________________ चंद 1066- अभिधानराजेन्द्रः भाग-३ चंद रोहितो भवतीति तात्पर्यार्थः / यस्तु षोडशो भागो द्वाषष्टिभागद्वयात्माकोऽनावृत्य तिष्ठति स स्तोकत्वाददृश्यत्वाच न गण्यते। ''अवसेसे' इत्यादिपञ्चदश्यास्तिथेश्वरमसमयमुक्तवा शेषेषु सर्वेष्वपि समयेषु चन्द्रो रक्तो भवति / विरक्तश्च / कि यान् स तस्य राहुणा आवृतो भवति कियांश्चानावृत इति भावः / अन्धकार-पक्षवक्तव्यतोपसंहारमाह-"इयं णं' इत्यादि / इयमन्धकारपक्षे पञ्चदशीतिथि: णं इति वाक्यालंकारे अमावस्यानाम्नी तत्र च युगे प्रथमे पर्वे अमावास्या, इह मुख्यवृत्त्या पर्वशब्दस्याभिधेममावस्या पौर्णमासी च। उपचारात् पक्षे पर्वशब्दस्य प्रवृत्तिः / तत् उक्तम् -"इत्थ णं पठमे पव्वे अमावासा'' इति / अथ कथं चत्वारि मुहूर्त्तशतानि चत्वारिंशदधिकानि षट्चत्वारिंशच्च द्वाषष्टि भागा मुहूर्तस्य ? उच्यते-इह शुक्ल पक्ष: कृष्णपक्षो वा चन्द्रमासस्याई तत: पक्षस्य प्रमाणं चतुर्दशरात्रिन्दिवानि रात्रिन्दिवस्य सप्तचत्वारिंशत्द्वाषष्टिभागाः, रात्रिंदिवस्य परिमाणं त्रिंशत् मुहूर्ताः इति / चतुर्दश त्रिंशता गुण्यन्ते जातानि मुहूर्तानां चत्वारि शतानि विंशत्यधिकानि 420 येऽपि च सप्तचत्वारिंशत् द्वाषष्टिभागा: रात्रिन्दिवस्य तेऽपि मुहूर्तभागकरणार्थं त्रिशता गुण्यन्ते जातानि चतुर्दशशतानि दशोत्तराणि 1410 तेषां द्वाषष्ट्या भागो हियते लब्धा. द्वाविंशतिमुहूर्तास्ते मुहूर्तराशौ प्रक्षिप्पन्ते जातानि मुहूर्तानां चत्वारि शतानि द्विचत्वारिंशदधिकानि 442 शेषास्तिष्ठन्तिषट्चत्यारिंशदवाषष्टिभागा: मुहूर्तस्य 46 तदेवं यावत कालं चन्द्रमसोऽपवृद्धि तावत्कालप्रतिपादनं कृतम् / अथ यावन्तं कालं वृद्धिस्तावन्त मभिधित्सुराह-"ता अंधकारपक्खातो णं" इत्यादि। ता इति पूर्ववत्।। अन्धकारपक्षात् 'णं' इति वाक्यालङ्कारे ज्योत्स्नापक्षं शक्लपक्षमयमानश्चन्द्रः चत्वारि द्विचत्वारिंशदधिकानि मुहूर्तश-तानि षट्चत्वारिंशतं च द्वाषष्टिभागान् मुहूर्तस्य यावत् वृद्धिमुपगच्छाति इति वाक्यशेषः / यानि यथोक्तसंख्यानि मुहूर्त्तशतानि यावचन्द्र: तैर्विरज्यते राहुविमाने नानावृतो भवतीति / विरागप्रकारमेवाह-"त जहे" इत्यादि। तद्यथेत्यादि / विरागप्रकार: प्रदर्श्यते-प्रथमायां प्रतिपल्लक्षणायां तिथौ-प्रथमं पञ्चदशभाग यावचन्द्रो विरज्यते। द्वितीयायां द्वितीय पञ्चदशभाग यावत्। एवं यावत् पञ्चदश्यां पञ्चदशभागम्। तस्यां च पञ्चदस्यां तिथौ पार्णमासीरूपायां चरमसमये चन्द्रो विरक्तो भवति: सर्वात्मना राहुविमानेनानावृतो भवतीति भावः / तं पश्चदश्याश्चरमसभयं मुक्तवा शुक्लपक्षप्रथमसमयादारभ्य शेषेषु समयेषु चन्द्रोरक्तश्च भवति विरक्तश्च भवति देशतोरक्तो भवति देशतो विरक्तश्चेति भावः / मुहूर्तसंख्या भावना च प्राग्वत् कर्तव्या।शुक्लपक्षवक्तव्यतो-पसंहारमाह-"इयं ण" इत्यादि। इयमन्तरोदिता पञ्चदशीतिथि: पौर्णमासीनाम्नी अत्र च" जुगे ण" पूर्ववत् / द्वितीयं पर्व पूर्णनासी अथैवंरूपा युगे कियन्तोऽमावास्याः कियन्त्यश्च पौर्ण मास्य इति / युगे तद्गतसर्वसंख्यामाह ''तस्थ खलु'' इत्यादि / तत्र युगे खल्विमा एवं स्वरूपा द्वाषष्टिः पौर्णिमास्यो द्वाषष्टिश्चामावास्या: प्रज्ञप्ताः / तथा युगे चन्द्रमस एते अनन्तरोदितस्वरूपा: कृत्स्ना: परिपूर्णा रागा द्वाषष्टिरमावास्यानां युगे द्वाषष्टिसंख्या प्रमाणत्वात् तास्वेव चन्द्रमस: परिपूर्णरागसंभवात् एते अनन्तरादितस्वरूपा युगे चन्द्रमस: कृत्स्ना विरागा: सर्वात्मना रागाभावाद् द्वाषष्टिः युगे पौर्णमासीनां द्वाषष्टिसंख्यात्मकत्वात् तास्वेव चन्द्रमसः परिपूर्ण विरागसंभवात् / तथा युगे सर्वसंख्यया एक चतुर्विंशत्यधिकं पर्वशतम् / अमावास्यापौर्णमासीनामेव पर्वशब्दस्य वाच्यत्वात् तासां च पृथक् पृथक् द्वाषष्टिसंख्यानामे कत्र मीलने चतुर्विशत्यधिकशतत्वात् एवमेव युगमध्ये सर्वसंकलनया चतुर्विशत्यधिकं कृत्स्नरागविरागशतम् “ता जावइयाणं" इत्यादि / यावन्तं पञ्चानां चन्द्रचन्द्राभिवर्द्धितरूपाणां समया: एकेन चतुर्विशत्यधिकेन समयशतेन एतावन्त: परिमिता: असंख्याता देशरागविरागसमया: एतेषु सर्वेष्वपि चन्द्रमसो देशतो रागविरागभावात् यत्तु चतुर्विशत्यधिक समयः शतं तत्र द्वाषष्टिसमयेषु, कृत्स्नो रागो द्वाषष्टिसमयेषु कृत्स्नो विरागस्तेन तद्वर्जनमित्याख्यातं मया इति गम्यते / भगवद्वचनमेतत् सम्यक्श्रद्धेयम्। संप्रति कियत्सु मुहूर्तेषु गतेषु अमावास्यातोऽनन्तरा पौर्णमासी ? कियत्सु वा मुहूर्तेषु गतेषु पौर्णमास्या अनन्तरममावास्या इत्यादि निरूपयति-“ता अमावासातो ण" इत्यादि सुगमम्। नवरम् अमावास्याया अनन्तरं चन्द्रमासस्यार्द्धन पौर्णमासी, पौर्णमास्या अनन्तरमर्द्धमासेन चन्द्रमासस्यामावास्या, अमावास्यायाश्च अमावास्यापरिपूर्णेन चन्द्रमासेन, पौर्णमास्या अपि पौर्णमासी परिपूर्णेन चन्द्रमासेन भवति / यथोक्ता मुहर्त्तसंख्या / उपसंहारमाह-"एस णं” इत्यादि / एष अष्टौ मुहूर्तशतानि पञ्चाशीत्यधिकानि द्वात्रिंशच द्वाषष्टिभागा मुहूर्तस्येति एतावान् एतावत्प्रमाणचन्द्रमास: / तत एतावत्प्रमाणं शकलं खण्डरूपं युगं चन्द्रमासप्रमित युगं सकलमेतदित्यर्थ: / च० प्र० 13 पाहु० / स०। (राहुभेदा: राहु शब्दे) ('राहु' सकाशत् चन्द्रसूर्यग्रहणवक्तव्यता 'गहण' शब्दे अस्मिन्नेव भागे 861 पृष्ठे गता)। चन्द्रवृद्ध्या जीवानां वद्धिहान्यौजति णं भंते ! समणेणं भगवया महावीरेणं० जावसंपत्तेणं नवमस्स नायज्झस्स अयमढे पण्णत्ते दसमस्स णं भंते ! णायज्झययस्स समणे णं भगवया महावीरेणंजाव संपत्तेणं के अट्टे पण्णत्ते एवं खलु जंबू ! तेणं कालेणं तेणं समएणं रायगिहे णामं णगरे होत्था तत्थ णं रायगिहे णयरे सेणिए णामं राया होत्था। तस्स णं रायगिहस्स णयस्स वहिया उत्तरपुरच्छिमे दिसीभाए एत्थ णं गुणसेलए णामं चेइए होत्था तेणं कालेणं तेणं समएण समणे भगवं महावीरे पुव्वाणुपुट्विं चरमाणे गामाणुगामं दुइज्जमाणे सुहं सुहेणं विहरमाणे जेणेव गुणसेलए चेइए तेणेव समोसढे परिसा णिग्गया सेणियो वि राया णिग्गओ धम्मं सोचा परिसा पडिगया तएणं गोयमे समणं भगवं महावीरं एवं वयासी-कह णं भंते ! जीवा वंट्टति वा हायंति वा गोयमा! से जहानामए वहुलपक्खस्स पडिवयाचंदे पुण्णिमाचंदं पण्णिहाय हीणे वण्णेणं ह णे सोगयाए हीणे णिद्धयाए हीणे कंतीएहीणे एवं दित्तीए जुत्तीए छायाए पभाए ओयाए लेस्साए मंडलेणं तयाणंतरं च णं वीयाचंदो पाडिवयं चंदं पणिहाय हीणतराए वण्णेणं जाव मंडलेणं तयाणंतरं च णं तइयाचंदे वीइयाचंदं पणिहाय हीणतराए दण्णेणं० जाव मंडलेणं एवं खलु एएणं कमेणं परिहायमाणे परिहायमाणे० जाव अमावसाचं--