________________ चउसरणगमन 1056- अभिधानराजेन्द्रः भाग-३ चउसरणगमन सयलकल्लाणाणं कम्मवणविहावसू साहगो सिद्धभावस्स केवलिपण्णत्तो धम्मो जावजीवं मे भगवं सरणं / / "जावजीवं मे भगवंतो अरहंता सरणं इति योगः" / (जावजीयं मे) यावज्जीवितं मे मम भगवन्त: समग्रैश्वर्यादियुक्ताः अर्हन्त: शरणमिति योगः / अत्र यावजीवमिति कालपरिमाण, परतो भङ्गभयात् पुनरवधित्वेन परतोऽप्यधिकृतशरणस्येष्टत्वात् / अत एव विशेष्यन्ते (परमतिलोअणाहा।) परमाश्च ते दुर्गतिभवसंरक्षणेन त्रिलोकनाथाश्च / अत्र त्रिलोकवासिनो देवादयः परिगृह्यन्ते / यत एव विशेष्यन्ते। अणत्तरपुण्णसंभारा, अनुत्तर: सर्वोत्तमहेतूत्कर्षात्पुण्यसंभार: तीर्थङ्क रनाकर्मलक्षणो येषां ते तथा / त एव विशेष्यन्ते (खीणरागदोसमोहा) क्षीणरागद्वेषमोहा: अभिष्वङ्गाप्रीत्यज्ञानलक्षणा येषां ते तथा / त एव विशंष्यन्ते / (अचिंतचिंतामणी) अचिन्त्य चिन्तामणय: चिन्तातिक्रान्तापवर्गविधायकत्वेन / त एव विशेष्यन्ते (भवजल-हिपोआ) भवजलधिपोताः, तद्वदुत्तारत्वेन त एव विशेष्यन्ते (एगंतसरणा) एकान्तशरण्या सर्वाश्रितहितत्वेन, क एवं भूता: किं वा एत इत्याह(अरहंता सरणं) अर्हन्तः शरणं तत्राशोकाद्यष्टमहाप्राति-हार्यलक्षणपूजामर्हन्तीत्यर्हन्त: ते मम शरणमाश्रय इति / (तहा पहीजरामरणा) सिद्धाः शरणम् इति योग: / तथा न केवलमर्हन्त: किं तु सिद्धाः शरणमिति क्रिया / किविशिष्टास्ते इत्याह-प्रक्षीणजरामरणा: पक्षीणे सदाऽपुन वित्ये न जरामरणे येषां ते तथा, जन्मादिवीजाभावात्। एत एव विशेष्यन्ते। (अवेयकम्मकलं-का) अपेतकर्मकलङ्का: अपेत कर्मकलङ्को येषां ते तथाविधाः, सर्वथा कर्मरहिता इत्यर्थः / एत एव विशेष्यन्ते-(पणठ्ठवाबाहा) 1 प्रणष्टव्याबाधा: प्रकर्षण नष्टा क्षीणा व्याबाधा येषां ते तथा, सर्वव्याबाधावर्जिता इति भावः / एत एव शिष्यन्ते-(केवलणा-दंसणा) केवलज्ञानदर्शना केवले सम्पूर्ण ज्ञानदर्शने येषां ते तथा विधाः, सर्वज्ञा: सर्वदर्शिन इत्यर्थः / एत एव विशेष्यन्ते-(सिद्धिपुरनिवासिन) सिद्धिपुरनिवासिन: सिद्धिपुरे लोकान्ते निवस्तुं शीलं येषां ते तथ, मुक्तिवासिन इति गर्भ: / एत एव विशेष्यन्ते-(णिरुवमसुहसंगया)। निरुपमसुखसंगताः / निरुपमसुखेन विद्यमानापेक्षेण संगता इति समासः / असांयोगिकानन्दयुक्त इत्यर्थः / एतएव विशेष्यन्ते-(सव्वहा कयकिच्चा) सर्वथ कृतकृत्या: / सर्वथा सर्वैः प्रकारैः कृतं कृत्यं यैस्ते तथा, निष्ठितार्था इति भावः / क एवंभूताः, किं वा एत इत्याह-(सिद्धा सरणं) सिद्धा: शरणं सिद्ध्यन्ति स्म सिद्धा. परमतत्वरूपास्ते मम शरणमाश्रय इति "तहा पसंतगंभीरासया साधू शरणमिति योगः" / तथा न केवलं सिद्धाः शरणं, किन्तु साधव: शरणमिति क्रिया। किं विशिष्टास्त इत्याह-प्रशान्ता: क्षान्तियोगात् गम्भीरोऽगाधतया आश्रयश्चित्तपरिणामो येषां ते प्रशान्तगम्भीराशयाः / एत एवं विशेष्यन्ते। (सावज्जजोगविरया)। सहावद्येन सावधः सपापो योगो व्यापार: कृतादिरूपः तस्माद्विरता: सावद्ययोगविरताः / त एव विशेष्यन्ते / / (पंचविहायारजाणगा) पञ्चविधमाचार ज्ञानाचारादिभेदभिन्नं जानन्ते इति पञ्चविधाचारजानका: / एत एव विशेष्यनते / (पउमादिणिदसणा) पद्मादीनि पङ्कोत्पत्तिजलस्थितिभावेऽपि तदस्पर्शनेन कामभोगापेक्षयैवमेव भाव इति निदर्शनानि येषां ते पद्यादिनिदर्शनाः / आदिशब्दाच्छरत्सलिलादिग्रहः / एत एव विशेष्यन्ते (झाणज्झयणसंगया) ध्यानाध्ययनाभ्याम् एकाग्रचिन्तानिरोधस्वाध्यालक्षणाभ्यां संगता ध्यानाध्ययनसं गताः एत एव विशेष्यन्ते / (विसुज्झमाणभावा) विशुद्यमानो विहितानुष्ठानेनभावो येषां ते विशुद्ध्यमानभावा:, क एवं भूताः / किं वा एत इत्याह-(साहू सरणं) तत्र सम्यग्दर्शनादिनि: सिद्धिं साधयन्तीति साधवः, मुनयः इत्यर्थः / ते मम शरणमाश्रय: इति। "तहा सुरासुरमणुअपूजिओ, केवलिपण्णत्तो धम्मो-यावज्जीवं ते भगवं सरण” इति योग: / तथा न केवलं साधव: शरणं किं तु केवलिप्रज्ञप्तो धर्म इति संबन्धः / किंविशिष्ट इत्याह-- (सुरासुरमनुअपूइओ) सुरासुरमनुजैः पूजित: सुरासुरमनुजपूजित: सुरा ज्योतिष्कवैमानिका:, असुरा व्यन्तरभवनपतयः, मनुजा: पुरुषविद्याधराः / अयमेव विशेश्यते। (मोहतिमिरंसुमाली) मोहस्तिमिरमिव मोहतिमिरं सद्दर्शनवारकत्वेन तस्यांशुमाली-वांशुमाली तदपनयनादादित्यकल्पः / अयमेव विशेष्यते। (रागद्दोसविसंपरममंतो) रागद्वेषौ विषमिव रागद्वेषविषं तस्य परममन्त्र: तद्धातित्वेनेति भावः / अयमेव विशेष्यते / (हेऊसयलकल्लाणाणं) हेतु: कारणं, प्रवर्तकत्वादिना सकल-कल्याणानां सु देवत्वादीनाम् / अयमेव विशेष्यते। (कम्मवणविभावसू) कर्मवनस्य ज्ञानावरणीयादिसमुदयरूपस्य विभावसुरिवागिरिव तद्दाहकत्वेन / अयमेव विशेष्यते। (साधगो सिद्धभावस्स) साधको निवर्तक: सिद्धभावस्य सिद्धत्वस्य तथा तथा तत्संपादकत्वेन कोऽयमेवं किं वेत्याह--(के वलिपण्णत्तो धम्मो) के वलिप्रज्ञप्त: के वलिप्रलंपितो धर्मः श्रुतादिरूपः / (जावजीवं मे भगवं सरणं) यावज्जीवमिति पूर्ववत् / मे मम भगवान् समग्रैश्वर्यादिगुणयुक्तः शरणमाश्रयः / एतश्चतु:शरणगमनम्। एकार्थसाधकत्वेन प्रभूतानामप्यविरुद्धमेव / एष एव परमार्थः / “चत्तारि सरणं पवजामि / अरहते सरणं पवजामि / सिद्धे सरणं पवजामि / साहू सरणं पवज्जामि केवलिपण्णत्तं धम्म सरणं पवजामि त्ति” पं० सू० सू०। सावजजोगविरई-उकित्तणगुणचउअपडिवत्ती। खलियस्स निंदणावण-तिगत्थगुणधारणा चेव / / 1 / / चारित्तस्स विसोही, कीरइ सामाइएण किल इह यं / सावजेयरजोगाऽऽणं-वज्जणा सेवणत्तणओ / / 2 / / दसणयारविसोही, चउवीसा पत्यएण किज्जइ य / अवज्झुअगुणकित्तण-रू वेणं जिणवरिंदाणं // 3 // नाणाइया उ गुणा, तस्स पन्नवत्तिकरणाओ। वंदणएणं विहिणा, कीरइ सोही उ तेसिं तु // 4|| खलियस्सय तेसि पुणो, विहिणा तं निंदणाइपडिकमणं। तेणं पडिकमणेणं, तेसिं पि य कीरए सोही / / 5 / / चरणाइयाइँयाणं, जहक्कम वणतिगिच्छरू वेणं / पडिकमणो सुद्धाणं, सोही तह काउसग्गेणं / / 6 / / गुणधारणरू वेणं, पचक्खाणेण तवऽइयारस्स / विरियायारस्स पुणो, सव्वेहिं वि कीरए सोही / / 7 / / गयवसहसीहअभिसे-य दामससिदिणयरं झयं कुभं / पउमसरमागरविमा-णभवणरयणुचयसिहिं च / / 6 / / अमरिदनरिंदमुणिं-दवंदियं वंदिउ महावीरं /