________________ चंददीत्र १०७३-अभिधानराजेन्द्रः भाग-३ चंददीव अण्णम्मि धायतिसंडे दीवे सेसं तहेव / एवं धायतिसंभगा वि | सूरा / णवरं धायतिसंमस्स दीवस्स पचच्छिमिल्लातो वेतियंसाओ कालोयणसभुई वारसजोयणं तहेव सव्वं० जाव रायहाणीओ सूराणं दीवाणं पचच्छिमेणं अण्णम्मिघायति खंडे दीवे सव्वं तहेव! "कहिणं भंते" / इत्यादि / व भदन्त ! धातकीखण्डद्वीपगतानां चन्द्राणां तत्र द्वादश चन्द्रा इति बहुवचनं चन्द्रद्वीपानामदीपा: प्रज्ञप्ता: / भगवानाह-गौतम ! धातकीखडस्य पूर्वस्यां दिशि कालोदं समुद्रं द्वादशयोजनसहस्राण्यावग्राह्य अत्र धातकीखण्डगतरनां चन्द्राणां चन्द्रद्वीपानामद्वीपा: प्रज्ञप्ताः / ते च जम्बूद्वीपगतचन्द्रसत्कचन्द्रद्वीपवद्वक्तव्यः / नवरं ते सर्वासु दिक्षु जलादूर्द्ध द्वौ क्रोशी उच्छ्रिता इति वक्ततव्यं तत्र पानीयस्य सर्वत्रापि समत्वात् राजधान्योऽपि तेषां स्वकीयाना द्वीपानां पूर्वतस्तिर्यगसंख्ययान् द्वीपसमुद्रान् व्यतिव्रज्यास्मिन् धातकीखण्डे द्वीपे द्वादशयोजनसहस्राण्यावगाह्य विजयाराजधानीवद्वक्तव्या एवं धातकीखण्डगतसूर्यसत्कसूर्यद्वीपा: अपि वक्तव्याः। नवरंधातकीखण्डस्य पश्चिमान्तात् वेदिकान्तान् कालोदसमुद्रं द्वादशयोजनसहस्राययवगाह्य वक्ततव्या राजधान्योऽपि स्वक्रीयानां सूर्यद्वीपानां पश्चिमदिशि अन्यस्मिन धातकीखण्डे द्वीपे शेष तथैव। संप्रति कालोदसमुद्रगतचन्द्रादित्यसत्कद्वीपवक्तव्यतां प्रतिपादयिषुराहकहि णं भंते ! कालोयणगाणं चंदाणं चंददीवा पण्णत्ता ? गोयमा! कालोयणस्स समुदस्स पुरच्छिमिल्लाओवेतियंताओ कालोयणं समुदं पचच्छिमेणं वारसजोयणसहस्साई ओगाहित्ता एत्थ णं कालोयणं चंदाणं चददीवा सव्वतो समंता दो कोसा ऊ सित्ता जलंतातो सेसं तहेव० जाव रायहाणीओ छसगाणं दीवाणं पुरच्छिमेणं अण्णम्मि कालोयणं समुहे वारस जोयणं तहेव सव्वं० जाव चंदा देवा / एवं सूराण वि / णवरं चंदाणं कालोयणं पचच्छिमिल्लातो वेतिपंतातो कालोयणं समुई पुरत्थिमेणं वारसजोयणसहस्साई ओगाहित्ता तहेव रायहाणीओ सगाए दीवाणं पच्चच्छिमे णं अण्णम्मि कालोयणं समुद्दे तहेव सव्वं / एवं पुक्खरवागाणं चंदाणं पुक्खवरदीवस्स पचच्छिमिल्लातो वेतियंताओ पुक्खरवरसमुदं वारसजोयण-सहस्साई ओगाहित्ता चंददीवा अण्णम्मि पुक्खरवरे दीवे रायहाणीओ तहेवा / एवं सूराण विदीवा पुक्खवरदीवस्स पचत्थिमिल्लाओ वेइयंताओ पुक्खरोदं समुदं वारसजोयणसहस्साई ओगाहित्ता तहेव सव्वं जाव रायहाणीओ दीविल्लगाणं समुद्दे समुद्दगाणं समुद्दे चेव एगाणं अभंतरपासे एगाणं वाहिरए पासे गयहाणीओ दीविल्लगाणं दीवेसु समुद्दगाणं समुद्देसु सरिसणमत्तेसु इमे णामा अणु गंतवाज बुद्दीवेलवण धायइकालोदपुक्खरे वरुणे खीरघयखोयणंदी अरुणवरे कुंडले रुयए आभरणवत्थगंधे उप्पलतिलयए पुढविणिठरघणे वासध रदहणदीओ विजया वक्खारकप्पिदा कुरुमंदिरमावासा कुंभा णक्खत्त चंदसूरा य / एवं भाणियव्वं // कहि णं भंते ! इत्यादि / "कालोयगाणं' इत्यादि / क्व भदन्त ! कालोदकानां कालोदसत्कानां चन्द्राणां चन्द्रद्वीपानामद्वीपा: प्रज्ञप्ता: ? भगवानाह-गौतम ! कालोदसमुद्रस्य पूर्वस्मात् वेदिकान्तात् कालोदसमुद्रं पश्चिमदिशि द्वादशयोजनसहस्राण्यवगाह्यात्र कालोदगतचन्द्र णां चन्द्रद्वीपा: प्रज्ञप्ताः / ते च सर्वासु दिक्षु जलादूयं द्वौ क्रोशावुच्छ्रिताः। शेषं तथैव राजधान्योऽपि स्वीकायानां द्वीपानां पूर्वस्यां दिशि तिर्यगसंख्येयान् द्वीपसमुद्रान् व्यतिव्रज्यास्मिन् कालोदसमुद्रे द्वादशयोजनसहस्राण्यवगाह्य विजया राजधानीवत् वक्तव्याः / एवं कालोदकसूर्यसत्कसूर्यद्वीपा अपि वक्तव्या: / नवरं कालोदसमुद्रस्य पश्चिमान्तात् वेदिकान्तात् कालोदसमुद्रं पूर्वदिशि द्वादशयोजनसहस्राण्यवगाह्येति वक्तव्यम् / राजधान्योऽपि स्वकीयाना द्वीपानां पश्चिमदिशि अन्यस्मिन् कालोदसमुद्रे शेषं तथैव। एवं पुष्करवरद्वीपगतानां चन्द्राणां पुष्करवरद्वीपस्य पूर्वस्मात् वेदिकान्तात् पुष्करोदसमुद्र द्वादशयोजनसहस्र ण्यवगाह्य द्वीपा वक्तव्या: राजधान्यः। स्वकीन्यानां द्वीपाना पूर्वस्यां दिशि तिर्यगसंख्येयान् द्वीपसमुद्रान् व्यतिव्रज्यान्यस्मिन् पुष्करवरद्वीपे द्वादशयोजनसहस्राण्यवगाह्य पुष्करवरद्वीपगतसूर्याणां द्वीपा: पुष्करवरद्वीपश्चिमान्तवेदिकान्तात् पुष्करवरसमुद्र द्वादशयोजनसहस्त्राण्यवगाह्य प्रतिपत्तव्याः / राजधान्यः पुनः स्वकीयाना द्वीपानां पश्चिमदिशि तिर्यगसंख्येयान् द्वीपसमुद्रान् व्यतिव्रज्यान्यस्मिन् पुष्करवरद्वीपे द्वादश योजनसहस्राण्यवगाह्य पुष्करवरसमुद्रगतचन्द्रसत्कद्वीपाः / पुष्करवरसमुद्रस्य पूर्वस्मात् वेदिकान्तात् पश्चिम दिशि द्वादशयोजनसहस्राण्यवगाह्य वक्तव्या राजधान्यः। स्वकीयाना द्वीपाना पूर्वदिशि तिर्यगसंख्येयान् द्वीपसमुद्रान् व्यतिव्रज्यान्यस्मिन् पुष्करवरसमुद्रे द्वादशयोजनसहस्रेभ्यः परतः पुष्करवरसमुद्रगतसूर्यसत्कसूर्यद्वीपाः पुष्करवरसमुद्रस्य पश्चिमात् वेदिकान्तात् पूर्वतो द्वादशयोजनसहस्राण्यवगाह्य राजधान्यः / पुन: स्वकीयानां द्वीपानां पश्चिमदिशि तिर्यगसंख्येयान् द्वीपसमुद्रान् व्यतिव्रज्यान्यस्मिन् पुष्करोदसमुद्रे द्वादशयोजनसहस्रा ण्यवगाहा प्रतिपत्तव्या: / एवं शेषद्वीपगतानामपि चन्द्राणां चन्द्रद्वीपा: स्वस्वन्द्वीपर्गतात् पूर्वस्मात् वेदिकान्तादनन्तरे समुद्रे द्वादशयोजनसहस्राण्यवगाह्य वक्तव्याः / सूर्याणां सूर्यद्वीपा: स्वस्वद्वीपगतात् पश्चिमात् वेदिकान्तात् अनन्तरे समुद्रे राजधान्यश्चन्द्राणामात्मीयचन्द्रद्वीपेभ्य: पूर्वदिशि अन्यस्मिन् सदृशनामके 2 द्वीपे / सूर्याणामपि आत्मीयसूर्यद्वीपेभ्य पश्चिमदिशि तस्मिन्नेव सदृशनामके अन्यस्मिन् द्वीपे द्वादशयोजनसहसेभ्य: परत: शेषसमुद्रगतानां तु चन्द्राणां चन्द्रद्वीपा: स्वस्वसमुद्रस्य पूर्वस्मात् वेदिकान्तात् पश्चिमदिशि द्वादशयोजनसहरसाण्यवगाह्य सूर्याणां तु स्वस्वसमुद्रस्य पश्चिमात् वेदिकान्तात् पूर्वदिशि द्वादशयोजनसहसाण्यवगाह्य चन्द्राणां राजधान्य: स्वस्ववीपानं पूर्वदिशि अन्यस्मिन् सदृशानामके ससुद्रे सूर्याणां राजधान्य: स्वस्वद्वीपानां पश्चिमदिशि केवलमग्रे तनशेषसमुद्रगतानां चन्द्रसूर्याणां राजधान्योऽन्यस्मिन् सदृशनामके द्वीपे समुद्रे वा अग्रेतने पश्चात्तने वा प्रतिपत्तव्या: