SearchBrowseAboutContactDonate
Page Preview
Page 1099
Loading...
Download File
Download File
Page Text
________________ चंदपरिवेस 1075- अभिधानराजेन्द्रः भाग-३ चंदमंडल चंदपरिवेस-पुं०(चन्द्रपरिवेस) चन्द्रस्य परिता बलयाकारपरिणाती, जी०३ प्रति० / अनु०। चंदपव्वय-पुं०(चन्द्रपर्वत) जम्बूद्वीपे मन्दरस्य पश्चिमे शीतोदाया महानद्या उत्तरे कूल्ले, वक्षस्कारपर्वते, स्था० 4 ठा०२ उ०। जं०। "दो चंदपव्वया / स्था० 2 ठा०३ उ०। चंदपाणिलेह-त्रि०(चन्द्रपाणिरेख) चन्द्राकारा: पाणौ रेखा यस्य स तथा / औ० / जी० / पश्न० / चन्द्राकृतिहस्तरेखे, तं०। चंदप्पभ-पुं०(चन्द्रप्रभ) चन्द्रस्येव प्रभा ज्योत्स्ना सौम्यलेझ्याविशेषोऽस्वेति चन्द्रप्रभः। तथा देव्याश्चन्द्रपानदोहदोऽभूत् चन्द्रसमवर्णश्च भगवान् इति चन्द्रप्रभ:। ध०२ अधि०।अस्वामवसर्पिण्यां भरतवर्ष जातेऽष्ट मे तीर्थकरे, स० / तत्र सर्वे पि तीर्थकृतश्चन्द्रवत् सोमलेश्याकास्तको विशेष माह-"जणणीए चंदपियणम्मि, दोहलो तेण चंदाभो” येन कारणेन भगवति गर्भगते जनन्याश्चन्द्रपाने दौहृदमजायत चन्द्रसदृश-वर्णश्व भगवान्तेन चन्द्राभश्चन्द्रप्रभ इति विश्रुतः / आ०म० द्वि० अनु०। प्रव०। (अन्तरम् / आयु: / उच्चत्वम् वर्णः। एवमादयः सर्वेऽधिकाराश्चन्द्रप्रभस्वामिन: "तित्थयर' शब्दे वक्ष्यन्ते) (यस्मिन् समये भरते चन्द्रप्रभो जातस्तरिमन्समये ऐरवते दीर्घसेनजिन: संजज्ञे)।चन्द्रकान्तमणे, रा० / आ० म० / आ० चू० / ज्ञा० / प्रज्ञा० / जी० / कल्प० / “तेसि णं" इत्यादि / तेषां तोरणानां पुरतो द्वे द्वे चामरे प्रक्षप्ते सानि च चामराणि "चंदप्पभवश्वेरु-लियनाणामणिरयणखचियदंडाउ इति" चंद्रप्रभः चन्द्रकान्तो वज्र वैडूर्यं च प्रतीतं चन्द्रप्रभवजवैयाणि शेषाणि च नानामणिरत्नानि खचितानि येषु दण्डेषु तथा एवं रूपाश्चित्रा नानाकारा दण्डा येषां चामराणां तानि तथा सूत्रे स्त्रीत्वं प्राकृतत्वात्। जी०३ प्रति० / चतुर्थदेवलो कस्य विमानभेदे, न०। स०३ सम० / चन्द्रस्य ज्यातिष्केन्द्रस्रु सिंहासने, न० / ज्ञा०२ श्रु०१ अ० / श्रीचन्द्रप्रभचरित्रमध्ये अजापुत्रेणाग्निखातिकामध्ये झम्पाचक्रे इत्युक्तमस्ति / तत्किमिति। तथा दुर्जयराजातत्र गतस्तद्भवनं कथ्यते किं वा पातालगृहं तस्माद्धस्तीअपहृत्य गतस्तत्र नरका दर्शिता: पश्चाद्वेषतया बहिर्मुक्त: सर्वाङ्गसुन्दर्याः पार्श्व गतस्तत्र किं भवनपतिनिकायं किं व्यन्तरनिकाये वा तथा दुर्जयराज: कुत्र भवनमध्येऽस्ति सर्वाङ्गसुन्दरी च ततोऽधः कुत्रास्ति तथाऽष्टापदे गतस्तत्रेन्द्रण वस्त्राणि समर्पितानि तानि किं वैक्रियाण्यौदारिकानि चेति प्रश्ने–उत्तरम्-अजापुत्रेणाग्निखातिकामध्ये झम्पादत्ता फलंच दिव्यानुभावेन प्राप्तं तथा दुर्जयराजो वासस्थानं भूमिकाविवरमध्ये मनुष्यसंबन्धिन्यां राजधान्यामस्ति तथा सर्वाङ्गसुन्दरीव्यन्तरी तद्वासस्थानं व्यन्तरनिकायेऽ स्ति तथास्ति अपहृत्यागत इत्यादि सर्वतद्विलसितंज्ञेयं तथाऽष्टापदे वस्त्राण्यर्पितानि तान्याहारिकानि ज्ञेयानीति // 460 प्र० / सेन०३ उल्ला० / चंदप्पमविहार--पुं० (चन्द्रप्रभविहार) नासिक्यपुरे पत्तनमहोत्सवे प्रजापतिना कारिते चन्द्रप्रभस्वामिचैत्ये, ती०२८ कल्प। चंदप्पभसूरि-पुं०(चन्द्रमभसूरि) चन्द्रगच्छीये दर्शनशुद्धिम्-लकर्तरि स्वनामख्याते आचार्ये, (दर्श०) नामनिरुक्तिश्चैचम् संप्रति स्वयमेव वस्तुगृहीतनामधेयो भगवान ग्रन्थकार: स्वनाव्युत्पत्त्या प्रकटयन् ग्रन्थस्वरूप प्रयोजनं च दर्शयन्निदं गाथाद्वयमाहचंदादिपहसूहि-पपनिवहपढमवन्नेहिं। जेसिं नाम तेहिं, परोवयारम्मि निरएहिं ||56 / / इयपायं पुवायरिय-रइयगाहाण संगहो एसो। विहिओ अणुग्गहत्थं, कुमग्गलग्गाण जीवाणं / / 58|| चन्द्रादीनां रिद्धिपर्यवसानपदानां प्रथमाक्षरैः प्रथमवर्णः येषां नामानिधानं तैश्चन्द्रप्रभसूरिभिरित्यर्थ: / कथंभूतैः परोपकारनिरतैरिति निगदितप्रकारेण प्राय: पूर्वाचार्यरचितगाथाभिरेष सङ्ग्रहो विहितो निष्पादितोऽनुग्रहार्थं कुमार्गलग्नानां कुप्रवचन कुदेशनावासितान्त: करणानां भव्यप्राणिनामिति गाथाद्वयार्थः (दर्श०) दर्शनशुद्धिटीका तु तच्छिष्यधर्मघोषप्रभूणां शिष्येण विमलगणिना वैक्रमवत्सरे-११८५ कृतेति समयोऽस्तमतिमद्भिस्स्वयमेवाभ्यूह्यः। दर्श०। चंदप्पभा--स्त्री०(चन्द्रप्रभा) चंद्रस्येव प्रभा आकारे यस्यास्सा। सुराविशेषे, जी०३ प्रति०। चन्द्रस्य प्रथमायामग्रमहिष्याम्, ज्ञा० श्रु० 1 अ० / जं० भ० / सू० प्र० / स्या० / दशमतीर्थकरस्य शीतलस्य चतुर्विशत्य च वीरस्य निष्क्रमणशिविकायाम्, स० / आ० म० द्वि० / ति० / कल्प। संप्रति शिविकाप्रमाणप्रदर्शनार्थमाहपंचासयआयामा, धप्पूणि विछिन्नपन्नवीसं तु / छत्तीसं उव्वेहा, सीया चंदप्पभा भणिया / / पञ्चाशतमायामो दैर्ध्य यस्याः सा पञ्चाशदायामा धनूंषि पञ्चविंशतिं विस्तीर्णा तथा षड्रिंशतं धनूंषि उद्वेधा उच्चा शिविका चन्द्रप्रभाऽभिधाना गणधरैर्भणिता॥ अनेन शास्त्राय पारतन्त्र्यमाहसीयाए मज्झयारे, दिव्यं मणिकणगरयणविवइयं / सिंहासणं महरिहं, सपायवीठं जिणवरस्स / शिविका वा मध्य एव मध्यकारस्तस्मिन् दिव्यसुरनिर्मितं मणयश्चन्द्रकान्तादय: कनकं देवकाञ्चनं रत्नानि मरकतेन्द्रनीलादीनि तैः विवइयं देशीपदमेतत् भूषितमित्यर्थः / सिंहप्रधानमासनं महान्तं भुवनगुरुमर्हतीति महार्हम् / सहपादपीठं यस्य येन वा तत्सपादपीठं जिनवरस्य कृतमिति वाक्यशेष: / आ० म० द्वि। चन्दभागा-स्त्री०(चन्द्रभागा) सिन्धुमहानद्यां संगतायां जलसमर्पि कायाम् स्वनाभरख्यातायां नद्याम्, स्था० 5 ठा० 3 उ०। चंदमंडल-न०(चन्द्रमण्डल) चन्द्रविमाने, स०६२ सम० / अथ चन्द्रमण्डलवक्तव्यताहतत्र सप्त अनुयोगद्वाराणिमण्डलसंख्याप्ररूपणा, मण्डलक्षेत्रप्रपणा, प्रतिमण्डलमन्तरप्ररूणा, मण्डलायामादिमानम्, मन्दरमधिकृत्य प्रथमादिमण्डबाधा, सर्वाभ्यन्तरादिमण्डलायामादि, मुहूर्तगतिः,। तत्रादौ मण्डलसंख्याप्ररूपणां पृच्छतिकति णं भंते ! चंदमंडला पण्णत्ता / गोयमा ! पण्णरस चंदमंडला पण्णत्ता। जंबुद्दीवे णं भंते ! दीवे केवइअं ओगाहित्ता के वइआ चंदमंडला पण्णत्ता ? गोयमा ! जंबुद्दीवे दीवे
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy