________________ चंद 1065- अभिधानराजेन्द्रः भाग-३ चंद "दिनकरतापव्याप-प्रपन्नमूनि कुमुदगहनानि ! उत्तस्थुस्मृतर्दाधिति-कान्तिसुधासेकतस्त्वरितम्" / / 1 / / पुन: किंविशिष्टम् शशिनम्-(निसासोहग त्ति) निशाशोभकं रात्रिशोभाकारकम् / पुन: किंविशिष्टम् शशिनम्-"सुपरिमटे" त्यादि / सुपरिमृष्टं सम्यक् प्रकारेण रक्षादिना उज्जवलितं यत् दर्पणतलं तेन उपमा यस्य स तथा तम् / पुन: किं विशिष्टम्-(हंसपडु वण्णं हसवत् पटु वर्णम् उज्जवलवर्णमित्यर्थः / पुन: किंविशिष्ट शशिनम् (जोइसमुहमंडग) ज्योतिषां मुखमण्डकम् / पुन: किं विशिष्टम्- (तमरिपुं) अन्धकारवैरिणम् / पुन: किं विशिष्टम्-(मयणसरापूरगं) मदनस्य कामस्य शरापूरमिव तूणीगमिव, अयमर्थ:--यथा धनुर्धर: तूणीरं प्राप्य मुदितो नि:शङ्को जनान् बाणैव्याकुलीकरोति। पुन: किं विशिष्टम् "समुद्द" इत्यादि। समुद्रोदकपूरकंजलधिवेलावर्द्धकमित्यर्थः / पुन: किंविशिष्टम् (दुम्मणं इति) उर्मनस्कं व्यग्रम् / ईदृशम (दइयवजियन्ति) दयितेन प्राणवल्लभेन रहितंजनं विरहिणीलोकम् इत्यर्थः / (पाएहिँ सोसयंत) पादै: किरणैः शोषयन्तं वियोगिदुःखदम् इत्यर्थः / यत:-"रजनिनाथ ! निशाचर दुर्मते !, विरहिणां रुधिरं पिवसि ध्रुवम् / उदयतोऽरुणता कथमन्यथा, तव कथं च तके तनुताभृत ||1 // " (पुणो त्ति) पुन:शब्दो धुरि योजित: / पुन: किंविशिष्टम्(सोमचारुरूवं ति) य: सौम्य: सन् चारुरूपो मनोहरलप: तम्। प्रेक्षत इति क्रियापदम् (सा) त्रिशला / पुन: किंविशिष्टम्-(गगणमंडल त्ति) गगनमण्डलस्य आकाशतलस्य (विसाले त्ति) विशालं विस्तीर्णम्। (सोम त्ति) सौम्य सुन्दगकारं (चंकम्माण त्ति) चड क्रम्यमाणं चलनस्वभावं एवंविधं तिलकं तिलकमिव शोभाकरत्वात् / पन: किंविशिष्टम, -"रोहिणीमणे" त्यादि।रोहिण्याश्चन्द्रवल्लभाया: (मण त्ति) मनश्चित्तं तस्य (हिअय त्ति) हितदो हितकारी एकपाक्षिकप्रमनिरासार्थ हितद इति विशेषणम्। ईदृश: / (वल्लुहं ति) वल्लभो यस्तम् इदं कविसमयापेक्षया। अनयथा-रोहिणी किल नक्षत्रं नक्षत्रचन्द्रयोश्च स्वामिसेवकभाव एव सिद्धान्ते प्रसिद्धः / न तु स्त्रीभर्तृभाषः / (देवी) त्रिशाला पूर्णचन्द्रम, इदं विशेष्यम् / (समुल्लसंत) ज्योत्स्नया शोभमानम् // 38 // कल्प०३ क्षण। चन्द्रमसो वृद्धिःता कहं ते चंदमसा वद्दोवढी आहिताति वदेज्जा / ता अहे पंचासीते मुहुत्रसते तीसं च वावट्ठिभागे मुहुत्तस्य आहितातिवदेजा। ता दोसिणापक्खातो णं अंधकारपक्खं अयमाणे चंदे चत्तारिवायाले मुहुत्तसते छायालीसंच वावट्ठिभागे मुहुत्तस्स जाई चंदे रजति, तं जहा-पढमाते पढम भागं जाव पण्णरसीते पण्णरसमभागं चरिमे समए चंदे रत्ते भवति। अवसेसे समए चंदे रत्ते य विरते य भवति / इयं णं अमावासं एत्थ णं पढमे पव्वे अमावासा / ता अंधारपक्खतो णं दोसिणापक्खं अयमाणे चंदे चत्तारिवायाले मुहुत्तसते छायालीसंच वावट्ठिभगे मुहुत्तस्स जाई चंदे विरजइ / तं जहा-पढमाए पढमं भागं० जाव पण्णरसीए पण्णरसमं भागं / चरिमे समए चंदे विरत्ते भवति। | अवसेसे समए चंदे रत्ते य वित्तेय भवति / अयं णं पुण्णिमासिणी। तत्य खलु इमातो वावद्विपुण्णिमातो वावठि अमावासातो पण्णत्तातो / वावहि एए कसिणा विरागा। एए चउव्वीसे पव्वसिते एए चउव्वीसे कसिणरागसए ताजावतियाणं पंचण्हं संवच्छराणं समया एएणं चउव्वीसेणं सतेणं ऊणगाए वति ताणं परित्ता असंखेजा देसरागविरागसता भवंतीति मक्खाता / ता अमावासातो णं पुणिमासिणी चत्तारि वायाले मुहुत्तसते छातालीसं वावट्ठिभागे मुहुत्तस्य आहितातिवदेज्जा / ता अमावासातो णं अवामासा अट्ठापंचासीते मुहुत्तसते तीसं च वावट्ठिभागे मुहुत्तस्स आहियाति वदेज्जा / ता पुण्णिमासिणीतो णं अमावासा चत्तारि वायाले मुहुत्तसते तं चेव ता पुणिमासिणीतो णं पुण्णिमासिणी अठापंचासीते मुहुत्तसते तीसंच वावट्ठिभागे मुहुत्तस्स आहिताति वदेजा। एसणं एवइए चंदे मासे मासे / एसणं एवतिए सगले जुगे / / "ता कहं ते इत्यादि ता इति पूर्ववत् / कथं केन प्रकारेण त्वया भगवन् ! चन्द्रमसो वयपवृद्धी आख्याते इति वदेत् ? किमुक्त भवति-कियन्तं कालं यावत् चन्द्रमसो वृद्धि: कियन्तं कालं यावदपवृद्धिस्त्वया भगवन् ! आख्याता इति वदेत् / एवमुक्ते भगवानाह-"ता अदठे' इत्यादि 'ता' इति पूर्ववत् / अष्टौ मुहूर्त शतानि पञ्चाशीत्यधिकानि। एकस्य च मुहूर्तस्य त्रिंशतं द्वाषष्टिभागान् याववृद्ध्यपवृद्धी समुदायेन आख्याते इति वदेत् तथा ह्येकस्य चन्द्रमासस्य मध्ये एकस्मिन् पक्षे चन्द्रमसो वृद्धिरेकस्मिन् चापवृद्धिः, चन्द्रमासस्य च परिमाणमेकोनत्रिंशतात्रिन्दिवानि / एकस्य च रात्रिन्दिवस्य ठात्रिंशतद्वाषष्टिभागा: रात्रिन्दिवं च त्रिंशमुहूर्तकरणार्थमकोनत्रिंशता गुण्यते जातान्यष्टौ शतानि सप्तत्यधिकानि 870 मुहर्तानाम् / येऽपि च द्वाषष्टिभागा रात्रिन्दिवस्य तेऽपि मुहूर्त सत्का भागकरणार्थ त्रिंशता गुण्यन्तेजातानिनवशतानि षष्ट्यधिकानि६६० तेषां द्वाषष्टया भागो ह्रियते लब्धाः पञ्चदश मुहूर्ता: 15 ते मुहूर्तराशी प्रक्षिप्यन्ते जातानि मुहूर्तानामष्टौ शतानि पञ्चाशीत्यधिकानि (885) शेषाश्चोद्वरन्ति / त्रिंशद् द्वाषष्टिभागा मुहूर्तस्य, एतदेव प्रतिविशे-पावबोधार्थ वैचित्र्येण स्पष्टयति-"ता दोसिणापक्खतो णं" इत्यादि। 'ता' पूर्ववत् / ज्योत्स्नाप्रधानः पक्ष: ज्योत्स्नापक्ष: शुक्लपक्ष इत्यर्थः / तस्मात् अन्धकारपक्षमयमानो गच्छन् चन्द्र; चत्वारि मुहूर्तशतानि द्वाचत्वारिंशदधिकानि, षट्चत्वारिंशतं व द्वाषष्टिभागान मुहूर्तस्य यावदपवृद्धि गच्छतीति वाक्यशेषः / यानि यथोक्तसंख्यानि मुहूर्तशतानि यावत् चन्द्रो राहुविमानप्रभया रज्यते कथं राज्यत इति / तमेव रागप्रकारं तद्यथेत्यादिना प्रकटयति प्रथमायां प्रतिपल्लक्षणायां तिथौ परिसमाप्नुवत्यां परिपूर्ण प्रथम पञ्चदशं भागं यावत् रज्यते / द्वितीयायां परिसमाप्नुवत्यां तिथौ परिपूर्ण द्वितीयं पञ्चदशभागं यावत् / एवं यावत् पञ्चादश्यां तिथौ परिसमाप्नुवत्यां परिपूर्ण पञ्चदशभागं यावत् तस्याश्च पञ्चदश्या: तिथेश्वरमसमये चन्द्रः सर्वात्मना राहुविमानप्रभय रक्तो भवति