________________ चंदमंडल १०५३-अभिधानराजेन्द्रः भाग-३ चंदमंडल नवममर्द्धमण्डलं नवमे अहोरात्रे दक्षिणस्यां दिशि दशममर्द्धमण्डलं दशमे अहोरात्र उत्तरस्यां दिशि एकादशम भण्डलमेकादशे अहो। दक्षिणस्यां दिशि द्वादशममर्द्धमण्डल द्वादशे अहोरात्रे उत्तरस्यां दिशि त्रयोदशमर्द्धमण्मलं त्रयोदशे अहोरात्रे दक्षिणस्यां दिशि चतुर्दशमर्द्धमण्डलं चतुर्दयो अहोरात्रे उत्तरम्यां दिशि पञ्चदशस्यार्द्धमण्डलस्य त्रयोदशसप्तषष्टिभागानाक्रम्य चारं चरति। एतावता च कालेनचन्द्रस्याऽयनपरिसमाप्ति. चन्द्रायन हि नक्षत्रमासप्रमाणं तेन नक्षत्रार्द्धमासेन चन्द्रचारे सामान्यतस्त्रयोदश मण्डलानि चतुर्दशस्य च मण्मलस्य त्रयोदशसप्तषष्टिभागा लभ्यन्ते / तथा हि-यदि चतुस्त्रिशदधिकेनायनशतेन सप्तदशशशतान्यष्टषष्टिसहितानि मण्डलानां लभ्यन्ते / तत एकेनायनेन किं लभासहे। राशित्रयस्थापना-१३ 4 / 1768/1 / अत्रान्त्येन राशिना एकलक्षणेन मध्याराशिगुण्यतेजात: स तानानेव ततस्तस्यायेन राशिना चतुस्त्रिशदधिकशतरूपेण भागहरणं लब्धास्त्रयोदश शेषास्तिष्ठन्ति ट्विंशतिः / तत्र छेद्यछेदकराश्योर्द्विकेनापर्वना लब्धास्त्रयोदशसप्तषष्टिभागाः उक्तं च तेरस य मंडलाणि य, “तेरस सत्तट्टि चेव भागा य। अयणेण चरइ सोमो, नक्खत्तेणऽद्धमासेण"।१।। एतच सामान्यत उक्त विशेषचिन्तायां चैकस्य चन्द्रसो युगस्य प्रथमे अयने यथोक्तेन प्रकारेण दक्षिणभागादभ्यन्तरप्रवेशे द्वितीयादीन्येकान्तरितानि चतर्दशपर्यन्तानि सप्तार्धमण्डलानि लभ्यन्ते उत्तरभागादभ्यन्तरप्रवेशे तृतीयादीन्येकान्तरितानि त्रयोदशपर्यन्तानि षट्परिपूर्णान्यर्द्धमण्डलानि सप्तमस्य तु पञ्चदशमण्डलगतस्यार्द्धमण्डलस्य त्रयोदशसप्तषष्टिभागाः एतावता च यद्वक्ष्यति उत्तरभागादभ्यन्तरप्रवेशचिन्तायाम् “तइए अद्धमंडले" इत्यादिसूत्रं तदपि भावितमेव! संप्रति दक्षिणभागादभ्यन्तरप्रवेश यानि सप्तार्द्धमण्डलान्युक्तानि तदुपसंहार माह "एयाई" इत्यादि / सुगमम् अधुना तस्यैव चन्द्रमसस्तस्मिन्नेव प्रथमे अयने उत्तरभागादभ्यन्तरप्रवेशे यावन्त्यर्द्धमण्डलानि भवन्ति तावन्ति विवक्षुराह-"ता पढमायणगए" इत्यादि / "ता" इति पूर्ववत प्रथमायनगते युगस्यादै प्रथममयनं प्रविष्टे चन्द्रे उत्तरभागादभ्यन्तरं प्रविशति / षट् अर्द्धमण्डलानि भवन्ति / सप्तमस्य चार्द्धमण्डलस्य त्रयोदशसप्तषष्टिभागा यानि चन्द्र उत्तरभागादभ्यन्तरं प्रविशन् आक्रम्य चारं चरति। "कय राइं खलु" इत्यादि। प्रश्नसूत्रं सुगमम्। “इमाईखलु" इत्यादिनिर्वचनसूत्रम् / एतच प्रागेव भावितम् / “एयाई खलु" इत्यादि। निगमनवाक्यं निगदसिद्धम्।। "एतावता इत्यादि" / एता यताकालेन प्रथम चन्द्रस्यायनं समाप्त भवति / एतदपि प्राग्भावितं तदेवं पाश्चात्ययुगपरिसमाप्तिचरमदिवसे य उत्तरस्यां दिशि चार चरितवान् तस्याऽभिनवयुगपक्षे प्रथमे अयने यावन्ति दक्षिणभागाभ्यन्तरप्रवेशेऽर्द्धमण्डालानियावन्ति चोत्तरभागादभ्यरप्रवेशे तावन्ति साक्षादुक्तानि एतदनुसारेण द्वितीयस्याऽपि चन्द्रमसस्तस्मिन्नेव प्रथमे चन्द्रायणेऽर्द्धमण्डलानि वक्तव्यानि तानि चैवं स पाश्चात्ययुगपरिसमाप्तिचरदिवसे दक्षिणदिग्भागे सर्वबाह्ये मण्डले चार चरित अभिनवस्य युगस्य प्रथमे अयने प्रथमेऽहोरात्रे उत्तरस्यां दिशि द्वितीयमर्द्धमण्डलं प्रविश्य चारं चरति / द्वितीये अहोरात्रे दक्षिणस्यां दिशि सर्ववाह्यतृतीयमर्द्धमण्डलं प्रविश्य चारं चरति / तृतीये अहोरात्रे उतरस्यां दिशि / चतुर्थमण्डलमित्यादि। प्रागुक्तानुसोरेण सकलमपि वक्तव्य / तदेवमस्य चन्द्रमसः प्रथमे अहोरात्रे उत्तरभागादभ्यन्तरप्रवेश चिन्तायां द्वितीयादीन्येकान्तरितानि चतुर्दशपर्यन्तानि सप्तार्द्धमण्डलानि भवन्ति / दक्षिणभागादभ्यन्तर प्रवेशचिन्तायां तृतीयादीन्येकान्तरितानि त्रयोदशपर्यन्तानि षट्अर्धमण्डलानि भवन्ति / पञ्चदश चार्धमण्डलस्य त्रयोदशसप्तषष्टि भागाः / एवं च सति यावत् चन्द्रस्यार्धमासस्तावान्नक्षत्रस्यार्धमासो न भवति। किं तु ततो न्यून इति सामर्थ्यात्तत् दृष्टव्यम् / तथा चाह--"ता नक्खत्तेण" इत्यादि / यद्येवमेकस्मिन्नयने नक्षत्रार्धमासरूपे सान्यतश्चन्द्रसस्त्रयोदश मण्डलानि चतुर्दशस्य च मण्डलस्य त्रयोदशसप्तषष्टिभागाः। 'ता' इति ततो नक्षत्रार्धमासश्चान्द्रोर्धमासो न भवति चान्द्रे अर्धे मासे चतुर्दशानां मण्डलानां पञ्चदशस्य चन्द्रमण्डलस्य द्वाविंशतश्चतर्वि शल्यधिकशतभागानां प्राप्यमाणत्वात् / “इह नक्षत्रोऽर्धमाश्चान्द्रोऽर्धमासो न भवति" इत्युक्ती नक्षत्रार्द्धमास: / चान्द्रोद्धम्रासो न भवति / यस्तुश्चान्द्रोऽर्द्धमास: स कदाचिन्नक्षत्रोऽप्यर्द्धमास: स्यात् / यथा "परमाणुरप्रदेश" इत्युक्तौ परमाणुरप्रदेश एव यस्त्वप्रदेश: स परमाणुरपि भवति अपरमाणुश्च क्षेत्रप्रदेशादिरिति शङ्का स्यात् / ततस्तदपनोदार्थमाह..."चान्द्रोर्द्धमासो नक्षत्रोऽर्द्धमासो न भवति" एवमुक्तेन भगवान् गौतमो ! नक्षत्रार्द्धमासयोर्विशेषपरिज्ञानार्थमाह-''ता नक्खत्ताओ अद्धमासाओ" इत्यादि / 'ता' इति पूर्ववत् / नक्षत्रात् अर्द्धमासात्ते तव मतेन भगवन् ! चन्द्रश्चान्द्रेणाऽर्द्धमासेन किमधिकं चरति / भगवानाह-"ता एगं" इत्यादि / एकमर्द्धमण्डलं द्वितीयस्य चार्द्धमण्डलस्य चतु:सप्तषष्टि भागाने कस्य च सप्तषष्टि भागस्य एकत्रिंशधाविभिन्नस्य सत्कान् नवभागानधिकं चरति / कयमेतदवसीयते इति चेत् ? उच्यते-त्रैराशिकबलात् तथाहि-यदि चतुर्विशत्यधिकेन शतेन सप्तदशतानि अष्टषष्ट्यधिकानि मण्डलाना लभ्यन्ते तत एकेन पर्वणा किं लभग्गहे ? | राशित्रयस्थापना 124 // 1768 / 1 / अत्रान्त्येन राशिना मध्यराशिगुण्यते जात: स तावानेव / तत आद्येन चतुर्विशत्यधिकशतत्प्रेण राशिना भागहरणं छेद्यछेदकराश्योश्चतुष्केनापवर्तना, लब्धानि चतुर्दशमण्डलानि अष्टौ च एकत्रिंशद्रागा एतस्मान्नक्षत्रार्द्धमासगम्यं क्षेत्रं त्रयोदश मण्डलानि एकस्य च मण्डलम्य त्रयोदश सप्तषष्टिभागा इत्येवंप्रमाण: शोध्यते तत्र चतुर्दशभ्यस्त्रयोदश मण्डलानि शुद्धानि एकमवशिष्ट संप्रत्यष्टभ्य एकत्रिंशद्भागेभ्यस्त्रयोदश सप्तषष्टिभागा: शोध्यास्तत्र सप्तषष्टिरष्टभिर्गुणितो जातानि पञ्चशतानि षट्त्रंशदधिकानि 536 एकत्रिंशता त्रयोदश गुणिता जातानि चत्वारि शतानि व्युत्तराणि 403 एतानि पञ्चभ्य शतेभ्य: षट्त्रिंशदधिकेभ्य: शोध्यन्ते स्थितं शेष त्रयस्त्रिंशदधिकं शतम् 133 तत एतत् सप्तषष्टिभागानयनार्थ सप्तषष्टया गुण्यते जातानि नवाशीतिशतान्येकादशाधिकानि 8611 छेदराशिमौल एकत्रिंशत्सप्तषष्ट्या गुण्यते जाते द्वेसहस्रे सप्तषष्टिभागाः / शेषाणि तिष्ठन्ति षट्शतानि त्र्युत्तराणि 603 ततश्छेद्यकेदकराश्यो: सप्तषष्टयापवर्तना जाता उपरि नव अधस्तादेकत्रिंशल्लब्धा: एकस्य सप्तषष्टिभागस्य नव एकत्रिंशत्छेद-कृता: भागाः / उक्तं च- “एगं च मंडलं मंडलस्य सत्तट्ठि भाग् चत्तारि / नव चेव चुणिया उ, इगतीसकएण छेएण"||१|| इह भावनां कुर्वता मण्डलं मण्डलमिति। यदुक्त तत् सामान्यतो ग्रन्थान्तरे या प्रसिद्धा भावना तदुपरोधादवसेयं परमार्थत: पुनरर्धमण्डलवरमतव्यम् ततो न कश्चित्त् सूत्रभावनि