SearchBrowseAboutContactDonate
Page Preview
Page 1086
Loading...
Download File
Download File
Page Text
________________ चंचल 1062- अभिधानराजेन्द्रः भाग-३ चंड कुड्डाइ सई फु सइ व, लसइ व पाए वा विच्छभइ / / इह द्रवशब्दो द्रुतार्थवाचकस्ततो द्रावद्रविको नाम द्रुत-द्रुत-गामी स गतिचञ्चलो भण्यते / स्थानचञ्चल: पुनरयं त्रिविधस्तद्यथा-असौ निषण्ण: सन् पृष्ठबाहुकरचरणादिभिः कुड्यम् आदिशब्दात् स्तम्भादिकमसकृदनेकश: स्पृशति। वाशब्द उत्तरापेक्षया विकल्पार्थः / यो वा निषण्ण एव इतस्ततो भ्राम्यति / / पादौ वा विक्षिपति पुन: पुन: संकोचयति प्रसारयति चेत्यर्थः / / 3 / / भाषाचपलमाहभासाचपलो चउहा, असंति अलियं असोहणं वा वि / असमाजोग्गमसम्भ, अणूहिउं तं उ असमिक्खं / / भाषाचपलश्चतुर्द्धा-असत्प्रलापी, असभ्यप्रलापी, असमीक्षितप्रलापी, अदेशकालप्रलापी च / तत्रासत्प्रलपितु शीलमस्येत्यसत्प्रलापी, अथ असदिति कोऽर्थः इत्याह-असदितिशब्देनालीकमशोभनं वा अभिधीयते / तत्रालीकम्-साधुम् व्रवीमीति असाधु साधुमित्यादि, अशोभनं गर्वादिदूषित वचनम्-तथा-असभायोग्यमसभ्यपभिधीयते, इह सभा एकत्रोपविष्टपुरुषसमुदायः, तथा चोक्तम्"धम्मत्थसत्थकुसला, सभासया जत्थ सा सभा नाम / जा पुण अविहिपलुट्टा, बुहेहिं सा भण्णए मेहा" तस्याः सभाया योग्यं यद्वचनं तत् सभ्यम् / तद्विपरीतमसभ्यं तच दास चण्डाल इत्यादिकम् / जकारमकारादिवाक्यरूपं वा, तत्प्रलपितुं शीलमस्येत्यसभ्यप्रलापी अनुहित्वा अविचार्य किमिदं पूर्वापरविरुद्ध किं वा इहपरलोकबाधकमित्याद्यविमृश्य यद्वदति तत् वचनमसमीक्षितमुच्यते / तत्प्रलपनशीलोऽसभीक्षितप्रलापी। अथादेशकालप्रलापिनमाहकजविवत्तिं दलु, भणाइ पुट्वं मए उ विण्णायं / एवमिदं तु भविस्सति, अदेसकालप्पलावी उ। कार्यविपत्तिं कार्यसय विनाशं दृष्टवा कश्चित् भणति यथामया पूर्वमेव विज्ञातमिदं कार्यमेवं भविष्यति / यथा केनचित् साधुना पात्रं लेपितं ततो रूढं सत् कुतोऽपि प्रमादतो लग्नं तत: कश्चिदात्मनो लग्नं तत कश्चिदात्मनो दक्षत्वं ख्यापयन् ब्रवीतियदैवेद परिकर्मयितुमारब्धं तदैव मया ज्ञातं यथेदं निष्पन्नमपि भक्ष्यन्ते। एष एवं विधोऽदेशकाले अनवसरे प्रलपनशीलोऽदेशकालप्रलापी / व्याख्यातश्चतुर्विधोऽपि भाषाचपलः / अथ भावचपलमाहजं जं सुयमत्थो वा, उद्दिष्टुं तस्स पारमप्पत्तो। अन्नभसुयदुमाणं, पल्ल्वगाही उ भावचवले / / यद्यदावश्यकदशवैकालिकादेर्ग्रन्थस्य श्रुतं सूत्रमर्थो वा उद्दिष्ट प्रारब्धं तस्येत्यत्रापि वीप्सा गम्यते / तस्य तस्य पारमप्राप्त: सन्नन्यान्यश्रुतद्रुमाणामाचारादिरूपपरापरशास्त्रतरूणां पल्लवान् तन्मध्यगतालापकश्लोकगाथारू पान् सूत्रार्थलवान स्वरुख्या ग्रहीतुं शीलमस्येति पल्लवग्राही तुः पुनरर्थे : य एवंविधः स पुनर्भावचपलो मन्तव्यः भवेत्कारणं येन वञ्चकत्यमपि कुर्यात्। किं पुनस्तदित्याह तेणे सावय ओसह, खित्ताई वाइ सेहवोसिरणो। आयरियवालमाई, तदुभयछेए य विझ्यपयं / / स्तेनभयेन श्वापदभयेन वा द्रुतमपि गच्छेन्न दोषः / ग्लानो वा कश्चिदागाढस्तरयौषधानयननिमित्तं शीघ्रमपि गच्छेत्। न च प्रायश्चित्तमाप्नुयात् (खित्ताई इति) क्षिप्तचित्त आदिशब्दात् दृप्तचित्तो यक्षाविष्ट उन्मादप्राप्तश्च एते स्थानचञ्चलत्वमपि कुर्युः / न च प्रायश्चित्तमाप्नुयः चशब्दात् (वाइ ति) वादिनो बुद्धिं परिभवितुमली-कमपि ब्रूयात् / यथारोहगुप्तेन पोदृशालपरिवाज-कमतिव्यामोहनार्थ "जीवा अजीवा नोचीवाश्नति” त्यो राशयः स्थापिताः / तथा शैक्षस्य पण्डकादिव्युत्सर्जनविधेये सं निर्मलैयन्नसभ्यमपि भणेत येनोद्वेजित. स्वयमेव गणान्निष्क्रम्य गच्छेत् / आचार्या वा कुतश्चित्प्रमादत्वान्नोपरमन्ते ततोऽदेशकालप्रलापित्वमपि कुर्यात् / यथा-क्षमाश्रमणा अमुक: संय तोऽमुकश्च श्रावको मम पुरत इदं भणति-यथा त्वदीया गुरवः पार्श्वस्था भदन्त: संभाव्यन्ते एतच मया पूर्वमति विज्ञातमासीत् यथा क्षमाश्रमणानामेवमाचरतामपवादो भविष्यति। एवमुक्ते ते अश्लोकभयेनैवोपरमन्ते। बालो वा केलिकन्दर्पादिकुर्वाणोऽपि न निवर्तते ततोऽत्र हितमपि यदपि भाषित्वा निवारणीयः / आदिग्रहणात्प्रत्यनीकादयो वा खरपरुषादिभाषणैः उपशमयितव्यः / तथा तदुभयच्छेदे इति कस्याचार्यस्य पूर्व सूत्रमर्थो वा विद्यते तस्योभयस्यापि तत्पादिनधीयमानस्य व्यवच्छेदोभवति। अत: पूर्वारब्धं शास्त्रमर्द्ध पतिमपि मुक्तवा ततस्तदुभयमध्येतव्यमिति / यथाक्रमं गतिस्थानभावचपलेषु द्वितीयपद मवसातव्यम् / एतद्राथोक्तप्रकारेण कलापमन्तरेण ये गतिचपलादयस्तद्विपरीता ये गतिस्थानभाषाभावैश्चतुर्भिरप्यचपलास्तेऽस्य कल्पाध्यनस्यान कल्पाध्यनम्यानुयोगमहन्तीति / गतं चञ्चलद्वारम् / बृ० १उ० / अनवत्थितचित्ते, विशे० / प्रज्ञा० / जी० / अतीवचटुले, औ० / विमुक्तस्थैर्य, ज्ञा० 101 अ०। चपले, औ०। भ० त०। प्रश्नः / "चंचलजीहे धरणीयलं चेति भूअं" उपा० 2 अ०। चंचा-स्त्री०(चञ्चा) चञ्च अच् / नलनिर्मिते कटभेदे, (चाँच) "चञ्चेव'' इवार्थे कन् "लुप् मनुष्ये" 5 / 3.68 1 इति तस्य (पाणि०) लुप् / तृणमयपुरुषे, वाच० / चमरचञ्चानामि चमरस्य राजधान्याम्, द्वी०। स्था०। चंचुचिय-न०(चञ्चुरित्) प्राकृतत्वाच्चञ्चुरितमित्यस्य चंचुचियमिति / कुटिलगमने, औ०। *चञ्चूचित न०। चञ्चुश्शुकचञ्चुः तद्वद्वक्रतयेत्यर्थ: उचितं उच्चताकारणं पादस्य उचितं वा उत्पादनं पादस्यैवं चञ्चूचि तम् / पादोत्थापने, "चंचुच्चियललियपुलियचलचवलचंचल गईणं' आol चंचुमालइए त्रि०। (देशी) रोमाञ्चिते, कल्प०१क्षण / ज्ञा०। चंड-पुं०(चण्ड) क्रोधने, उत्त० 1 अ० / ज्ञा० / आव० / आ० क०। प्रवलकोपसहिते, स० / क्रोधनिध्मातचिते, उत्त० 10 अ०। क्रोधने, चारभट वृत्त्याश्रयणक रि, उत्त० 1 पु अ०। चण्डकोपने, परुषभाषिणि, / उत्त०१० अ० / रोषणे, दश०८ अ०१ उ०। उत्कटरोषे, ज्ञा०१ श्रु०१८ अ०। रौद्रे, उत्त०२६ अ०। जी० / भ० स०। औ०। ज्ञा० / तीव्र, कल्प० 2 क्षण / जं०।
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy