्मना परेण च चीर्णान् प्रतिचरति एतावता सर्वबाह्यान्मण्डलादतिनं तृतीयं पौरस्त्यमर्द्धमण्डलं परिसमाप्तं भवति सप्तषष्टिरपि भागानां परिपूर्ण तथा जातत्वात् 'ता' इत्यादि। ततस्तस्मिनेवत् तीयायनगते चन्द्रे पश्चिमेभागे